蚁垤《罗摩衍那》 · 篇 1.36
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.36.1
उक्तवाक्ये मुनौ तस्मिन्नुभौ राघवलक्ष्मणौ ।
प्रतिनन्द्य कथां वीरावूचतुर्मुनिपुङ्गवम् ॥ १.३६.१ ॥
贤者说完之后,罗怙家族的两位英雄罗摩与罗什曼那欣然接受了这段故事,并对这位最杰出的贤者说道。
1.36.2
धर्मयुक्तमिदं ब्रह्मन् कथितं परमं त्वया ।
दुहितुः शैलराजस्य ज्येष्ठाया वक्तुमर्हसि ।
विस्तरं विस्तरज्ञोऽसि दिव्यमानुषसम्भवम् ॥ १.३६.२ ॥
婆罗门啊,您讲述了这段充满法义的至高故事。现在请您详细讲讲山王的长女吧,您精通细节;她生于神性与人性之中。
1.36.3
त्रीन् पथो हेतुना केन प्लावयेल्लोकपावनी ।
कथं गङ्गां त्रिपथगा विश्रुता सरिदुत्तमा ॥ १.३६.३ ॥
那净化世界的恒河因何缘故分流三道?三道之河恒河又如何成为最殊胜的河流而闻名?
1.36.4
त्रिषु लोकेषु धर्मज्ञ कर्मभिः कैः समन्विता ।
तथा ब्रुवति काकुत्स्थे विश्वामित्रस्तपोधनः ॥ १.३६.४ ॥
精通法义者啊,她在三界中因何种业行而具足?当迦古特斯塔如此说时,以苦行为财富的毗首密多罗,
1.36.5
निखिलेन कथां सर्वामृषिमध्ये न्यवेदयत् ।
पुरा राम कृतोद्वाहः शितिकण्ठो महातपाः ॥ १.३६.५ ॥
毗首密多罗在诸仙中完整地讲述了全部故事:罗摩啊,往昔那位已成婚的蓝喉大苦行者,
1.36.6
दृष्ट्वा च भगवान् देवीं मैथुनायोपचक्रमे ।
तस्य संक्रीडमानस्य महादेवस्य धीमतः ।
शितिकण्ठस्य देवस्य दिव्यं वर्षशतं गतम् ॥ १.३६.६ ॥
世尊见到天女,便开始与她结合;当那位智慧的大神、蓝喉之神如此嬉戏时,经过了神圣的一百年。
1.36.7
न चापि तनयो राम तस्यामासीत् परंतप ।
सर्वे देवाः समुद्युक्ताः पितामहपुरोगमाः ॥ १.३६.७ ॥
罗摩啊,她没有生下儿子。焚烧敌人者啊,于是以梵天为首的诸神都准备行动起来。
1.36.8
यदिहोत्पद्यते भूतं कस्तत् प्रतिसहिष्यति ।
अभिगम्य सुराः सर्वे प्रणिपत्येदमब्रुवन् ॥ १.३६.८ ॥
若此处诞生这样的生灵,谁能承受得住?诸神于是走近,行礼后说道。
1.36.9
देवदेव महादेव लोकस्यास्य हिते रत ।
सुराणां प्रणिपातेन प्रसादं कर्तुमर्हसि ॥ १.३६.९ ॥
诸神之神、大天啊,你喜悦于此世界的福祉,诸神向你行礼,你应当施恩。
1.36.10
न लोका धारयिष्यन्ति तव तेजः सुरोत्तम ।
ब्राह्मेण तपसा युक्तो देव्या सह तपश्चर ॥ १.३६.१० ॥
诸神中最殊胜者啊,诸世界将无法承受你的光辉。请以梵天的苦行为依托,与天女一同修行。
1.36.11
त्रैलोक्यहितकामार्थं तेजस्तेजसि धारय ।
रक्ष सर्वानिमाँल्लोकान् नालोकं कर्तुमर्हसि ॥ १.३६.११ ॥
为三界之福祉着想,请将你的光辉收敛于光辉之中。守护这一切世界,不应使其毁灭。
1.36.12
देवतानां वचः श्रुत्वा सर्वलोकमहेश्वरः ।
बाढमित्यब्रवीत् सर्वान् पुनश्चेदमुवाच ह ॥ १.३६.१२ ॥
大自在神听了诸神的话,说道:“好。”随后又对众神说了这番话。
1.36.13
धारयिष्याम्यहं तेजस्तेजसैव सहोमया ।
त्रिदशाः पृथिवी चैव निर्वाणमधिगच्छतु ॥ १.३६.१३ ॥
我将与乌玛一同亲自承受这股光焰;愿三十三天与大地得到寂静(涅槃)。
1.36.14
यदिदं क्षुभितं स्थानान्मम तेजो ह्यनुत्तमम् ।
धारयिष्यति कस्तन्मे ब्रुवन्तु सुरसत्तमाः ॥ १.३६.१४ ॥
我这无与伦比的光焰已离开其位,谁能承受?诸位天神中的翘楚,请告诉我。
1.36.15
एवमुक्तास्ततो देवाः प्रत्यूचुर्वृषभध्वजम् ।
यत्तेजः क्षुभितं ह्यद्य तद्धरा धारयिष्यति ॥ १.३६.१५ ॥
诸神听罢,回答牛旗者(湿婆):如今那已被搅动的光焰,将由大地承受。
1.36.16
एवमुक्तः सुरपतिः प्रमुमोच महाबलः ।
तेजसा पृथिवी येन व्याप्ता सगिरिकानना ॥ १.३६.१६ ॥
如此被请求后,大力的诸神之主(湿婆)释放了那股光焰,大地连同山岳与森林都被它充满。
1.36.17
ततो देवाः पुनरिदमूचुश्चापि हुताशनम् ।
आविश त्वं महातेजो रौद्रं वायुसमन्वितः ॥ १.३६.१७ ॥
于是诸神再次对火神阿耆尼说:啊,大光明者,与风相合,进入那猛烈的光焰之中吧。
1.36.18
तदग्निना पुनर्व्याप्तं संजातं श्वेतपर्वतम् ।
दिव्यं शरवणं चैव पावकादित्यसंनिभम् ॥ १.३६.१८ ॥
那光焰再度被阿耆尼充满,化作一座白色的山峰与神圣的芦苇丛(舍罗婆那),光明如火与日。
1.36.19
यत्र जातो महातेजाः कार्तिकेयोऽग्निसम्भवः ।
अथोमां च शिवं चैव देवाः सर्षिगणास्तदा ॥ १.३६.१९ ॥
大光明的迦尔迪盖耶(从火中所生)降生之处,那时诸天神与仙人众一同与乌玛和湿婆在那里。
1.36.20
पूजयामासुरत्यर्थं सुप्रीतमनसस्तदा ।
अथ शैलसुता राम त्रिदशानिदमब्रवीत् ॥ १.३६.२० ॥
那时诸神心中十分欢喜,极为礼敬他们。罗摩啊,那时山女对诸天神说了这些话。
1.36.21
समन्युरशपत् सर्वान् क्रोधसंरक्तलोचना ।
यस्मान्निवारिता चाहं संगता पुत्रकाम्यया ॥ १.३६.२१ ॥
她双眼因愤怒而泛红,心怀怨怒,诅咒了他们所有人:
1.36.22
अपत्यं स्वेषु दारेषु नोत्पादयितुमर्हथ ।
अद्यप्रभृति युष्माकमप्रजाः सन्तु पत्नयः ॥ १.३६.२२ ॥
「你们不配与自己的妻子生育子嗣。从今日起,愿你们的妻子无子。」
1.36.23
एवमुक्त्वा सुरान् सर्वाञ्शशाप पृथिवीमपि ।
अवने नैकरूपा त्वं बहुभार्या भविष्यसि ॥ १.३६.२३ ॥
说完这些,她诅咒了所有诸天神,也诅咒了大地:「大地啊,你将变为多种形态,并将拥有许多丈夫。」
1.36.24
न च पुत्रकृतां प्रीतिं मत्क्रोधकलुषीकृता ।
प्राप्स्यसि त्वं सुदुर्मेधो मम पुत्रमनिच्छती ॥ १.३६.२४ ॥
「你被我的愤怒所玷污,愚蠢的女人,你将得不到由儿子带来的快乐,因为你并不愿意我的儿子。」
1.36.25
तान् सर्वान् पीडितान् दृष्ट्वा सुरान् सुरपतिस्तदा ।
गमनायोपचक्राम दिशं वरुणपालिताम् ॥ १.३६.२५ ॥
此时,诸神皆受苦难,众神之主因陀罗便动身前往婆楼那所护之方。
1.36.26
स गत्वा तप आतिष्ठत् पार्श्वे तस्योत्तरे गिरेः ।
हिमवत्प्रभवे शृङ्गे सह देव्या महेश्वरः ॥ १.३६.२६ ॥
他前往那座山的北侧,在源自喜马拉雅的山峰上,大天神与天后一同修行苦行。
1.36.27
एष ते विस्तरो राम शैलपुत्र्या निवेदितः
गङ्गायाः प्रभवं चैव शृणु मे सहलक्ष्मण ॥ १.३६.२७ ॥
罗摩啊,关于山女的这段详细故事已经讲给你听了。现在与罗什曼那一起,听我讲恒河的起源吧。