Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 1.30

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.30.1

अथ तौ देशकालज्ञौ राजपुत्रावरिंदमौ ।
देशे काले च वाक्यज्ञावब्रूतां कौशिकं वचः ॥ १.३०.१ ॥

于是这两位知晓时地、善于言辞、能够制服敌人的王子,在恰当的地点和恰当的时机,对憍尸迦说了这些话。

1.30.2

भगवञ्छ्रोतुमिच्छावो यस्मिन् काले निशाचरौ ।
संरक्षणीयौ तौ ब्रूहि नातिवर्तेत तत्क्षणम् ॥ १.३०.२ ॥

尊贵的大师,我们想听闻在何时应当保护祭祀,防备那两个夜行的罗刹。请告诉我们,不要错过那一刻。

1.30.3

एवं ब्रुवाणौ काकुत्स्थौ त्वरमाणौ युयुत्सया ।
सर्वे ते मुनयः प्रीताः प्रशशंसुर्नृपात्मजौ ॥ १.३०.३ ॥

两位迦俱深族王子如此说话,因渴望战斗而急切,众仙人皆欢喜,赞叹了这两位王子。

1.30.4

अद्यप्रभृति षड्रात्रं रक्षतां राघवौ युवाम् ।
दीक्षां गतो ह्येष मुनिर्मौनित्वं च गमिष्यति ॥ १.३०.४ ॥

从今天起六夜,你们两位罗怙之后要守护;因为这位仙人已进入受戒,将要守持沉默。

1.30.5

तौ तु तद्वचनं श्रुत्वा राजपुत्रौ यशस्विनौ ।
अनिद्रं षडहोरात्रं तपोवनमरक्षताम् ॥ १.३०.५ ॥

两位声名显赫的王子听闻此言,六昼夜不眠,守护着苦行林。

1.30.6

उपासांचक्रतुर्वीरौ यत्तौ परमधन्विनौ ।
ररक्षतुर्मुनिवरं विश्वामित्रमरिंदमौ ॥ १.३०.६ ॥

这两位英雄,警觉而又是最高超的弓箭手,侍奉并守护着仙人中最优秀的毗首密多罗;这两位制服敌人的王子。

1.30.7

अथ काले गते तस्मिन् षष्ठेऽहनि तदागते ।
सौमित्रिमब्रवीद् रामो यत्तो भव समाहितः ॥ १.३०.७ ॥

时光流逝,第六天来到时,罗摩对苏弥阇(罗什曼那)说:“要做好准备,保持专注。”

1.30.8

रामस्यैवं ब्रुवाणस्य त्वरितस्य युयुत्सया ।
प्रजज्वाल ततो वेदिः सोपाध्यायपुरोहिता ॥ १.३०.८ ॥

罗摩如此说话、急于求战之时,祭坛连同师长与祭司一起燃烧起来。

1.30.9

सदर्भचमसस्रुक्का स समित्कुसुमोच्चया ।
विश्वामित्रेण सहिता वेदिर्जज्वाल सर्त्विजा ॥ १.३०.९ ॥

连同吉祥草、勺子、木勺、柴薪和花束,祭坛与毗首弥多罗及祭司们一同燃烧起来。

1.30.10

मन्त्रवच्च यथान्यायं यज्ञोऽसौ सम्प्रवर्तते ।
आकाशे च महाञ्छ्ब्दः प्रादुरासीद् भयानकः ॥ १.३०.१० ॥

依照咒语与规程,祭祀顺利进行;天空中却升起一阵巨大而可怖的声响。

1.30.11

आवार्य गगनं मेघो यथा प्रावृषि दृश्यते ।
तथा मायां विकुर्वाणौ राक्षसावभ्यधावताम् ॥ १.३०.११ ॥

如雨季云朵遮蔽天空,两个罗刹施展幻术,猛然冲来。

1.30.12

मारीचश्च सुबाहुश्च तयोरनुचरास्तथा ।
आगम्य भीमसंकाशा रुधिरौघानवासृजन् ॥ १.३०.१२ ॥

摩利遮与苏跋湖,连同他们的随从,以可怖之相来到,倾泻出血流。

1.30.13

ताम् तेन रुधिरौघेण वेदीं वीक्ष्य समुक्षिताम् ।
सहसाभिद्रुतो रामस्तानपश्यत् ततो दिवि ॥ १.३०.१३ ॥

罗摩见祭坛被那股血流洒满,立刻冲上前去,随后在天空中看见了他们。

1.30.14

तावापतन्तौ सहसा दृष्ट्वा राजीवलोचनः ।
लक्ष्मणं त्वभिसम्प्रेक्ष्य रामो वचनमब्रवीत् ॥ १.३०.१४ ॥

罗摩见那两个妖魔突然扑下,莲花眼的罗摩看着罗什曼那,说了这些话。

1.30.15

पश्य लक्ष्मण दुर्वृत्तान् राक्षसान् पिशिताशनान् ।
मानवास्त्रसमाधूताननिलेन यथा घनान् ॥ १.३०.१५ ॥

看啊,罗什曼那!这些邪恶的食肉罗刹将被摩那婆箭击散,如同风吹散云朵。

1.30.16

करिष्यामि न संदेहो नोत्सहे हन्तुमीदृशान् ।
इत्युक्त्वा वचनं रामश्चापे संधाय वेगवान् ॥ १.३०.१६ ॥

“我会这样做,毫无疑问;我不愿杀害这样的生灵。”说完这话,迅捷的罗摩将箭搭上弓弦。

1.30.17

मानवं परमोदारमस्त्रं परमभास्वरम् ।
चिक्षेप परमक्रुद्धो मारीचोरसि राघवः ॥ १.३०.१७ ॥

极度愤怒的罗怙婆(罗摩)将最尊贵、最耀眼的摩那婆箭射向摩利遮的胸膛。

1.30.18

स तेन परमास्त्रेण मानवेन समाहतः ।
सम्पूर्णं योजनशतं क्षिप्तः सागरसम्प्लवे ॥ १.३०.१८ ॥

被那至上的摩那婆箭击中,他(摩利遮)被整整抛出一百由旬,落入大海的波涛之中。

1.30.19

विचेतनं विघूर्णन्तं शीतेषुबलपीडितम् ।
निरस्तं दृश्य मारीचं रामो लक्ष्मणमब्रवीत् ॥ १.३०.१९ ॥

罗摩见摩里遮昏迷、眩晕、被冷箭之力所困而被抛远,便对罗什曼那说道。

1.30.20

पश्य लक्ष्मण शीतेषुं मानवं मनुसंहितम् ।
मोहयित्वा नयत्येनं न च प्राणैर्वियुज्यते ॥ १.३०.२० ॥

看哪,罗什曼那,这是摩诃摩奴所造的人类冷箭。它使他迷惑并将他带走,却不夺走他的性命。

1.30.21

इमानपि वधिष्यामि निर्घृणान् दुष्टचारिणः ।
राक्षसान् पापकर्मस्थान् यज्ञघ्नान् रुधिराशनान् ॥ १.३०.२१ ॥

我也要杀死这些无情、行为邪恶、从事罪恶之事、破坏祭祀、饮血的罗刹。

1.30.22

इत्युक्त्वा लक्ष्मणं चाशु लाघवं दर्शयन्निव ।
विगृह्य सुमहच्चास्त्रमाग्नेयं रघुनन्दनः ॥ १.३०.२२ ॥

对罗什曼那说完这些,仿佛要显示他的敏捷,罗怙之喜迅速拿起了一件极其巨大的火焰神兵。

1.30.23

सुबाहूरसि चिक्षेप स विद्धः प्रापतद् भुवि ।
शेषान् वायव्यमादाय निजघान महायशाः ।
राघवः परमोदारो मुनीनां मुदमावहन् ॥ १.३०.२३ ॥

他将它投向苏跋呼的胸膛;苏跋呼中箭倒地。那位大名鼎鼎的人又取风神之箭,杀死了其余的罗刹。极其宽厚的罗怙之子给众圣者带来了欢喜。

1.30.24

स हत्वा राक्षसान् सर्वान् यज्ञघ्नान् रघुनन्दनः ।
ऋषिभिः पूजितस्तत्र यथेन्द्रो विजये पुरा ॥ १.३०.२४ ॥

罗怙之喜杀尽了破坏祭祀的一切罗刹,在那里受到众圣者的敬重,正如往昔因旗开得胜而受敬的因陀罗。

1.30.25

अथ यज्ञे समाप्ते तु विश्वामित्रो महामुनिः ।
निरीतिका दिशो दृष्ट्वा काकुत्स्थमिदमब्रवीत् ॥ १.३०.२५ ॥

祭祀完成之后,大仙人毗首弥多罗见四方皆无扰乱,便对迦古斯陀之子罗摩说了这些话。

1.30.26

कृतार्थोऽस्मि महाबाहो कृतं गुरुवचस्त्वया ।
सिद्धाश्रममिदं सत्यं कृतं वीर महायशः ।
स हि रामं प्रशस्यैवं ताभ्यां संध्यामुपागमत् ॥ १.३०.२६ ॥

啊,大臂者,我的心愿已成;你完成了师尊的吩咐。啊,大名之英雄,你确实使这悉陀精舍圆满成就了。如此赞扬罗摩之后,他与那两人一同去做黄昏的礼拜。