Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 1.35

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.35.1

उपास्य रात्रिशेषं तु शोणाकूले महर्षिभिः ।
निशायां सुप्रभातायां विश्वामित्रोऽभ्यभाषत ॥ १.३५.१ ॥

在夜晚剩余的时间里,与众大仙在Śoṇa河岸举行完敬拜,黎明降临时,毗奢蜜多罗开口说道。

1.35.2

सुप्रभाता निशा राम पूर्वा संध्या प्रवर्तते ।
उत्तिष्ठोत्तिष्ठ भद्रं ते गमनायाभिरोचय ॥ १.३५.२ ॥

罗摩啊,夜晚已成为清晨,东方的晨曦已经开始。起来,起来,愿你吉祥;决意启程吧。

1.35.3

तच्छ्रुत्वा वचनं तस्य कृतपूर्वाह्णिकक्रियः ।
गमनं रोचयामास वाक्यं चेदमुवाच ह ॥ १.३५.३ ॥

他听了这番话,做完晨间的仪式,同意启程,并说了这些话。

1.35.4

अयं शोणः शुभजलोऽगाधः पुलिनमण्डितः ।
कतरेण पथा ब्रह्मन् संतरिष्यामहे वयम् ॥ १.३५.४ ॥

这是Śoṇa河,水清而深,岸边饰以沙洲。婆罗门啊,我们应走哪条路渡过它?

1.35.5

एवमुक्तस्तु रामेण विश्वामित्रोऽब्रवीदिदम् ।
एष पन्था मयोद्दिष्टो येन यान्ति महर्षयः ॥ १.३५.५ ॥

罗摩如此说后,毗奢蜜多罗回答道:这就是我所指示的道路,大仙们正是由此而行。

1.35.6

एवमुक्ता महर्षयो विश्वामित्रेण धीमता ।
पश्यन्तस्ते प्रयाता वै वनानि विविधानि च ॥ १.३५.६ ॥

智慧的毗奢蜜多罗如此说后,众大仙启程前行,一路观赏各种森林。

1.35.7

ते गत्वा दूरमध्वानं गतेऽर्धदिवसे तदा ।
जाह्नवीं सरितां श्रेष्ठां ददृशुर्मुनिसेविताम् ॥ १.३५.७ ॥

他们走了很远的路,午后时分,看见了河流中最殊胜、为诸仙人所常至的遮诃维河(恒河)。

1.35.8

तां दृष्ट्वा पुण्यसलिलां हंससारससेविताम् ।
बभूवुर्मुनयः सर्वे मुदिताः सहराघवाः ॥ १.३५.८ ॥

众仙人见到这圣水之河,白鹅与鹤鸟常常栖息其间,都与罗怙家族的两位王子一同欢喜。

1.35.9

तस्यास्तीरे तदा सर्वे चक्रुर्वासपरिग्रहम् ।
ततः स्नात्वा यथान्यायं संतर्प्य पितृदेवताः ॥ १.३५.९ ॥

于是众人在河岸安顿下来。随后依照仪轨沐浴,并向祖先与诸神献上供水,

1.35.10

हुत्वा चैवाग्निहोत्राणि प्राश्य चामृतवद्धविः ।
विविशुर्जाह्नवीतीरे शुभा मुदितमानसाः ॥ १.३५.१० ॥

他们供奉了火祭,又享用了如甘露般的祭食,心怀欢喜、吉祥安宁地进入遮诃维河的岸边。

1.35.11

विश्वामित्रं महात्मानं परिवार्य समन्ततः ।
विष्ठिताश्च यथान्यायं राघवौ च यथार्हतः ।
संप्रहृष्टमना रामो विश्वामित्रमथाब्रवीत् ॥ १.३५.११ ॥

众人在大心的毗首密多罗四周依次而坐,两位罗怙子也各按其位而坐。此时,心中极为欢喜的罗摩对毗首密多罗说道。

1.35.12

भगवञ्छ्रोतुमिच्छामि गङ्गां त्रिपथगां नदीम् ।
त्रैलोक्यं कथमाक्रम्य गता नदनदीपतिम् ॥ १.३५.१२ ॥

尊者啊,我想听闻三路流淌的恒河:她如何穿越三界,抵达诸河之主(大海)。

1.35.13

चोदितो रामवाक्येन विश्वामित्रो महामुनिः ।
वृद्धिं जन्म च गङ्गाया वक्तुमेवोपचक्रमे ॥ १.३५.१३ ॥

受罗摩之言的催促,大仙人毗首密多罗开始讲述恒河的成长与出生。

1.35.14

शैलेन्द्रो हिमवान् राम धातूनामाकरो महान् ।
तस्य कन्याद्वयं राम रूपेणाप्रतिमं भुवि ॥ १.३५.१४ ॥

罗摩啊,群山之王雪山(Himavān)是矿物的巨大宝库,他有两个女儿,其美貌在世间无与伦比。

1.35.15

या मेरुदुहिता राम तयोर्माता सुमध्यमा ।
नाम्ना मेना मनोज्ञा वै पत्नी हिमवतः प्रिया ॥ १.३५.१५ ॥

罗摩啊,她是须弥山之女,腰肢纤细、名叫蔑那(Menā)的可爱女子,是雪山(Himavat)心爱的妻子,也是那二女的母亲。

1.35.16

तस्यां गङ्गेयमभवज्ज्येष्ठा हिमवतः सुता ।
उमा नाम द्वितीयाभूत् कन्या तस्यैव राघव ॥ १.३५.१६ ॥

她生下了这位恒河,即雪山的长女;而同一对夫妇的次女名叫乌玛(Umā),啊,罗怙之后裔。

1.35.17

अथ ज्येष्ठां सुराः सर्वे देवकार्यचिकीर्षया ।
शैलेन्द्रं वरयामासुर्गङ्गां त्रिपथगां नदीम् ॥ १.३५.१७ ॥

于是诸天神为成就天神之事,向群山之王求娶他的长女——流经三界的恒河女神。

1.35.18

ददौ धर्मेण हिमवांस्तनयां लोकपावनीम् ।
स्वच्छन्दपथगां गङ्गां त्रैलोक्यहितकाम्यया ॥ १.३५.१८ ॥

雪山依法将其女恒河——净化世界、随意流淌的女神——奉献出去,只因心愿三界安乐。

1.35.19

प्रतिगृह्य त्रिलोकार्थं त्रिलोकहितकांक्षिणः ।
गङ्गामादाय तेऽगच्छन् कृतार्थेनान्तरात्मना ॥ १.३५.१९ ॥

为了三界,他们接受了恒河,心满意足地带着恒河离去。

1.35.20

या चान्या शैलदुहिता कन्याऽसीद् रघुनन्दन ।
उग्रं सुव्रतमास्थाय तपस्तेपे तपोधना ॥ १.३५.२० ॥

罗怙的喜悦者啊,山王还有另一个少女之女,她以苦行为财富,发下严格的誓愿,修行了猛烈的苦行。

1.35.21

उग्रेण तपसा युक्तां ददौ शैलवरः सुताम् ।
रुद्रायाप्रतिरूपाय उमां लोकनमस्कृताम् ॥ १.३५.२१ ॥

山中最尊贵者将这位具有猛烈苦行的女儿嫁给了无与伦比的楼陀罗;这位乌玛受到世界的敬拜。

1.35.22

एते ते शैलराजस्य सुते लोकनमस्कृते ।
गङ्गा च सरितां श्रेष्ठा उमादेवी च राघव ॥ १.३५.२२ ॥

罗怙的后裔啊,山王的这两个女儿受到世界的敬拜:河流中最殊胜的恒河,以及女神乌玛。

1.35.23

एतत् ते सर्वमाख्यातं यथा त्रिपथगामिनी ।
खं गता प्रथमं तात गतिं गतिमतां वर ॥ १.३५.२३ ॥

这一切都已告诉你了:三路流淌的恒河最初如何升入天空。亲爱的,你是行者中最优秀的!

1.35.24

सैषा सुरनदी रम्या शैलेन्द्रतनया तदा ।
सुरलोकं समारूढा विपापा जलवाहिनी ॥ १.३५.२४ ॥

这条美丽的天河,山王之女,那时升上了天界——无罪,承载着清水。