Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 1.4

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.4.1

प्राप्तराज्यस्य रामस्य वाल्मीकिर्भगवानृषिः ।
चकार चरितं कृत्स्नं विचित्रपदमर्थवत् ॥ १.४.१ ॥

尊贵的仙人蚁垤(Vālmīki)在罗摩获得王位之后,以词语丰富、意义深远的诗篇,完整地创作了罗摩的事迹。

1.4.2

चतुर्विंशत्सहस्राणि श्लोकानामुक्तवानृषिः ।
तथा सर्गशतान् पञ्च षट्काण्डानि तथोत्तरम् ॥ १.४.२ ॥

仙人宣说了二万四千颂、五百章、六篇,并包括最后一篇。

1.4.3

कृत्वा तु तन्महाप्राज्ञः सभविष्यं सहोत्तरम् ।
चिन्तयामास को न्वेतत् प्रयुञ्जीयादिति प्रभुः ॥ १.४.३ ॥

这位大智者创作了包含未来与最后一篇的此作后,思量:谁应当来传诵它。

1.4.4

तस्य चिन्तयमानस्य महर्षेर्भावितात्मनः ।
अगृह्णीतां ततः पादौ मुनिवेषौ कुशीलवौ ॥ १.४.४ ॥

当这位心地纯净的大仙沉思之时,身着苦行者装束的俱舍与罗婆抱住了他的双足。

1.4.5

कुशीलवौ तु धर्मज्ञौ राजपुत्रौ यशस्विनौ ।
भ्रातरौ स्वरसंपन्नौ ददर्शाश्रमवासिनौ ॥ १.४.५ ॥

俱舍与罗婆,通晓法义的著名王子,兄弟二人,嗓音甜美,他看见他们住在修行林中。

1.4.6

स तु मेधाविनौ दृष्ट्वा वेदेषु परिनिष्ठितौ ।
वेदोपबृंह्मणार्थाय तावग्राहयत प्रभुः ॥ १.४.६ ॥

他见这两位聪慧之人坚守吠陀,便为了弘扬吠陀,让他们学习此作。

1.4.7

काव्यं रामायणं कृत्स्नं सीतायाश्चरितं महत् ।
पौलस्त्यवधमित्येवं चकार चरितव्रतः ॥ १.४.७ ॥

他恪守行为誓愿,完整创作了名为《罗摩衍那》的史诗,其中包括悉多的伟大事迹以及补罗私底耶(罗波那)之死。

1.4.8

पाठ्ये गेये च मधुरं प्रमाणैस्त्रिभिरन्वितम् ।
जातिभिः सप्तभिर्युक्तं तन्त्रीलयसमन्वितम् ॥ १.४.८ ॥

此诗无论诵读还是歌唱都甜美动听;它具备三种度量,融合七种音调,并伴以弦乐与节拍。

1.4.9

रसैः शृङ्गारकरुणहास्यरौद्रभयानकैः ।
वीरादिभी रसैर्युक्तं काव्यमेतदगायताम् ॥ १.४.९ ॥

此诗具备爱、悲悯、喜剧、愤怒、恐惧及英雄等诸情感;请歌唱它。

1.4.10

तौ तु गान्धर्वतत्त्वज्ञौ स्थानमूर्च्छनकोविदौ ।
भ्रातरौ स्वरसम्पन्नौ गन्धर्वाविव रूपिणौ ॥ १.४.१० ॥

这两位兄弟通晓乾闼婆音乐的原理,精通音阶与转调,嗓音优美;仿佛是化为人形的乾闼婆。

1.4.11

रूपलक्षणसम्पन्नौ मधुरस्वरभाषिणौ ।
बिम्बादिवोत्थितौ बिम्बौ रामदेहात् तथापरौ ॥ १.४.११ ॥

二人具备美貌与吉相,言语声音甜美,仿佛是从罗摩身体中生出的另外两个影像。

1.4.12

तौ राजपुत्रौ कार्त्स्न्येन धर्म्यमाख्यानमुत्तमम् ।
वाचोविधेयं तत्सर्वं कृत्वा काव्यमनिन्दितौ ॥ १.४.१२ ॥

这两位无过失的王子将这部合乎法度、卓越的叙事完整记熟,并将此诗铭记于口中。

1.4.13

ऋषीणां च द्विजातीनां साधूनां च समागमे ।
यथोपदेशं तत्त्वज्ञौ जगतुः सुसमाहितौ ॥ १.४.१३ ॥

在仙人、再生婆罗门与善人的集会中,这二位通晓真理者依照教导,专心致志地歌唱。

1.4.14

महात्मानौ महाभागौ सर्वलक्षणलक्षितौ ।
तौ कदाचित् समेतानामृषीणां भावितात्मनाम् ॥ १.४.१४ ॥

二人心志高远、福德深厚,具备一切吉祥之相。有一次,在聚集的自制仙人之中——

1.4.15

मध्ये सभं समीपस्थाविदं काव्यमगायताम् ।
तच्छ्रुत्वा मुनयः सर्वे बाष्पपर्याकुलेक्षणाः ॥ १.४.१५ ॥

在集会中央,二人近旁站立,歌唱这部诗篇。众仙人听后,眼中皆盈满泪水。

1.4.16

साधु साध्विति तावूचुः परं विस्मयमागताः ।
ते प्रीतमनसः सर्वे मुनयो धर्मवत्सलाः ॥ १.४.१६ ॥

众人连声说“善哉!善哉!”,对二人赞叹不已,深感惊异。众仙人心生喜悦,皆热爱正法——

1.4.17

प्रशशंसुः प्रशस्तव्यौ गायमानौ कुशीलवौ ।
अहो गीतस्य माधुर्यं श्लोकानां च विशेषतः ॥ १.४.१७ ॥

他们赞叹正在歌唱的、值得称赞的二位歌者——俱舍与罗婆。啊!这歌曲的甜美,尤其是诗句的甜美!

1.4.18

चिरनिर्वृत्तमप्येतत् प्रत्यक्षमिव दर्शितम् ।
प्रविश्य तावुभौ सुष्ठु तथाभावमगायताम् ॥ १.४.१८ ॥

此事虽已远去,却仿佛历历在目地展现。二人投入其中,以那般情感把它唱得极好。

1.4.19

सहितौ मधुरं रक्तं सम्पन्नं स्वरसंपदा ।
एवं प्रशस्यमानौ तौ तपः श्लाघ्यैर्महर्षिभिः ॥ १.४.१९ ॥

二人一同以甜美而富有情感的声音歌唱,音调丰美。如此,他们受到因苦行而value得赞誉的大仙人们的称赞。

1.4.20

संरक्ततरमत्यर्थं मधुरं तावगायताम् ।
प्रीतः कश्चिन्मुनिस्ताभ्यां संस्थितः कलशं ददौ ॥ १.४.२० ॥

二人唱得更加饱含深情,极其甜美。一位欢喜的仙人站在他们面前,把一只水瓶交给了他们。

1.4.21

प्रसन्नो वल्कलं कश्चिद् ददौ ताभ्यां महायशाः ।
अन्यः कृष्णाजिनमदाद् यज्ञसूत्रं तथापरः ॥ १.४.२१ ॥

一位大名鼎鼎的仙人欢喜地给了他们树皮衣。另一位给了他们黑羚羊皮,又一位给了他们圣线。

1.4.22

कश्चित् कमण्डलुं प्रादान्मौञ्जीमन्यो महामुनिः ।
बृसीमन्यस्तदा प्रादात् कौपीनमपरो मुनिः ॥ १.४.२२ ॥

有人给了一只水壶,一位大仙人给了一条茅草腰带。另一人随即给了一张草席,还有一位仙人给了一条遮羞布。

1.4.23

ताभ्यां ददौ तदा हृष्टः कुठारमपरो मुनिः ।
काषायमपरो वस्त्रं चीरमन्यो ददौ मुनिः ॥ १.४.२३ ॥

这时另一位欢喜的仙人给了他们一把斧头。又一位给了他们赭色的衣服,另一位给了树皮布。

1.4.24

जटाबन्धनमन्यस्तु काष्ठरज्जुं मुदान्वितः ।
यज्ञभाण्डमृषिः कश्चित् काष्ठभारं तथा परः ॥ १.४.२४ ॥

另一人满怀喜悦,给了发束,又一人给了木绳。一位仙人给了祭器,另一人给了一捆柴火。

1.4.25

औदुम्बरीं ब्रुसीमन्यः स्वस्ति केचित् तदावदन् ।
आयुष्यमपरे प्राहुर्मुदा तत्र महर्षयः ॥ १.४.२५ ॥

另一人指着乌昙婆罗圣柴捆说了一声“吉祥”;其他人则欢喜地在那里,大仙们说:“愿你长寿。”

1.4.26

ददुश्चैवं वरान् सर्वे मुनयः सत्यवादिनः ।
आश्चर्यमिदमाख्यानं मुनिना सम्प्रकीर्तितम् ॥ १.४.२६ ॥

如此,所有说真话的仙人都赐予了恩惠,这段奇妙的叙述也由仙人完整地讲述了。

1.4.27

परं कवीनामाधारं समाप्तं च यथाक्रमम् ।
अभिगीतमिदं गीतं सर्वगीतेषु कोविदौ ॥ १.४.२७ ॥

此歌乃诗人之至上根基;按次序完成,精通一切歌曲的二人将其唱完。

1.4.28

आयुष्यं पुष्टिजननं सर्वश्रुतिमनोहरम् ।
प्रशस्यमानौ सर्वत्र कदाचित् तत्र गायकौ ॥ १.४.२८ ॥

此歌赐予长寿与福祉,令一切聆听者心醉神迷;那里,这两位歌者到处、时常受到赞誉。

1.4.29

रथ्यासु राजमार्गेषु ददर्श भरताग्रजः ।
स्ववेश्म चानीय ततो भ्रातरौ स कुशीलवौ ॥ १.४.२९ ॥

在街道与王道上,婆罗多的兄长见到了他们;随后,他将这两位兄弟,即俱舍罗婆,带回自己的府邸。

1.4.30

पूजयामास पूजार्हौ रामः शत्रुनिबर्हणः ।
आसीनः काञ्चने दिव्ये स च सिंहासने प्रभुः ॥ १.४.३० ॥

摧毁敌人的罗摩尊敬了这两位值得尊敬的人;而他这位主君,正坐在金色的神圣宝座上。

1.4.31

उपोपविष्टैः सचिवैर्भ्रातृभिश्च समन्वितः ।
दृष्ट्वा तु रूपसम्पन्नौ विनीतौ भ्रातरावुभौ ॥ १.४.३१ ॥

罗摩被身旁就座的大臣和兄弟们簇拥着,看见那两位容貌俊美、谦逊有礼的兄弟。

1.4.32

उवाच लक्ष्मणं रामः शत्रुघ्नं भरतं तथा ।
श्रूयतामेतदाख्यानमनयोर्देववर्चसोः ॥ १.४.३२ ॥

罗摩对罗什曼那说,也对设睹卢那和婆罗多说:"请听这二人的故事,他们光辉如神。"

1.4.33

विचित्रार्थपदं सम्यग्गायकौ समचोदयत् ।
तौ चापि मधुरं रक्तं स्वचित्तायतनिःस्वनम् ॥ १.४.३३ ॥

二位歌者被吩咐将这首意义与词句丰富多样的诗歌演唱得当;他们也以甜美而动情的声音歌唱,那声音充满了他们自己的心房。

1.4.34

तन्त्रीलयवदत्यर्थं विश्रुतार्थमगायताम् ।
ह्लादयत् सर्वगात्राणि मनांसि हृदयानि च ।
श्रोत्राश्रयसुखं गेयं तद् बभौ जनसंसदि ॥ १.४.३४ ॥

他们歌唱那首与琴弦和节拍相合、意义广为人知的歌;它使全身、心智与内心都感到欣喜,这悦耳的歌声在众人的集会中光彩照人。

1.4.35

इमौ मुनी पार्थिवलक्षणान्वितौ ।
कुशीलवौ चैव महातपस्विनौ ।
ममापि तद् भूतिकरं प्रचक्षते ।
महानुभावं चरितं निबोधत ॥ १.४.३५ ॥

这两位贤者,具有王者之相,即俱舍与罗婆,是伟大的苦行者。据说这段故事也能为我带来吉祥;请听这段具有大威力的事迹。

1.4.36

ततस्तु तौ रामवचः प्रचोदिता-
वगायतां मार्गविधानसम्पदा ।
स चापि रामः परिषद्गतः शनै-
र्बुभूषयासक्तमना बभूव ह ॥ १.४.३६ ॥

于是,受罗摩之言的催促,二人以经典唱法的全部功力歌唱;而坐在集会中的罗摩也渐渐心神专注,沉醉其中,一心想要听下去。