蚁垤《罗摩衍那》 · 篇 1.31
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.31.1
अथ तां रजनीं तत्र कृतार्थौ रामलक्षणौ ।
ऊषतुर्मुदितौ वीरौ प्रहृष्टेनान्तरात्मना ॥ १.३१.१ ॥
于是,罗摩与罗什曼那两位英雄完成了使命,那夜便在此欢喜地留宿,心怀喜悦。
1.31.2
प्रभातायां तु शर्वर्यां कृतपौर्वाह्णिकक्रियौ ।
विश्वामित्रमृषींश्चान्यान्सहितावभिजग्मतुः ॥ १.३१.२ ॥
黎明时分,二人完成了上午的祭礼,一同前往拜见众仙人与毗奢密多罗。
1.31.3
अभिवाद्य मुनिश्रेष्ठं ज्वलन्तमिव पावकम् ।
ऊचतुर्परमोदारं वाक्यं मधुरभाषिणौ ॥ १.३१.३ ॥
二人向如火焰般光耀的仙人之首行礼,言语温和地说出了这番极为宽厚的话。
1.31.4
इमौ स्म मुनिशार्दूल किङ्करौ समुपागतौ ।
आज्ञापय मुनिश्रेष्ठ शासनं करवाव किम् ॥ १.३१.४ ॥
众仙中的猛虎啊,我们二人前来做您的仆从。众仙之首啊,请吩咐,我们该做什么?
1.31.5
एवमुक्ते तयोर्वाक्ये सर्व एव महर्षयः ।
विश्वामित्रं पुरस्कृत्य रामं वचनमब्रुवन् ॥ १.३१.५ ॥
二人说完这些话后,诸大仙以毗奢密多罗为首,对罗摩说了这番话。
1.31.6
मैथिलस्य नरश्रेष्ठ जनकस्य भविष्यति ।
यज्ञः परमधर्मिष्ठस्तत्र यास्यामहे वयम् ॥ १.३१.६ ॥
人中最优秀的啊,弥提罗国王阁那迦那位最守正法者的祭祀即将举行,我们将前往那里。
1.31.7
त्वं चैव नरशार्दूल सहास्माभिर्गमिष्यसि ।
अद्भुतं च धनूरत्नं तत्र त्वं द्रष्टुमर्हसि ॥ १.३१.७ ॥
人中之虎啊,你也将与我们同去;在那里你应当看看那张奇妙的弓,弓中之宝。
1.31.8
तद्धि पूर्वं नरश्रेष्ठ दत्तं सदसि दैवतैः ।
अप्रमेयबलं घोरं मखे परमभास्वरम् ॥ १.३१.८ ॥
人中最好的人啊,那张弓昔日在祭祀的集会上被诸神所赐;它拥有无量的力量,可怖而极其光耀。
1.31.9
नास्य देवा न गन्धर्वा नासुरा न च राक्षसाः ।
कर्तुमारोपणं शक्ता न कथञ्चन मानुषाः ॥ १.३१.९ ॥
无论诸神、乾闼婆、阿修罗、罗刹,还是任何人,都无法以任何方式为它上弦。
1.31.10
धनुषस्तस्य वीर्यं हि जिज्ञासन्तो महीक्षितः ।
न शेकुरारोपयितुं राजपुत्रा महाबलाः ॥ १.३१.१० ॥
前来想要测试那张弓之力量的诸王和大力的王子们,都未能为它上弦。
1.31.11
तद्धनुर्नरशार्दूल मैथिलस्य महात्मनः ।
तत्र द्रक्ष्यसि काकुत्स्थ यज्ञं च परमाद्भुतम् ॥ १.३१.११ ॥
那张弓属于伟大的弥提罗王;人中之虎、迦古特斯塔啊,你在那里将见到那张弓以及最奇妙的祭祀。
1.31.12
तद्धि यज्ञफलं तेन मैथिलेनोत्तमं धनुः ।
याचितं नरशार्दूल सुनाभं सर्वदैवतैः ॥ १.३१.१२ ॥
人中之虎啊,那张殊胜的弓是弥提罗王以祭祀之果,向诸神一一祈求而得,名为苏那婆。
1.31.13
आयागभूतं नृपतेस्तस्य वेश्मनि राघव ।
अर्चितं विविधैर्गन्धैर्धूपैश्चागुरुगन्धिभिः ॥१-३१-१३
एवमुक्त्वा मुनिवरः प्रस्थानमकरोत् तदा ।
सर्षिसङ्घः सकाकुत्स्थ आमन्त्र्य वनदेताः ॥ १.३१.१३ ॥
啊,罗怙之后,在国王的宫中,那张适于祭祀的弓以各种香料和沉香之香的熏香受到供奉。
1.31.14
स्वस्ति वोऽस्तु गमिष्यामि सिद्धः सिद्धाश्रमादहम् ।
उत्तरे जाह्नवीतीरे हिमवन्तं शिलोच्चयम् ॥ १.३१.१४ ॥
愿你们安好。我将离开悉达罗仙林,前往恒河北岸的喜马拉雅,那堆积如山的岩石之地。
1.31.15
इत्युक्त्वा मुनिशार्दूलः कौशिकः स तपोधनः ।
उत्तरां दिशमुद्दिश्य प्रस्थातुमुपचक्रमे ॥ १.३१.१५ ॥
说完这话,以苦行为财富的仙人中的雄狮憍尸迦,便朝北方出发了。
1.31.16
तं व्रजन्तं मुनिवरमन्वगादनुसारिणाम् ।
शकटीशतमात्रं तु प्रयाणे ब्रह्मवादिनाम् ॥ १.३१.१६ ॥
那位杰出的仙人前行时,跟随他的一群梵言者,约有百车之多,一同踏上旅途。
1.31.17
मृगपक्षिगणाश्चैव सिद्धाश्रमनिवासिनः ।
अनुजग्मुर्महात्मानं विश्वामित्रं तपोधनम् ॥ १.३१.१७ ॥
悉达罗仙林中栖居的鹿群与飞鸟,也跟随那位伟大的、以苦行为财富的毗舍蜜多罗而去。
1.31.18
निवर्तयामास ततः स ऋषि सन्घः स पक्षिणः ।
ते गत्वा दूरम् अध्वानम् लम्बमाने दिवाकरे ॥ १.३१.१८ ॥
于是他让仙人群和飞鸟返回;当太阳渐渐西沉时,他们已走出很远的路。
1.31.19
ते गत्वा दूरमध्वानं लम्बमाने दिवाकरे ।
वासं चक्रुर्मुनिगणाः शोणाकूले समाहिताः ॥ १.३१.१९ ॥
众仙人走了很远的路,太阳将落时,专心致志的仙众在首那河岸扎营。
1.31.20
तेऽस्तं गते दिनकरे स्नात्वा हुतहुताशनाः ।
विश्वामित्रं पुरस्कृत्य निषेदुरमितौजसः ॥ १.३१.२० ॥
太阳落下后,那些威力无量的仙人沐浴,向火中供奉祭品,然后以毗首弭多罗居前而坐。
1.31.21
रामोऽपि सहसौमित्रिर्मुनींस्तानभिपूज्य च ।
अग्रतो निषसादाथ विश्वामित्रस्य धीमतः ॥ १.३१.२१ ॥
罗摩与善生(罗什曼那)一同礼敬那些仙人,然后坐在智慧的毗首弭多罗面前。
1.31.22
अथ रामो महातेजा विश्वामित्रं तपोधनम् ।
पप्रच्छ मुनिशार्दूलं कौतूहलसमन्वितम् ॥ १.३१.२२ ॥
于是光辉伟大的罗摩怀着好奇,询问以苦行为财富、仙人中的猛虎毗首弭多罗。
1.31.23
भगवन् को न्वयं देशः समृद्धवनशोभितः ।
श्रोतुमिच्छामि भद्रं ते वक्तुमर्हसि तत्त्वतः ॥ १.३१.२३ ॥
尊者,这片林木茂盛、景色优美的地方是何处?我愿意听闻;愿您吉祥,请如实告诉我。
1.31.24
चोदितो रामवाक्येन कथयामास सुव्रतः ।
तस्य देशस्य निखिलमृषिमध्ये महातपाः ॥ १.३१.२४ ॥
受罗摩之言的启发,持守誓愿的大苦行者毗首弭多罗在众仙人之中,开始讲述那片土地的全部来历。