蚁垤《罗摩衍那》 · 篇 1.26
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.26.1
मुनेर्वचनमक्लीबं श्रुत्वा नरवरात्मजः ।
राघवः प्राञ्जलिर्भूत्वा प्रत्युवाच दृढव्रतः ॥ १.२६.१ ॥
罗怙婆(罗摩)聆听了仙人坚定的话语,他是最优秀之人的儿子,立誓坚定,合掌回答。
1.26.2
पितुर्वचननिर्देशात् पितुर्वचनगौरवात् ।
वचनं कौशिकस्येति कर्तव्यमविशङ्कया ॥ १.२६.२ ॥
依父亲之命,出于对父亲之言的敬重,憍尸迦(众友)之言应毫不迟疑地遵行。
1.26.4
अनुशिष्टोऽस्म्ययोध्यायां गुरुमध्ये महात्मना ।
पित्रा दशरथेनाहं नावज्ञेयं हि तद्वचः ॥१-२६-१३
सोऽहं पितुर्वचः श्रुत्वा शासनाद् ब्रह्मवादिनः ।
करिष्यामि न संदेहस्ताटकावधमुत्तमम् ॥ १.२६.४ ॥
在阿逾陀城,众长者之中,我那宏大的父亲十车王教导了我,他的话不可轻忽。因此,听闻父亲之言与这位梵语者的命令,我毫无疑问将完成对恶女多迦的诛杀。
1.26.5
गोब्राह्मणहितार्थाय देशस्य च हिताय च ।
तव चैवाप्रमेयस्य वचनं कर्तुमुद्यतः ॥ १.२६.५ ॥
为了牛与婆罗门的福祉,为了国土的安宁,也为了完成您——无量者——的教诲,我已决心行动。
1.26.6
एवमुक्त्वा धनुर्मध्ये बद्ध्वा मुष्टिमरिन्दमः ।
ज्याघोषमकरोत् तीव्रं दिशः शब्देन नादयन् ॥ १.२६.६ ॥
说完这番话,这位降伏敌人者在弓的中部握紧,发出猛烈的弦响,声音震动四方。
1.26.7
तेन शब्देन वित्रस्तास्ताटकावनवासिनः ।
ताटका च सुसंक्रुद्धा तेन शब्देन मोहिता ॥ १.२६.७ ॥
众生被那声音惊吓,住在多迦林中的人们颤抖;极度愤怒的多迦也被那声音所迷惑。
1.26.8
तं शब्दमभिनिध्याय राक्षसी क्रोधमूर्छिता ।
श्रुत्वा चाभ्यद्रवत् क्रुद्धा यत्र शब्दो विनिःसृतः ॥ १.२६.८ ॥
罗刹女听到那声音并仔细辨别后,因愤怒而昏乱,暴怒地冲向声音发出的地方。
1.26.9
तां दृष्ट्वा राघवः क्रुद्धां विकृतां विकृताननाम् ।
प्रमाणेनातिवृद्धां च लक्ष्मणं सोऽभ्यभाषत ॥ १.२६.९ ॥
罗怙之后(罗摩)见那罗刹女愤怒、面目狰狞、身形极其庞大,便对罗什曼那这样说道。
1.26.10
पश्य लक्ष्मण यक्षिण्या भैरवं दारुणं वपुः ।
भिद्येरन् दर्शनादस्या भीरूणां हृदयानि च ॥ १.२६.१० ॥
罗什曼那,看这夜叉女可怖而狰狞的身形。仅凭见到她,怯懦者的心便会炸裂。
1.26.11
एतां पश्य दुराधर्षां मायाबलसमन्विताम् ।
विनिवृत्तां करोम्यद्य हृतकर्णाग्रनासिकाम् ॥ १.२६.११ ॥
看她,难以制服,具有幻术之力。今天我要割去她的耳朵和鼻尖,让她回去。
1.26.12
न ह्येनामुत्सहे हन्तुं स्त्रीस्वभावेन रक्षिताम् ।
वीर्यं चास्या गतिं चैव हन्यामिति हि मे मतिः ॥ १.२६.१२ ॥
我不愿杀她,因为她受女性之性所保护。但我的决定是摧毁她的力量与行动。
1.26.13
एवं ब्रुवाणे रामे तु ताटका क्रोधमूर्छिता ।
उद्यम्य बाहू गर्जन्ती राममेवाभ्यधावत ॥ १.२६.१३ ॥
罗摩正这样说着,塔塔卡因愤怒而昏乱,举起双臂,怒吼着直扑罗摩而来。
1.26.14
विश्वामित्रस्तु ब्रह्मर्षिर्हुंकारेणाभिभर्त्स्य ताम् ।
स्वस्ति राघवयोरस्तु जयं चैवाभ्यभाषत ॥ १.२६.१४ ॥
梵仙毗首弥多罗以“吽”声呵斥她,说:“愿两位罗怙后裔吉祥,愿他们获胜。”
1.26.15
उद्धुन्वाना रजो घोरं ताटका राघवावुभौ ।
रजोमेघेन महता मुहूर्तं सा व्यमोहयत् ॥ १.२६.१५ ॥
她扬起可怕的尘土,以巨大的尘云使两位罗怙后裔暂时迷乱。
1.26.16
ततो मायां समास्थाय शिलावर्षेण राघवौ ।
अवाकिरत् सुमहता ततश्चुक्रोध राघवः ॥ १.२६.१६ ॥
于是她施展幻术,以大雨般的石块倾泻在两位罗怙后裔身上;罗怙后裔(罗摩)于是愤怒了。
1.26.17
शिलावर्षं महत् तस्याः शरवर्षेण राघवः ।
प्रतिवार्योपधावन्त्याः करौ चिच्छेद पत्रिभिः ॥ १.२६.१७ ॥
罗摩以箭雨挡住她巨大的石雨,并在她冲来时用箭斩断了她的双臂。
1.26.18
ततश्च्छिन्नभुजां श्रान्तामभ्याशे परिगर्जतीम् ।
सौमित्रिरकरोत् क्रोधाद्धृतकर्णाग्रनासिकाम् ॥ १.२६.१८ ॥
随后,羯迦(罗什曼那)怒而将她——双臂已断、疲惫且在附近咆哮——弄成耳朵与鼻尖都被割掉的模样。
1.26.19
कामरूपधरा सा तु कृत्वा रूपाण्यनेकशः ।
अन्तर्धानं गता यक्षी मोहयन्ती स्वमायया ॥ १.२६.१९ ॥
这位能随意变化形貌的夜叉女,化出许多形象后,以自己的幻术迷惑他们,隐身而去。
1.26.20
अश्मवर्षं विमुञ्चन्ती भैरवं विचचार सा ॥
ततस्तावश्मवर्षेण कीर्यमाणौ समन्ततः ॥ १.२६.२० ॥
她可怕地投下石雨四处游荡。于是那两人被四面八方的石雨所覆盖,
1.26.21
दृष्ट्वा गाधिसुतः श्रीमानिदं वचनमब्रवीत् ।
अलं ते घृणया राम पापैषा दुष्टचारिणी ॥ १.२६.२१ ॥
光辉的迦提之子见此便说道:“罗摩,不必怜悯;此女罪孽深重,行为邪恶,
1.26.22
यज्ञविघ्नकरी यक्षी पुरा वर्धेत मायया ।
वध्यतां तावदेवैषा पुरा संध्या प्रवर्तते ॥ १.२६.२२ ॥
这个妨碍祭祀的夜叉女会借幻术变强;让她立刻被杀死,因为黄昏将至。”
1.26.23
रक्षांसि संध्याकाले तु दुर्धर्षाणि भवन्ति हि ।
इत्युक्तः स तु तां यक्षीमश्मवृष्ट्याभिवर्षणीम् ॥ १.२६.२३ ॥
“黄昏时分,罗刹确实变得难以抵挡。”如此被告知,他便转向那个降下石雨的夜叉女。
1.26.24
दर्शयञ्शब्दवेधित्वं तां रुरोध स सायकैः ।
सा रुद्धा बाणजालेन मायाबलसमन्विता ॥ १.२६.२४ ॥
他展示了闻声射击的本领,以箭矢阻住了她。她被箭网所困,尽管具备幻术之力,
1.26.25
अभिदुद्राव काकुत्स्थं लक्ष्मणं च विनेषुदी ।
तामापतन्तीं वेगेन विक्रान्तामशनीमिव ॥ १.२६.२५ ॥
她扑向拘卢族的罗摩和罗什曼那,向他们攻击。那勇猛的女子疾速而来,如同遭遇霹雳。
1.26.26
शरेणोरसि विव्याध सा पपात ममार च ।
तां हतां भीमसंकाशां दृष्ट्वा सुरपतिस्तदा ॥ १.२६.२६ ॥
罗摩以箭射中她的胸膛,她倒地而死。众神之主见这形貌可怖者已被杀死,于是……
1.26.27
साधु साध्विति काकुत्स्थं सुराश्चाप्यभिपूजयन् ।
उवाच परमप्रीतः सहस्राक्षः पुरन्दरः ॥ १.२६.२७ ॥
众神也连声称赞:“好!好!”,尊敬地礼拜迦古特斯特罗家的罗摩。千眼的毁城者因陀罗十分欢喜,说道……
1.26.28
सुराश्च सर्वे संहृष्टा विश्वामित्रमथाब्रुवन् ।
मुने कौशिक भद्रं ते सेन्द्राः सर्वे मरुद्गणाः ॥ १.२६.२८ ॥
于是众神欢喜地对毗首彌多罗说:“牟尼憍尸迦,愿你吉祥!与因陀罗一同的诸摩录多众……
1.26.29
तोषिताः कर्मणानेन स्नेहं दर्शय राघवे ।
प्रजापतेः कृशाश्वस्य पुत्रान् सत्यपराक्रमान् ॥ १.२६.२९ ॥
“我们因这一行为而欢喜。请向罗伽婆展现你的慈爱;将那具真实勇力的、生主俱舍濕婆之子……
1.26.30
तपोबलभृतो ब्रह्मन् राघवाय निवेदय ।
पात्रभूतश्च ते ब्रह्मंस्तवानुगमने रतः ॥ १.२६.३० ॥
“婆罗门啊,请把这些具有苦行之力者献给罗伽婆。婆罗门啊,他是值得托付的人,一心追随你……
1.26.31
कर्तव्यं सुमहत् कर्म सुराणां राजसूनुना ।
एवमुक्त्वा सुराः सर्वे जग्मुर्हृष्टा विहायसम् ॥ १.२६.३१ ॥
“众神的大事应由王子来完成。”说完这话,众神欢喜地升入天空而去。
1.26.32
विश्वामित्रं पूजयन्तस्ततः संध्या प्रवर्तते ।
ततो मुनिवरः प्रीतस्ताटकावधतोषितः ॥ १.२६.३२ ॥
众人敬奉毗首弥多罗时,黄昏降临。此时,因诛杀多吒迦而欣喜的最尊贵的仙人心中欢悦。
1.26.33
मूर्ध्नि राममुपाघ्राय इदं वचनमब्रवीत् ।
इहाद्य रजनीं राम वसाम शुभदर्शन ॥ १.२६.३३ ॥
他亲吻罗摩的头顶,说道:“罗摩啊,目光吉祥的人,今夜我们就在这里住下吧。”
1.26.34
श्वः प्रभाते गमिष्यामस्तदाश्रमपदं मम ।
विश्वामित्रवचः श्रुत्वा हृष्टो दशरथात्मजः ॥ १.२६.३४ ॥
“明天黎明,我们就去我那座修行处。”听了毗首弥多罗的话,十车王之子心中欢喜。
1.26.35
उवास रजनीं तत्र ताटकाया वने सुखम् ।
मुक्तशापं वनं तच्च तस्मिन्नेव तदाहनि ।
रमणीयं विबभ्राज यथा चैत्ररथं वनम् ॥ १.२६.३५ ॥
他在多吒迦的森林中安然度过了那夜。就在那一天,那片森林摆脱了诅咒,像持明车林一样明艳动人。
1.26.36
निहत्य तां यक्षसुतां स रामः
प्रशस्यमानः सुरसिद्धसङ्घैः ।
उवास तस्मिन् मुनिना सहैव
प्रभातवेलां प्रतिबोध्यमानः ॥ १.२६.३६ ॥
罗摩杀死了那夜叉之女,受到诸天与悉陀众的赞颂,与仙人一同留在那里,并在黎明时分被唤醒。