Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 1.24

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.24.1

ततः प्रभाते विमले कृताह्निकमरिन्दमौ ।
विश्वामित्रं पुरस्कृत्य नद्यास्तीरमुपागतौ ॥ १.२४.१ ॥

之后,在清晨,完成晨间仪式的两位降伏敌人者,以毗首弥多罗为前导,来到了河岸。

1.24.2

ते च सर्वे महात्मानो मुनयः संशितव्रताः ।
उपस्थाप्य शुभां नावं विश्वामित्रमथाब्रुवन् ॥ १.२४.२ ॥

那些坚守誓愿的大德仙人,牵来一艘吉祥的船,对毗首弥多罗说。

1.24.3

आरोहतु भवान् नावं राजपुत्रपुरस्कृतः ।
अरिष्टं गच्छ पन्थानं मा भूत् कालस्य पर्ययः ॥ १.२४.३ ॥

请您带着王子们在前,登上这船吧;走那条平安的路,不要耽误时间。

1.24.4

विश्वामित्रस्तथेत्युक्त्वा तानृषीन् प्रतिपूज्य च ।
ततार सहितस्ताभ्यां सरितं सागरङ्गमाम् ॥ १.२४.४ ॥

毗首弥多罗说:“就这样吧。”他敬礼了那些仙人,与二人一同渡过了流向大海的河。

1.24.5

तत्र शुश्राव वै शब्दं तोयसंरम्भवर्धितम् ।
मध्यमागम्य तोयस्य तस्य शब्दस्य निश्चयम् ॥ १.२४.५ ॥

他在那里听到一种因水势汹涌而增大的声音;到达河中央后,他想确定那声音的来源。

1.24.6

ज्ञातुकामो महातेजाः सह रामः कनीयसा ।
अथ रामः सरिन्मध्ये पप्रच्छ मुनिपुङ्गवम् ॥ १.२४.६ ॥

光辉灿烂的罗摩与幼弟一起,想要知道,在河中间向最优秀的仙人发问。

1.24.7

वारिणो भिद्यमानस्य किमयं तुमुलो ध्वनिः ।
राघवस्य वचः श्रुत्वा कौतूहलसमन्वितम् ॥ १.२४.७ ॥

“水被劈开时,这喧嚣之声是什么?”听罗怙之裔充满好奇的话语。

1.24.8

कथयामास धर्मात्मा तस्य शब्दस्य निश्चयम् ।
कैलासपर्वते राम मनसा निर्मितं परम् ॥ १.२४.८ ॥

德行高尚者说明了那声音的究竟:“罗摩啊,在凯拉萨山上,由心念所造的至高之湖。”

1.24.9

ब्रह्मणा नरशार्दूल तेनेदं मानसं सरः ।
तस्मात् सुस्राव सरसः सायोध्यामुपगूहते ॥ १.२४.९ ॥

梵天创造了这座摩那娑湖。人中之虎啊,它的水由此流出,环绕着阿逾陀。

1.24.10

सरःप्रवृत्ता सरयूः पुण्या ब्रह्मसरश्च्युता ।
तस्यायमतुलः शब्दो जाह्नवीमभिवर्तते ॥ १.२४.१० ॥

从湖中涌出的神圣萨拉尤河,从梵天湖坠落。它那无与伦比的声音流向恒河。

1.24.11

वारिसंक्षोभजो राम प्रणामं नियतः कुरु ।
ताभ्यां तु तावुभौ कृत्वा प्रणाममतिधार्मिकौ ॥ १.२४.११ ॥

罗摩啊,这声音产生于水流的激荡。请你恭敬地向她们行礼。那二位最有德行者向那二位行礼之后……

1.24.12

तीरं दक्षिणमासाद्य जग्मतुर्लघुविक्रमौ ।
स वनं घोरसंकाशं दृष्ट्वा नरवरात्मजः ॥ १.२४.१२ ॥

二人到达南岸,步履轻捷地前行。人中最优者的儿子看见了那片仿佛可怖之物的森林。

1.24.13

अविप्रहतमैक्ष्वाकः पप्रच्छ मुनिपुङ्गवम् ।
अहो वनमिदं दुर्गं झिल्लिकागणसंयुतम् ॥ १.२४.१३ ॥

无阻碍地,甘蔗王族之子向最杰出的仙人问道:“啊,这片森林多么难以穿越,满是蟋蟀群!”

1.24.14

भैरवैः श्वापदैः कीर्णं शकुन्तैर्दारुणारवैः ।
नानाप्रकारैः शकुनैर्वाश्यद्भिर्भैरवस्वनैः ॥ १.२४.१४ ॥

充满了可怖的猛兽,有发出可怕叫声的鸟类,各种各样的鸟儿以可怖的声音啼叫。

1.24.15

सिंहव्याघ्रवराहैश्च वारणैश्चापि शोभितम् ।
धवाश्वकर्णककुभैर्बिल्वतिन्दुकपाटलैः ॥ १.२४.१५ ॥

装饰着狮子、老虎、野猪和大象,有达婆、马耳和迦古巴树,有木橘、柿树和巴塔拉树。

1.24.16

संकीर्णं बदरीभिश्च किं न्विदं दारुणं वनम् ।
तमुवाच महातेजा विश्वामित्रो महामुनिः ॥ १.२४.१६ ॥

“这片可怕的森林为何密布着枣树呢?”大光明的大仙人毗首密多罗对他说道。

1.24.17

श्रूयतां वत्स काकुत्स्थ यस्यैतद् दारुणं वनम् ।
एतौ जनपदौ स्फीतौ पूर्वमास्तां नरोत्तम ॥ १.२४.१७ ॥

“听着,亲爱的甘蔗王族之子:这片可怕森林所属的两个国度,从前曾经繁荣昌盛,哦,人中之杰。”

1.24.18

मलदाश्च करूषाश्च देवनिर्माणनिर्मितौ ।
पुरा वृत्रवधे राम मलेन समभिप्लुतम् ॥ १.२४.१८ ॥

摩拉达与卡卢沙,由诸神所造,啊罗摩!从前在杀死弗栗多时,他们全身被污秽浸透。

1.24.19

क्षुधा चैव सहस्राक्षं ब्रह्महत्या समाविशत् ।
तमिन्द्रं मलिनं देवा ऋषयश्च तपोधनाः ॥ १.२४.१९ ॥

饥饿与杀害婆罗门的罪孽进入了千眼因陀罗。以苦行为财富的诸神与仙人看见被玷污的因陀罗。

1.24.20

कलशैः स्नापयामासुर्मलं चास्य प्रमोचयन् ।
इह भूम्यां मलं दत्त्वा देवाः कारूषमेव च ॥ १.२४.२० ॥

众神用水瓶为他沐浴,洗去他的污垢,并将污垢与卡鲁沙交给大地。

1.24.21

शरीरजं महेन्द्रस्य ततो हर्षं प्रपेदिरे ।
निर्मलो निष्करूषश्च शुद्ध इन्द्रो यथाभवत् ॥ १.२४.२१ ॥

于是,诸神因从摩亨德罗之身所生的污垢而欢喜。无垢、无卡鲁沙的因陀罗又恢复了往日的纯净。

1.24.22

ददौ देशस्य सुप्रीतो वरं प्रादातनुत्तमम् ।
इमौ जनपदौ स्फीतौ ख्यातिं लोके गमिष्यतः ॥ १.२४.२२ ॥

他十分欢喜,赐予那一地区最高的恩惠:这两个富饶的地区将在世间获得盛名。

1.24.23

मलदाश्च करूषाश्च ममाङ्गमलधारिणौ ।
साधु साध्विति तं देवाः पाकशासनमब्रुवन् ॥ १.२४.२३ ॥

“摩罗陀与卡鲁沙承受我身之污垢——善哉,善哉!”诸神如此对破迦之惩罚者因陀罗说。

1.24.24

देशस्य पूजां तां दृष्ट्वा कृतां शक्रेण धीमता ।
एतौ जनपदौ स्फीतौ दीर्घकालमरिंदम ॥ १.२४.२४ ॥

智慧的释迦(因陀罗)向那一地区表示的敬意被看到后,啊,克敌者,这两个富饶的地区长久地存续下来。

1.24.25

मलदाश्च करूषाश्च मुदिता धनधान्यतः ।
कस्यचित्त्वथ कालस्य यक्षिणी कामरूपिणी ॥ १.२४.२५ ॥

马拉达人和卡鲁沙人因财富与谷物而欢喜。过了一些时日,一位能随意变化形貌的夜叉女来到那里。

1.24.26

बलं नागसहस्रस्य धारयन्ती तदा ह्यभूत् ।
ताटका नाम भद्रं ते भार्या सुन्दस्य धीमतः ॥ १.२४.२६ ॥

她拥有千头象的力量,名叫塔塔迦,是智者孙达的妻子。愿你平安吉祥。

1.24.27

मारीचो राक्षसः पुत्रो यस्याः शक्रपराक्रमः ।
वृत्तबाहुर्महाशीर्षो विपुलास्यतनुर्महान् ॥ १.२४.२७ ॥

她的儿子是罗刹摩里遮,勇武堪比因陀罗,双臂圆润,头颅巨大,口阔身躯庞大。

1.24.28

राक्षसो भैरवाकारो नित्यं त्रासयते प्रजाः ।
इमौ जनपदौ नित्यं विनाशयति राघव ॥ १.२४.२८ ॥

那个形貌恐怖的罗刹不断惊扰百姓。啊,罗怙之子!他时常破坏这两片国土。

1.24.29

मलदांश्च करूषांश्च ताटका दुष्टचारिणी ।
सेयं पन्थानमावृत्य वसत्यत्यर्धयोजने ॥ १.२४.२९ ॥

作恶的塔塔迦折磨着马拉达人与卡鲁沙人。她堵住这条路,住在不过半个由旬之外的地方。

1.24.30

अत एव च गन्तव्यं ताटकाया वनं यतः ।
स्वबाहुबलमाश्रित्य जहीमां दुष्टचारिणीम् ॥ १.२४.३० ॥

因此必须前往塔塔迦的森林。凭借你自己的臂力,诛杀这个作恶的女人吧。

1.24.31

मन्नियोगादिमं देशं कुरु निष्कण्टकं पुनः ।
नहि कश्चिदिमं देशं शक्तो ह्यागन्तुमीदृशम् ॥ १.२४.३१ ॥

奉我之命,再次清除此地的荆棘,因为无人能够来到这样的地方。

1.24.32

यक्षिण्या घोरया राम उत्सादितमसह्यया ।
एतत्ते सर्वमाख्यातं यथैतद् दारुणं वनम् ।
यक्ष्या चोत्सादितं सर्वमद्यापि न निवर्तते ॥ १.२४.३२ ॥

啊,罗摩!这个可怕、难以忍受的夜叉女已经毁尽了一切。我已把这片可怕森林的情形全部告诉了你。夜叉女所毁坏的一切,至今仍未恢复。