蚁垤《罗摩衍那》 · 篇 1.40
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.40.1
देवतानां वचः श्रुत्वा भगवान् वै पितामहः ।
प्रत्युवाच सुसंत्रस्तान् कृतान्तबलमोहितान् ॥ १.४०.१ ॥
梵天(尊贵的祖父)听了诸神的话,回答那些因阎摩(死神)之力而迷惑、极度惊恐的神灵。
1.40.2
यस्येयं वसुधा कृत्स्ना वासुदेवस्य धीमतः ।
महिषी माधवस्यैषा स एव भगवन् प्रभुः ॥ १.४०.२ ॥
这整个大地属于智慧的婆苏提婆(毗湿奴);她是摩陀婆(毗湿奴)的王后。尊者啊,他才是真正的主宰。
1.40.3
कापिलं रूपमास्थाय धारयत्यनिशं धराम् ।
तस्य कोपाग्निना दग्धा भविष्यन्ति नृपात्मजाः ॥ १.४०.३ ॥
他化身为迦毗罗,不停地承载着大地;因他愤怒的火焰,国王的儿子们将被焚烧。
1.40.4
पृथिव्याश्चापि निर्भेदो दृष्ट एव सनातनः ।
सगरस्य च पुत्राणां विनाशो दीर्घदर्शिनाम् ॥ १.४०.४ ॥
大地的裂开也早已被注定,而那些有远见的萨迦罗之子们的毁灭亦是如此。
1.40.5
पितामहवचः श्रुत्वा त्रयस्त्रिंशदरिंदमाः ।
देवाः परमसंहृष्टाः पुनर्जग्मुर्यथागतम् ॥ १.४०.५ ॥
三十三位神灵听了祖父的话,个个大喜,降伏敌人的他们便循原路返回了。
1.40.6
सगरस्य च पुत्राणां प्रादुरासीन्महास्वनः ।
पृथिव्यां भिद्यमानायां निर्घातसमनिस्वनः ॥ १.४०.६ ॥
当大地被劈开时,萨迦罗之子们发出一阵巨响,如同霹雳之声。
1.40.7
ततो भित्त्वा महीं सर्वां कृत्वा चापि प्रदक्षिणम् ।
सहिताः सागराः सर्वे पितरं वाक्यमब्रुवन् ॥ १.४०.७ ॥
于是,他们将整个大地掘开,并绕行一周(右旋),众萨嘎罗之子一同对父亲说了这番话。
1.40.8
परिक्रान्ता मही सर्वा सत्त्ववन्तश्च सूदिताः ।
देवदानवरक्षांसि पिशाचोरगपन्नगाः ॥ १.४०.८ ॥
整个大地已被搜遍,众生已被杀死:天神、檀那婆、罗刹、毗舍遮、乌罗伽与潘那伽。
1.40.9
न च पश्यामहेऽश्वं ते अश्वहर्तारमेव च ।
किं करिष्याम भद्रं ते बुद्धिरत्र विचार्यताम् ॥ १.४०.९ ॥
我们既看不见您的马,也看不见偷马的人。我们该怎么办?愿您吉祥——请您思考此事。
1.40.10
तेषां तद्वचनं श्रुत्वा पुत्राणां राजसत्तमः ।
समन्युरब्रवीद् वाक्यं सगरो रघुनन्दन ॥ १.४०.१० ॥
萨嘎罗听了儿子们的这番话,这位众王之最、罗怙家族的欢喜者,愤怒地说出了这些话。
1.40.11
भूयः खनत भद्रं वो विभेद्य वसुधातलम् ।
अश्वहर्तारमासाद्य कृतार्थाश्च निवर्तत ॥ १.४०.११ ॥
再去挖掘吧——愿你们吉祥。劈开大地的深处,找到偷马之人,完成你们的使命后再回来。
1.40.12
पितुर्वचनमासाद्य सगरस्य महात्मनः ।
षष्टिः पुत्रसहस्राणि रसातलमभिद्रवन् ॥ १.४०.१२ ॥
得到伟大的萨嘎罗的命令后,六万个儿子向地底世界(rasātala)奔去。
1.40.13
खन्यमाने ततस्तस्मिन् ददृशुः पर्वतोपमम् ।
दिशागजं विरूपाक्षं धारयन्तं महीतलम् ॥ १.४०.१३ ॥
在挖掘大地时,他们看见了如山一般的方象维卢波刹,它正托着大地的表面。
1.40.14
सपर्वतवनां कृत्स्नां पृथिवीं रघुनन्दन ।
धारयामास शिरसा विरूपाक्षो महागजः ॥ १.४०.१४ ॥
啊,罗怙族的欢喜者!那头大象毗卢波刹用头顶托着整个大地,连同山岳与森林。
1.40.15
यदा पर्वणि काकुत्स्थ विश्रमार्थं महागजः ।
खेदाच्चालयते शीर्षं भूमिकम्पस्तदा भवेत् ॥ १.४०.१५ ॥
啊,迦古特斯塔!当那头大象因疲倦而摇头休息时,便会发生地震。
1.40.16
ते तं प्रदक्षिणं कृत्वा दिशापालं महागजम् ।
मानयन्तो हि ते राम जग्मुर्भित्त्वा रसातलम् ॥ १.४०.१६ ॥
啊,罗摩!他们向那位方位守护者大象右绕致敬,然后穿透大地,进入了下界。
1.40.17
ततः पूर्वां दिशं भित्त्वा दक्षिणां बिभिदुः पुनः ।
दक्षिणस्यामपि दिशि ददृशुस्ते महागजम् ॥ १.४०.१७ ॥
他们先穿透东方,又穿透南方,在南方也看见了一头大象。
1.40.18
महापद्मं महात्मानं सुमहत्पर्वतोपमम् ।
शिरसा धारयन्तं गां विस्मयं जग्मुरुत्तमम् ॥ १.४०.१८ ॥
他们看见大灵大象摩诃波陀,身形如山,用头顶托着大地,心中充满了极大的惊异。
1.40.19
ते तं प्रदक्षिणं कृत्वा सगरस्य महात्मनः ।
षष्टिः पुत्रसहस्राणि पश्चिमां बिभिदुर्दिशम् ॥ १.४०.१९ ॥
他们绕行致敬于伟大的萨加拉之象后,六万个萨加拉之子开凿了西方。
1.40.20
पश्चिमायामपि दिशि महान्तमचलोपमम् ।
दिशागजं सौमनसं ददृशुस्ते महाबलाः ॥ १.४०.२० ॥
在西方,那些大力者也看见了如山岳般巨大的方位象——索摩纳萨。
1.40.21
तं ते प्रदक्षिणं कृत्वा पृष्ट्वा चापि निरामयम् ।
खनन्तः समुपक्रान्ता दिशं सोमवतीं तदा ॥ १.४०.२१ ॥
他们绕行并问候其安康后,一边挖掘,一边向索摩伐提方向前进。
1.40.22
उत्तरस्यां रघुश्रेष्ठ ददृशुर्हिमपाण्डुरम् ।
भद्रं भद्रेण वपुषा धारयन्तं महीमिमाम् ॥ १.४०.२२ ॥
啊,罗怙之最优者!在北方,他们看见了如雪般洁白、以吉祥之身托起大地的那一只。
1.40.23
समालभ्य ततः सर्वे कृत्वा चैनं प्रदक्षिणम् ।
षष्टिः पुत्रसहस्राणि बिभिदुर्वसुधातलम् ॥ १.४०.२३ ॥
随后,他们都触摸并绕行了它,六万个儿子便开凿了大地的表面。
1.40.24
ततः प्रागुत्तरां गत्वा सागराः प्रथितां दिशम् ।
रोषादभ्यखनन् सर्वे पृथिवीं सगरात्मजाः ॥ १.४०.२४ ॥
随后,他们前往著名的东北方,萨加拉的诸子怀着愤怒,全都挖掘大地。
1.40.25
ते तु सर्वे महत्मानो भिमवेगा महबलाः ।
ददृशुः कपिलं तत्र वासुदेवं सनातनम् ॥ १.४०.२५ ॥
他们都是伟大的英雄,速度惊人、力量强大,在那里看见了永恒的婆苏提婆·迦毗罗。
1.40.26
हयं च तस्य देवस्य चरन्तमविदूरतः ।
प्रहर्षमतुलं प्राप्ताः सर्वे ते रघुनंदन ॥ १.४०.२६ ॥
他们还看见不远处那位神旁边吃草的马。罗怙的喜悦啊,他们都得到了无比的欢喜。
1.40.27
ते तं यज्ञहनं ज्ञात्वा क्रोधपर्याकुलेक्षणाः ।
खनित्रलाङ्गलधरा नानावृक्षशिलाधराः ॥ १.४०.२७ ॥
他们认出他是窃取祭祀的人,怒目圆睁,手持铁锹与犁,并举着各种树木和岩石,向前冲来。
1.40.28
अभ्यधावन्त संक्रुद्धास्तिष्ठ तिष्ठेति चाब्रुवन् ।
अस्माकं त्वं हि तुरगं यज्ञियं हृतवानसि ॥ १.४०.२८ ॥
他们大为愤怒,冲向他,喊道:“站住!站住!你偷走了我们的祭马。”
1.40.29
दुर्मेधस्त्वं हि संप्राप्तान् विद्धि नः सगरात्मजान् ।
श्रुत्वा तद्वचनं तेषां कपिलो रघुनन्दन ॥ १.४०.२९ ॥
“愚蠢的人,你要知道,我们是萨伽罗之子,已经赶到了。”罗怙的喜悦啊,迦毗罗听了他们的话——
1.40.30
रोषेण महताविष्टो हुंकारमकरोत् तदा ।
ततस्तेनाप्रमेयेण कपिलेन महात्मना ।
भस्मराशीकृताः सर्वे काकुत्स्थ सगरात्मजाः ॥ १.४०.३० ॥
他被巨大的愤怒所笼罩,随即发出一声怒吼。于是,那不可估量的伟大灵魂迦毗罗,啊,迦古特斯塔的后裔,使萨伽罗的所有儿子都化为了灰堆。