Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 1.29

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.29.1

अथ तस्याप्रमेयस्य वचनं परिपृच्छतः ।
विश्वामित्रो महातेजा व्याख्यातुमुपचक्रमे ॥ १.२९.१ ॥

此时,听闻那位不可限量者的询问,大光明的毗首弥多罗开始讲解。

1.29.2

इह राम महाबाहो विष्णुर्देवनमस्कृतः ।
वर्षाणि सुबहूनीह तथा युगशतानि च ॥ १.२९.२ ॥

罗摩啊,大臂者啊,受诸天敬礼的毗湿奴曾在此住了很多年,乃至数百个时代。

1.29.3

तपश्चरणयोगार्थमुवास सुमहातपाः ।
एष पूर्वाश्रमो राम वामनस्य महात्मनः ॥ १.२९.३ ॥

为了苦修与瑜伽,那位大苦行者住在此处。罗摩啊,这是伟大的侏儒(毗湿奴化身)的旧居。

1.29.4

सिद्धाश्रम इति ख्यातः सिद्धो ह्यत्र महातपाः ।
एतस्मिन्नेव काले तु राजा वैरोचनिर्बलिः ॥ १.२९.४ ॥

此处称为悉达修道场,因为这位成就的大苦行者住在此地。就在那个时候,毗卢遮那之子、王者钵利正在统治。

1.29.5

निर्जित्य दैवतगणान् सेन्द्रान् सहमरुद्गणान् ।
कारयामास तद्राज्यं त्रिषु लोकेषु विश्रुतः ॥ १.२९.५ ॥

他与因陀罗一同战胜诸天众与摩录多众,名闻三界,使那王国得以统治。

1.29.6

यज्ञं चकार सुमहानसुरेन्द्रो महाबलः ।
बलेस्तु यजमानस्य देवाः साग्निपुरोगमाः ।
समागम्य स्वयं चैव विष्णुमूचुरिहाश्रमे ॥ १.२९.६ ॥

大力的阿修罗王钵利举行了盛大的祭祀。在钵利这位祭主的祭祀中,以火神为首的诸天自行聚集,在此处的修道场对毗湿奴说。

1.29.7

बलिर्वैरोचनिर्विष्णो यजते यज्ञमुत्तमम् ।
असमाप्तव्रते तस्मिन् स्वकार्यमभिपद्यताम् ॥ १.२९.७ ॥

啊,毗湿奴!毗卢遮那之子钵厘正在举行至高的祭祀;因其誓愿尚未圆满,愿我们的事业此时得以成就。

1.29.8

ये चैनमभिवर्तन्ते याचितार इतस्ततः ।
यच्च यत्र यथावच्च सर्वं तेभ्यः प्रयच्छति ॥ १.२९.८ ॥

凡从四方来到他这里的求乞者,无论所需为何、在何处、以何种方式,他都如法地全部施予。

1.29.9

स त्वं सुरहितार्थाय मायायोगमुपाश्रितः ।
वामनत्वं गतो विष्णो कुरु कल्याणमुत्तमम् ॥ १.२९.९ ॥

啊,毗湿奴!为了诸天的利益,您应运用幻化之瑜伽,化为侏儒之身,成就至上的吉祥。

1.29.10

एतस्मिन्नन्तरे राम कश्यपोग्निसमप्रभः ।
अदित्या सहितो राम दीप्यमान इवौजसा ॥ १.२९.१० ॥

就在此时,罗摩啊,光耀如火的迦叶波与阿底提一同来到,以其威光熠熠生辉。

1.29.11

देवीसहायो भगवान् दिव्यं वर्षसहस्रकम् ।
व्रतं समाप्य वरदं तुष्टाव मधुसूदनम् ॥ १.२९.११ ॥

在女神相伴下,这位尊者圆满了千年的神圣誓愿,并赞颂了赐予恩惠的摩图苏陀那。

1.29.12

तपोमयं तपोराशिं तपोमूर्तिं तपात्मकम् ।
तपसा त्वां सुतप्तेन पश्यामि पुरुषोत्तमम् ॥ १.२९.१२ ॥

啊,至上人!您由苦行所成,是苦行之聚、苦行之身、苦行之性——我以精诚修持的苦行得见您。

1.29.13

शरीरे तव पश्यामि जगत् सर्वमिदं प्रभो ।
त्वमनादिरनिर्देश्यस्त्वामहं शरणं गतः ॥ १.२९.१३ ॥

主啊,我在您的身中看见这整个世界。您无始无终,不可言说;我已来到您的面前寻求庇护。

1.29.14

तमुवाच हरिः प्रीतः कश्यपं गतकल्मषम् ।
वरं वरय भद्रं ते वरार्होऽसि मतो मम ॥ १.२९.१४ ॥

于是欢喜的毗湿奴对无罪的迦叶说:“请选择一个恩赐,愿你吉祥。我认为你配得上这份恩赐。”

1.29.15

तच्छ्रुत्वा वचनं तस्य मारीचः कश्यपोऽब्रवीत् ।
अदित्या देवतानां च मम चैवानुयाचितम् ॥ १.२९.१५ ॥

迦叶,摩里者之子,听了他的话后说:“这正是为阿底提、为诸天神,也为我自己所请求的。”

1.29.16

वरं वरद सुप्रीतो दातुमर्हसि सुव्रत ।
पुत्रत्वं गच्छ भगवन्नदित्या मम चानघ ॥ १.२९.१६ ॥

赐予恩惠者啊,请大为欢喜,赐下恩典吧,持守善誓者!尊贵的主啊,无罪者啊,请成为阿底提与我的儿子。

1.29.17

भ्राता भव यवीयांस्त्वं शक्रस्यासुरसूदन ।
शोकार्तानां तु देवानां साहाय्यं कर्तुमर्हसि ॥ १.२९.१७ ॥

灭阿修罗者啊,请成为帝释天(因陀罗)的弟弟;你应当援助深受忧苦的诸天神。

1.29.18

अयं सिद्धाश्रमो नाम प्रसादात् ते भविष्यति ।
सिद्धे कर्मणि देवेश उत्तिष्ठ भगवन्नितः ॥ १.२९.१८ ॥

凭您的恩典,这座修行处将名为悉陀阿श्रम(成就仙院)。诸神之主啊,待事业成就之后,尊贵的主啊,请从此处起身离去。

1.29.19

अथ विष्णुर्महातेजा अदित्यां समजायत ।
वामनं रूपमास्थाय वैरोचनिमुपागमत् ॥ १.२९.१९ ॥

于是大光辉的毗湿奴从阿底提诞生;他化身侏儒,走向毗罗遮那之子。

1.29.20

त्रीन् पदानथ भिक्षित्वा प्रतिगृह्य च मेदिनीम् ।
आक्रम्य लोकाँल्लोकार्थी सर्वलोकहिते रतः ॥ १.२९.२० ॥

随后,他乞得并接受了三步之地。这位愿求诸世界之福、乐于众生之利的神,跨越了诸世界。

1.29.21

महेन्द्राय पुनः प्रादान्नियम्य बलिमोजसा ।
त्रैलोक्यं स महातेजाश्चक्रे शक्रवशं पुनः ॥ १.२९.२१ ॥

他以力量制服了波利,又将其交还摩醯陀罗,使三界重新归于帝释的统治之下。

1.29.22

तेनैव पूर्वमाक्रान्त आश्रमः श्रमनाशनः ।
मयापि भक्त्या तस्यैव वामनस्योपभुज्यते ॥ १.२९.२२ ॥

从前这座消除疲劳的道场便为他所占据;如今我亦怀着虔诚,为那位侏儒(伐摩那)而使用此处。

1.29.23

एनमाश्रममायान्ति राक्षसा विघ्नकारिणः ।
अत्र ते पुरुषव्याघ्र हन्तव्या दुष्टचारिणः ॥ १.२९.२३ ॥

制造障碍的罗刹常来此道场;人中虎啊,你在此应当诛杀那些行恶的罗刹。

1.29.24

अद्य गच्छामहे राम सिद्धाश्रममनुत्तमम् ।
तदाश्रमपदं तात तवाप्येतद् यथा मम ॥ १.२९.२४ ॥

今日,罗摩啊,让我们前往至上的悉陀道场。亲爱的孩子,那道场之地与我的一样,也属于你。

1.29.25

इत्युक्त्वा परमप्रीतो गृह्य रामं सलक्ष्मणम् ।
प्रविशन्नाश्रमपदं व्यरोचत महामुनिः ।
शशीव गतनीहारः पुनर्वसुसमन्वितः ॥ १.२९.२५ ॥

言罢,大仙极为欢喜,携同罗摩与罗什曼那步入苦行林地,如同拨开薄雾、与富那婆苏相伴的明月般光彩焕发。

1.29.26

तं दृष्ट्वा मुनयः सर्वे सिद्धाश्रमनिवासिनः ।
उत्पत्योत्पत्य सहसा विश्वामित्रमपूजयन् ॥ १.२९.२६ ॥

众仙人见到他,居住在悉陀苦行林的所有人都骤然一次次起身,向毗首彌多罗致敬。

1.29.27

यथार्हं चक्रिरे पूजां विश्वामित्राय धीमते ।
तथैव राजपुत्राभ्यामकुर्वन्नतिथिक्रियाम् ॥ १.२९.२७ ॥

他们按照礼数恭敬地供奉智慧的毗首彌多罗,同样也为两位王子行了待客之礼。

1.29.28

मुहूर्तमथ विश्रान्तौ राजपुत्रावरिंदमौ ।
प्राञ्जली मुनिशार्दूलमूचतू रघुनन्दनौ ॥ १.२९.२८ ॥

稍事休息后,这两位压制敌人、令罗古家族欢喜的王子合掌向众仙中的猛虎说道。

1.29.29

अद्यैव दीक्षां प्रविश भद्रं ते मुनिपुङ्गव ।
सिद्धाश्रमोऽयं सिद्धः स्यात् सत्यमस्तु वचस्तव ॥ १.२९.२९ ॥

众仙之最,愿您吉祥。请即刻进入受戒之修持。愿此悉陀苦行林得以圆满,愿您的话语成真。

1.29.30

एवमुक्तो महातेजा विश्वामित्रो महानृषिः ।
प्रविवेश तदा दीक्षां नियतो नियतेन्द्रियः ॥ १.२९.३० ॥

众人如此请求后,大光明的大仙毗首彌多罗,自我克制,摄控诸根,随即进入了受戒修持。

1.29.31

कुमारावपि तां रात्रिमुषित्वा सुसमाहितौ ।
प्रभातकाले चोत्थाय पूर्वां संध्यामुपास्य च ॥ १.२९.३१ ॥

两位王子也在那里度过了那个夜晚,心神专注。黎明时起身,行了晨间的敬拜(桑迪亚)。

1.29.32

प्रशुची परमं जाप्यं समाप्य नियमेन च ।
हुताग्निहोत्रमासीनं विश्वामित्रमवन्दताम् ॥ १.२९.३२ ॥

二人净身后依法完成至上的持诵,向已完成阿耆尼霍特拉供养而端坐的毗首米多罗行礼。