Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 1.41

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.41.1

पुत्रांश्चिरगताञ्ज्ञात्वा सगरो रघुनन्दन ।
नप्तारमब्रवीद् राजा दीप्यमानं स्वतेजसा ॥ १.४१.१ ॥

萨迦罗王得知他的儿子们已离去许久。于是,罗怙之喜悦者啊,国王对以自身光辉闪耀的孙子说道。

1.41.2

शूरश्च कृतविद्यश्च पूर्वैस्तुल्योऽसि तेजसा ।
पितॄणां गतिमन्विच्छ येन चाश्वोऽपवाहितः ॥ १.४१.२ ॥

你勇敢又精通学问,光辉与你的先祖相同。去寻找先祖之路,马匹正是被那条路带走的。

1.41.3

अन्तर्भौमानि सत्त्वानि वीर्यवन्ति महान्ति च ।
तेषां तु प्रतिघातार्थं सासिं गृह्णीष्व कार्मुकम् ॥ १.४१.३ ॥

地下居住的生灵强大而伟大。为了反击它们,拿起你的剑与弓。

1.41.4

अभिवाद्याभिवाद्यांस्त्वं हत्वा विघ्नकरानपि ।
सिद्धार्थः संनिवर्तस्व मम यज्ञस्य पारगः ॥ १.४१.४ ॥

向值得敬礼者致敬,并杀死设置障碍者,带着成就的使命回来,使我的祭祀圆满。

1.41.5

एवमुक्तोंऽशुमान् सम्यक् सगरेण महात्मना ।
धनुरादाय खड्गं च जगाम लघुविक्रमः ॥ १.४१.५ ॥

伟大的萨迦罗如此吩咐,阿姆舒曼取了弓与剑,以敏捷的勇力出发了。

1.41.6

स खातं पितृभिर्मार्गमन्तर्भौमं महात्मभिः ।
प्रापद्यत नरश्रेष्ठ तेन राज्ञाभिचोदितः ॥ १.४१.६ ॥

人中之最啊,他抵达了那些伟大祖先所挖掘的地下之路,受到那位国王的催促。

1.41.7

देवदानवरक्षोभिः पिशाचपतगोरगैः ।
पूज्यमानं महातेजा दिशागजमपश्यत ॥ १.४१.७ ॥

他看见那位大光明的方位象,受到天神、檀那婆、罗刹、毕舍遮、飞鸟和蛇众的供养。

1.41.8

स तं प्रदक्षिणं कृत्वा पृष्ट्वा चैव निरामयम् ।
पितॄन् स परिपप्रच्छ वाजिहर्तारमेव च ॥ १.४१.८ ॥

他右绕之后,问候其安好,又询问祖先们以及盗马之人。

1.41.9

दिशागजस्तु तच्छ्रुत्वा प्रत्युवाच महामतिः ।
आसमञ्ज कृतार्थस्त्वं सहाश्वः शीघ्रमेष्यसि ॥ १.४१.९ ॥

大智的象王听罢回答道:“阿桑曼遮啊,你将成功,并与马一同很快归来。”

1.41.10

तस्य तद्वचनं श्रुत्वा सर्वानेव दिशागजान् ।
यथाक्रमं यथान्यायं प्रष्टुं समुपचक्रमे ॥ १.४१.१० ॥

他听了这些话后,便按次序、依礼法向所有方位象一一询问。

1.41.11

तैश्च सर्वैर्दिशापालैर्वाक्यज्ञैर्वाक्यकोविदैः ।
पूजितः सहयश्चैवागन्तासीत्यभिचोदितः ॥ १.४१.११ ॥

受到那些通晓言辞、善于谈论的诸方护卫者们尊敬,并被告知:“你将与马一同归来”——

1.41.12

तेषां तद्वचनं श्रुत्वा जगाम लघुविक्रमः ।
भस्मराशीकृता यत्र पितरस्तस्य सागराः ॥ १.४१.१२ ॥

他听了这些话,便迅速前往那里——他的祖先,即萨伽罗的诸子,已被化为灰堆。

1.41.13

स दुःखवशमापन्नस्त्वसमञ्जसुतस्तदा ।
चुक्रोश परमार्तस्तु वधात् तेषां सुदुःखितः ॥ १.४१.१३ ॥

此时阿三曼遮之子陷入悲痛之中,因众人被杀而极度伤心,便大声哀号。

1.41.14

यज्ञियं च हयं तत्र चरन्तमविदूरतः ।
ददर्श पुरुषव्याघ्रो दुःखशोकसमन्वितः ॥ १.४१.१४ ॥

不远处,他看见祭马在那里漫步;这位人中之雄,满怀悲伤与忧愁,望见了它。

1.41.15

स तेषां राजपुत्राणां कर्तुकामो जलक्रियाम् ।
स जलार्थी महातेजा न चापश्यज्जलाशयम् ॥ १.४१.१५ ॥

他想为那些王子举行奉水之礼,四处寻找水源,却看不到任何水池。

1.41.16

विसार्य निपुणां दृष्टिं ततोऽपश्यत् खगाधिपम् ।
पितॄणां मातुलं राम सुपर्णमनिलोपमम् ॥ १.४१.१६ ॥

于是他仔细环视,看见了鸟王苏婆尔那(迦楼罗),疾如风——罗摩啊,他是他们祖先的舅父。

1.41.17

स चैनमब्रवीद् वाक्यं वैनतेयो महाबलः ।
मा शुचः पुरुषव्याघ्र वधोऽयं लोकसम्मतः ॥ १.४१.१७ ॥

于是大力的毗那提(迦楼罗)对他说道:“人中之雄啊,不要悲伤;此等死亡在世间是被认可的。”

1.41.18

कपिलेनाप्रमेयेण दग्धा हीमे महाबलाः ।
सलिलं नार्हसि प्राज्ञ दातुमेषां हि लौकिकम् ॥ १.४१.१८ ॥

这些大力者已被不可度量的迦毗罗焚为灰烬。智者啊,你不应按世俗之礼为他们奉水。

1.41.19

गङ्गा हिमवतो ज्येष्ठा दुहिता पुरुषर्षभ ।
तस्यां कुरु महाबाहो पितॄणां तु जल क्रियाम् ॥ १.४१.१९ ॥

恒河是喜马拉雅的长女,人中之雄啊。大臂者啊,请在她的水中为祖先行水祭。

1.41.20

भस्मराशीकृतानेतान् प्लावयेल्लोकपावनी ।
तया क्लिन्नमिदं भस्म गङ्गया लोककान्तया ।
षष्टिं पुत्रसहस्राणि स्वर्गलोकं गमिष्यति ॥ १.४१.२० ॥

净化世界的恒河必将浸润这些化为灰堆的人。被恒河浸湿的这些灰烬,借着受世人喜爱的恒河,六万个儿子将升往天界。

1.41.21

निर्गच्छाश्वं महाभाग संगृह्य पुरुषर्षभ।
यज्ञं पैतामहं वीर निर्वर्तयितुमर्हसि ॥ १.४१.२१ ॥

去吧,有福者,人中之雄,英雄啊,带上马匹出发;你应当完成祖父的祭祀。

1.41.22

सुपर्णवचनं श्रुत्वा सोंऽशुमानतिवीर्यवान् ।
त्वरितं हयमादाय पुनरायान्महातपाः ॥ १.४१.२२ ॥

闻听迦楼罗的话语,极具威力的大苦行者阿输曼迅速牵着马返回。

1.41.23

ततो राजानमासाद्य दीक्षितं रघुनन्दन ।
न्यवेदयद् यथावृत्तं सुपर्णवचनं तथा ॥ १.४१.२३ ॥

于是,罗怙之喜啊,他走到受戒的国王面前,如实禀报了所发生的事情,以及迦楼罗的话语。

1.41.24

तच्छ्रुत्वा घोरसंकाशं वाक्यमंशुमतो नृपः ।
यज्ञं निर्वर्तयामास यथाकल्पं यथाविधि ॥ १.४१.२४ ॥

国王听闻阿输曼那看似可怕的话语后,依照规定与仪轨完成了祭祀。

1.41.25

स्वपुरं त्वगमच्छ्रीमानिष्टयज्ञो महीपतिः ।
गङ्गायाश्चागमे राजा निश्चयं नाध्यगच्छत ॥ १.४१.२५ ॥

完成祭祀后,这位光辉的大地之主回到了自己的城市;然而对于恒河的到来,国王始终无法拿定主意。

1.41.26

अगत्वा निश्चयं राजा कालेन महता महान् ।
त्रिंशद्वर्षसहस्राणि राज्यं कृत्वा दिवं गतः ॥ १.४१.२६ ॥

这位伟大的国王,即使经过很长时间也未能拿定主意,他统治了三万年,之后升往天界。