蚁垤《罗摩衍那》 · 篇 1.33
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.33.1
तस्य तद्वचनं श्रुत्वा कुशनाभस्य धीमतः ।
शिरोभिश्चरणौ स्पृष्ट्वा कन्याशतमभाषत ॥ १.३३.१ ॥
百名少女聆听了智者俱舍那婆的话语,以头触其足,然后开口说道。
1.33.2
वायुः सर्वात्मको राजन् प्रधर्षयितुमिच्छति ।
अशुभं मार्गमास्थाय न धर्मं प्रत्यवेक्षते ॥ १.३३.२ ॥
大王啊,一切之魂的风神想要侵犯我们。他走上不祥之路,不顾法度。
1.33.3
पितृमत्यः स्म भद्रं ते स्वच्छन्दे न वयं स्थिताः ।
पितरं नो वृणीष्व त्वं यदि नो दास्यते तव ॥ १.३३.३ ॥
愿你安好。我们在父亲的权下,并非自主。请向我们的父亲求婚,如果他愿意把我们许给你。
1.33.4
तेन पापानुबन्धेन वचनं न प्रतीच्छता ।
एवं ब्रुवन्त्यः सर्वाः स्म वायुनाभिहता भृशम् ॥ १.३३.४ ॥
因为她们没有接受那恶人的话,这样说的她们全都被风神严重地折磨了。
1.33.5
तासां तु वचनं श्रुत्वा राजा परमधार्मिकः ।
प्रत्युवाच महातेजाः कन्याशतमनुत्तमम् ॥ १.३३.५ ॥
大王听了她们的话,这位极其正直、威光赫赫的国王回答了这百名无双的少女。
1.33.6
क्षान्तं क्षमावतां पुत्र्यः कर्तव्यं सुमहत् कृतम् ।
ऐकमत्यमुपागम्य कुलं चावेक्षितं मम ॥ १.३३.६ ॥
女儿们啊,宽恕是有耐心者的本分。你们做了极大的善事;齐心一意,也顾及了我的家族。
1.33.7
अलङ्कारो हि नारीणां क्षमा तु पुरुषस्य वा ।
दुष्करं तच्च वै क्षान्तं त्रिदशेषु विशेषतः ॥ १.३३.७ ॥
忍耐是女子的装饰,也是男子的装饰。然而即使在诸神之中,忍耐也极为难行;真正坚持忍耐是困难的。
1.33.8
यादृशी वः क्षमा पुत्र्यः सर्वासामविशेषतः ।
क्षमा दानं क्षमा सत्यं क्षमा यज्ञाश्च पुत्रिकाः ॥ १.३३.८ ॥
女儿们,你们的忍耐如何,你们每一个人都同样具备,没有差别。忍耐即是布施,忍耐即是真实;女儿们,忍耐即是祭祀。
1.33.9
क्षमा यशः क्षमा धर्मः क्षमायां विष्ठितं जगत् ।
विसृज्य कन्याः काकुत्स्थ राजा त्रिदशविक्रमः ॥ १.३३.९ ॥
忍耐即是名声,忍耐即是法;世界立足于忍耐之中。迦restha啊,送别女儿们之后,那位勇武如天神的国王……
1.33.10
मन्त्रज्ञो मन्त्रयामास प्रदानं सह मन्त्रिभिः ।
देशे काले च कर्तव्यं सदृशे प्रतिपादनम् ॥ १.३३.१० ॥
通晓谋略的国王与大臣们商议:应当在适当的地方、适当的时候,将女儿嫁给合适的夫婿。
1.33.11
एतस्मिन्नेव काले तु चूली नाम महाद्युतिः
ऊर्ध्वरेताः शुभाचारो ब्राह्मं तप उपागमत् ॥ १.३३.११ ॥
就在此时,名叫遮利的大光明仙人,禁欲上行,品行善良,开始修行梵行苦行。
1.33.12
तपस्यन्तमृषिं तत्र गन्धर्वी पर्युपासते ।
सोमदा नाम भद्रं ते ऊर्मिलातनया तदा ॥ १.३३.१२ ॥
那里,一位名叫苏摩陀的乾闼婆女子正在侍奉修苦行的仙人;她是乌尔米拉之女。愿你安好。
1.33.13
सा च तं प्रणता भूत्वा शुश्रूषणपरायणा ।
उवास काले धर्मिष्ठा तस्यास्तुष्टोऽभवद् गुरुः ॥ १.३३.१३ ॥
她向他行礼,专心侍奉,留居在那里。时间久了,老师对这位贤德的女子感到满意。
1.33.14
स च तां कालयोगेन प्रोवाच रघुनन्दन ।
परितुष्टोऽस्मि भद्रं ते किं करोमि तव प्रियम् ॥ १.३३.१४ ॥
时候到了,他对她说:“拉古的喜悦啊,我非常满意。愿你平安吉祥。你所喜爱的,我该为你做什么?”
1.33.15
परितुष्टं मुनिं ज्ञात्वा गन्धर्वी मधुरस्वरम् ।
उवाच परमप्रीता वाक्यज्ञा वाक्यकोविदम् ॥ १.३३.१५ ॥
她知道仙人已经满意,心中十分欢喜,精通言辞的乐神女用甜美的声音对这位精通辞令的仙人说道。
1.33.16
लक्ष्म्या समुदितो ब्राह्म्या ब्रह्मभूतो महातपाः ।
ब्राह्मेण तपसा युक्तं पुत्रमिच्छामि धार्मिकम् ॥ १.३३.१६ ॥
"你拥有吉祥与婆罗门的光辉,化为梵的存在,苦行深厚。我希望得到一个具有婆罗门苦行的正直之子。"
1.33.17
अपतिश्चास्मि भद्रं ते भार्या चास्मि न कस्यचित् ।
ब्राह्मेणोपगतायाश्च दातुमर्हसि मे सुतम् ॥ १.३३.१७ ॥
"我没有丈夫,也不是任何人的妻子。愿你平安吉祥。我已依婆罗门之礼来到你身边,你应当赐给我一个儿子。"
1.33.18
तस्याः प्रसन्नो ब्रह्मर्षिर्ददौ ब्राह्ममनुत्तमम् ।
ब्रह्मदत्त इति ख्यातं मानसं चूलिनः सुतम् ॥ १.३३.१८ ॥
仙人对她感到满意,便赐给她一个至高的婆罗门之子,名叫梵授,是朱林的意生之子。
1.33.19
स राजा ब्रह्मदत्तस्तु पुरीमध्यवसत् तदा ।
काम्पिल्यां परया लक्ष्म्या देवराजो यथा दिवम् ॥ १.३३.१९ ॥
那时,梵授王住在坎皮利亚城,如同天神之王住在天界,拥有至上的光辉。
1.33.20
स बुद्धिं कृतवान् राजा कुशनाभः सुधार्मिकः ।
ब्रह्मदत्ताय काकुत्स्थ दातुं कन्याशतं तदा ॥ १.३३.२० ॥
啊,迦恭特之裔!极其正直的古莎那跋王当时决定将一百个女儿嫁给梵授。
1.33.21
तमाहूय महातेजा ब्रह्मदत्तं महीपतिः ।
ददौ कन्याशतं राजा सुप्रीतेनान्तरात्मना ॥ १.३३.२१ ॥
大光明的地上之主召来梵授,以极为欢喜的心将一百个女儿交给了他。
1.33.22
यथाक्रमं तदा पाणिं जग्राह रघुनन्दन ।
ब्रह्मदत्तो महीपालस्तासां देवपतिर्यथा ॥ १.३३.२२ ॥
啊,罗怙之乐!那时,大地的守护者梵授依次牵起了她们每个人的手,如同诸神之主一般。
1.33.23
स्पृष्टमात्रे तदा पाणौ विकुब्जा विगतज्वराः ।
युक्तं परमया लक्ष्म्या बभौ कन्याशतं तदा ॥ १.३३.२३ ॥
手一被触碰,那些驼背的少女便脱离了热病;那时,这一百个女儿都焕发出至上的光彩。
1.33.24
स दृष्ट्वा वायुना मुक्ताः कुशनाभो महीपतिः ।
बभूव परमप्रीतो हर्षं लेभे पुनः पुनः ॥ १.३३.२४ ॥
见到被风解脱的女儿们,大地之主古莎那跋极为欢喜,一次又一次地感到喜悦。
1.33.25
कृतोद्वाहं तु राजानं ब्रह्मदत्तं महीपतिम् ।
सदारं प्रेषयामास सोपाध्यायगणं तदा ॥ १.३३.२५ ॥
婚礼完成后,国王俱舍那婆送别国王梵授,连同他的妻子和一众祭司。
1.33.26
सोमदापि सुतं दृष्ट्वा पुत्रस्य सदृशीं क्रियाम् ।
यथान्यायं च गन्धर्वी स्नुषास्ताः प्रत्यनन्दत ।
स्पृष्ट्वा स्पृष्ट्वा च ताः कन्याः कुशनाभं प्रशस्य च ॥ १.३३.२६ ॥
苏摩达见儿子的婚礼合乎礼仪,那位乾闼婆妇人依礼欢迎众儿媳。她一再抚摸那些少女,并赞美俱舍那婆,心中欢喜。