Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 1.25

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.25.1

अथ तस्याप्रमेयस्य मुनेर्वचनमुत्तमम्।
श्रुत्वा पुरुषशार्दूलः प्रत्युवाच शुभां गिरम् ॥ १.२५.१ ॥

那位无量的仙人说完殊胜之言后,人中之狮罗摩以吉祥的话语作答。

1.25.2

अल्पवीर्या यदा यक्षी श्रूयते मुनिपुङ्गव ।
कथं नागसहस्रस्य धारयत्यबला बलम् ॥ १.२५.२ ॥

诸仙中最杰出者啊,听说夜叉女力量微弱;这位弱女子如何承载千象之力?

1.25.3

इत्युक्तं वचनं श्रुत्वा राघवस्यामितौजसः ।
हर्षयञ्श्लक्ष्णया वाचा सलक्ष्मणमरिन्दमम् ॥ १.२५.३ ॥

听了无限光辉的罗怙之子这番话,以温和的语声使与罗什曼那同在的降敌者欢喜……

1.25.4

विश्वामित्रोऽब्रवीद् वाक्यं शृणु येन बलोत्कटा ।
वरदानकृतं वीर्यं धारयत्यबला बलम् ॥ १.२५.४ ॥

毗首婆密多罗说:听着,这弱女子凭借恩赐所得之力,承载着巨大的力量。

1.25.5

पूर्वमासीन्महायक्षः सुकेतुर्नाम वीर्यवान् ।
अनपत्यः शुभाचारः स च तेपे महत्तपः ॥ १.२५.५ ॥

往昔有一位名叫苏刻杜的大夜叉,勇力非凡。他无子嗣,品行良善,并修行了大苦行。

1.25.6

पितामहस्तु सुप्रीतस्तस्य यक्षपतेस्तदा ।
कन्यारत्नं ददौ राम ताटकां नाम नामतः ॥ १.२५.६ ॥

那时祖父(梵天)对这位夜叉王非常满意,便把名叫多陀迦的女中珍宝赐给了他,罗摩啊。

1.25.7

ददौ नागसहस्रस्य बलं चास्याः पितामहः ।
न त्वेव पुत्रं यक्षाय ददौ चासौ महायशाः ॥ १.२५.७ ॥

祖父赋予她千象之力,但这位大名远扬者并未把儿子许给药叉。

1.25.8

तां तु बालां विवर्धन्तीं रूपयौवनशालिनीम् ।
जम्भपुत्राय सुन्दाय ददौ भार्यां यशस्विनीम् ॥ १.२५.८ ॥

这位成长中、容貌青春焕发的少女,他把她许配给了强巴之子孙陀为妻;她是名声显赫的。

1.25.9

कस्यचित्त्वथ कालस्य यक्षी पुत्रं व्यजायत ।
मारीचं नाम दुर्धर्षं यः शापाद् राक्षसोऽभवत् ॥ १.२५.९ ॥

过了一些时日,那位药叉女生下一子,名为摩哩止,难以战胜,因诅咒而成为罗刹。

1.25.10

सुन्दे तु निहते राम अगस्त्यमृषिसत्तमम् ।
ताटका सहपुत्रेण प्रधर्षयितुमिच्छति ॥ १.२५.१० ॥

罗摩啊,孙陀被杀之后,多陀迦与其子欲侵犯最优秀的仙人阿伽斯蒂耶。

1.25.11

भक्षार्थं जातसंरम्भा गर्जन्ती साभ्यधावत ।
आपतन्तीं तु तां दृष्ट्वा अगस्त्यो भगवानृषिः ॥ १.२५.११ ॥

她因求食而怒火填胸,咆哮着冲来;尊者仙人阿伽斯蒂耶见她扑来……

1.25.12

राक्षसत्वं भजस्वेति मारीचं व्याजहार सः ।
अगस्त्यः परमामर्षस्ताटकामपि शप्तवान् ॥ १.२५.१२ ॥

他对摩哩止说:“成为罗刹吧”;又在极度愤怒中也诅咒了多陀迦。

1.25.13

पुरुषादी महायक्षी विकृता विकृतानना ।
इदं रूपम् विहायाशु दारुणं रूपमस्तु ते ॥ १.२५.१३ ॥

食人的大夜叉女,形貌丑陋、面目扭曲的人啊,舍弃此形,愿你立刻得到可怖的形相。

1.25.14

सैषा शापकृतामर्षा ताटका क्रोधमूर्छिता ।
देशमुत्सादयत्येनमगस्त्याचरितं शुभम् ॥ १.२५.१४ ॥

这位被诅咒激怒、被愤怒迷乱的塔吒迦,正在毁灭这块由阿伽斯蒂耶所守护的吉祥之地。

1.25.15

एनां राघव दुर्वृत्तां यक्षीं परमदारुणाम् ।
गोब्राह्मणहितार्थाय जहि दुष्टपराक्रमाम् ॥ १.२५.१५ ॥

罗怙之子啊,为了牛与婆罗门的福祉,请杀死这个行为恶劣、极其可怖、以邪恶为力的夜叉女。

1.25.16

नह्येनां शापसंसृष्टां कश्चिदुत्सहते पुमान् ।
निहन्तुं त्रिषु लोकेषु त्वामृते रघुनन्दन ॥ १.२५.१६ ॥

此女被诅咒所缚,三界之中除你之外,无人敢杀她,罗怙后裔的喜悦啊。

1.25.17

नहि ते स्त्रीवधकृते घृणा कार्या नरोत्तम ।
चातुर्वर्ण्यहितार्थं कर्तव्यं राजसूनुना ॥ १.२५.१७ ॥

人中最优秀者啊,你不应因为杀的是女人而心生怜悯。为了四种姓的福祉,这是王子应当履行的职责。

1.25.18

नृशंसमनृशंसं वा प्रजारक्षणकारणात् ।
पातकं वा सदोषं वा कर्तव्यं रक्षता सदा ॥ १.२५.१८ ॥

为了保护民众,守护者应当始终去做应做之事,无论它是残忍还是不残忍,是罪过还是有过失。

1.25.19

राज्यभारनियुक्तानामेष धर्मः सनातनः ।
अधर्म्यां जहि काकुत्स्थ धर्मो ह्यस्यां न विद्यते ॥ १.२५.१९ ॥

这是肩负王权重担者永恒的职责。啊,迦古特斯塔,请杀死这个不义的女子,因为她身上没有法。

1.25.20

श्रूयते हि पुरा शक्रो विरोचनसुतां नृप ।
पृथिवीं हन्तुमिच्छन्तीं मन्थरामभ्यसूदयत् ॥ १.२५.२० ॥

据说古时因陀罗杀死了毗卢遮那的女儿曼陀罗,她想要毁灭大地。

1.25.21

विष्णुना च पुरा राम भृगुपत्नी पतिव्रता ।
अनिन्द्रं लोकमिच्छन्ती काव्यमाता निषूदिता ॥ १.२५.२१ ॥

啊,罗摩,古时毗湿奴杀死了婆利古忠贞的妻子,她想要一个没有因陀罗的世界;她是迦维(乌until纳斯)的母亲。

1.25.22

एतैश्चान्यैश्च बहुभी राजपुत्रैर्महात्मभिः ।
अधर्मसहिता नार्यो हताः पुरुषसत्तमैः ।
तस्मादेनां घृणां त्यक्त्वा जहि मच्छासनान्नृप ॥ १.२५.२२ ॥

由这些以及其他许多心胸宽大的王子——人中之最——所杀,那些行不义的女子已被杀死。因此,请舍弃对她的怜悯,遵我之命杀了她吧,国王。