蚁垤《罗摩衍那》 · 篇 1.43
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.43.1
देवदेवे गते तस्मिन् सोऽङ्गुष्ठाग्रनिपीडिताम् ।
कृत्वा वसुमतीं राम वत्सरं समुपासत ॥ १.४३.१ ॥
罗摩啊,诸神之神离去之后,他以大拇趾尖按压大地使其稳固,修苦行一年。
1.43.2
अथ संवत्सरे पूर्णे सर्वलोकनमस्कृतः ।
उमापतिः पशुपती राजानमिदमब्रवीत् ॥ १.४३.२ ॥
一年期满之时,被一切世界所礼敬的乌摩之主、众生之主,对国王说了这些话。
1.43.3
प्रीतस्तेऽहं नरश्रेष्ठ करिष्यामि तव प्रियम् ।
शिरसा धारयिष्यामि शैलराजसुतामहम् ॥ १.४३.३ ॥
人中之最啊,我对你很满意,将满足你的心愿。山王之女,我将把她承载于我的头顶。
1.43.4
ततो हैमवती ज्येष्ठा सर्वलोकनमस्कृता ।
तदा सातिमहद्रूपं कृत्वा वेगं च दुःसहम् ॥ १.४३.४ ॥
那时,被一切世界礼敬的喜马拉雅长女(恒河)化作极其庞大的形体,其奔流之势也难以承受。
1.43.5
आकाशादपतद् राम शिवे शिवशिरस्युत ।
अचिन्तयच्च सा देवी गङ्गा परमदुर्धरा ॥ १.४३.५ ॥
罗摩啊,她从天上坠落在湿婆的头顶。那位极其难以抑制的女神恒河,心中这样想。
1.43.6
विशाम्यहं हि पातालं स्त्रोतसा गृह्य शङ्करम् ।
तस्यावलेपनं ज्ञात्वा क्रुद्धस्तु भगवान् हरः ॥ १.४३.६ ॥
她想道:“我要挟着湿婆的洪流进入地下。”知道了她的傲慢,尊贵的哈罗震怒了。
1.43.7
तिरोभावयितुं बुद्धिं चक्रे त्रिनयनस्तदा ।
सा तस्मिन् पतिता पुण्या पुण्ये रुद्रस्य मूर्धनि ॥ १.४३.७ ॥
那时三眼神决意将她隐藏。那圣洁的恒河落在楼陀罗神的圣首之上。
1.43.8
हिमवत्प्रतिमे राम जटामण्डलगह्वरे ।
सा कथंचिन्महीं गन्तुं नाशक्नोद् यत्नमास्थिता ॥ १.४३.८ ॥
啊,罗摩,在那如喜马拉雅般的发髻洞穴中,她虽努力,却终究无法降落到大地上。
1.43.9
नैव सा निर्गमं लेभे जटामण्डलमन्ततः ।
तत्रैवाबभ्रमद् देवी संवत्सरगणान् बहून् ॥ १.४३.९ ॥
她始终找不到从发髻中脱出的路,女神便在那里徘徊了许多年。
1.43.10
तामपश्यत् पुनस्तत्र तपः परममास्थितः ।
स तेन तोषितश्चासीदत्यन्तं रघुनन्दन ॥ १.४३.१० ॥
他再次见到她在那里,处于至高苦行之中的他对她极为满意,啊,罗怙族的欢喜。
1.43.11
विससर्ज ततो गङ्गां हरो बिन्दुसरः प्रति ।
तस्यां विसृज्यमानायां सप्त स्रोतांसि जज्ञिरे ॥ १.४३.११ ॥
于是濕婆将恒河放向宾杜湖;在她被释放之时,七条河流应运而生。
1.43.12
ह्लादिनी पावनी चैव नलिनी च तथैव च ।
तिस्रः प्राचीं दिशं जग्मुर्गङ्गाः शिवजलाः शुभाः ॥ १.४३.१२ ॥
其中三条,即快乐河、净化河与莲河,朝东方而去,它们是水质吉祥而圣洁的恒河。
1.43.13
सुचक्षुश्चैव सीता च सिन्धुश्चैव महानदी ।
तिस्रश्चैता दिशं जग्मुः प्रतीचीं तु दिशं शुभाः ॥ १.४३.१३ ॥
苏遮克舒、悉多与大河信度,这三条吉祥的河流向西方流去。
1.43.14
सप्तमी चान्वगात् तासां भगीरथरथं तदा ।
भगीरथोऽपि राजर्षिर्दिव्यं स्यंदनमास्थितः ॥ १.४३.१४ ॥
第七条河跟随着他们,追随在婆吉罗陀的车后;那时,王仙婆吉罗陀也登上了神车。
1.43.15
प्रायादग्रे महातेजा गङ्गा तं चाप्यनुव्रजत् ।
गगनाच्छङ्करशिरस्ततो धरणिमागता ॥ १.४३.१५ ॥
光辉灿烂的婆吉罗陀走在前面,恒河随之而行;她从天空经由湿婆的头顶降临大地。
1.43.16
असर्पत जलं तत्र तीव्रशब्दपुरस्कृतम् ।
मत्स्यकच्छपसङ्घैश्च शिंशुमारगणैस्तथा ॥ १.४३.१६ ॥
水流在那里伴随着猛烈的轰鸣奔流,鱼群、龟群以及海豚群相随。
1.43.17
पतद्भिः पतितैश्चैव व्यरोचत वसुंधरा ।
ततो देवर्षिगन्धर्वा यक्षसिद्धगणास्तथा ॥ १.४३.१७ ॥
坠落的与已落下的生灵使大地闪耀光辉。随后,天仙、乾闼婆、夜叉与悉陀群也来到那里。
1.43.18
व्यलोकयन्त ते तत्र गगनाद् गां गतां तदा ।
विमानैर्नगराकारैर्हयैर्गजवरैस्तदा ॥ १.४३.१८ ॥
他们从那里注视着从天空降落到大地的她,乘坐形如城市的天车、骏马以及良象。
1.43.19
पारिप्लवगताश्चापि देवतास्तत्र विष्ठिताः ।
तदद्भुतमिमं लोके गङ्गावतरमुत्तमम् ॥ १.४३.१९ ॥
那里,行于天空之路的诸神也停立着;这恒河的殊胜降临在世间是何等奇妙。
1.43.20
दिदृक्षवो देवगणाः समीयुरमितौजसः ।
सम्पतद्भिः सुरगणैस्तेषां चाभरणौजसा ॥ १.४३.२० ॥
诸神众怀着想要观看的心情,无量光辉者聚集而来;由于降下的众神身上饰物的光芒,天空充满了光明。
1.43.21
शतादित्यमिवाभाति गगनं गततोयदम् ।
शिंशुमारोरगगणैर्मीनैरपि च चञ्चलैः ॥ १.४३.२१ ॥
无云的天空仿佛有百个太阳般照耀;以鳄鱼、蛇群和跳动的鱼类点缀着。
1.43.22
विद्युद्भिरिव विक्षिप्तैराकाशमभवत् तदा ।
पाण्डुरैः सलिलोत्पीडैः कीर्यमाणैः सहस्रधा ॥ १.४३.२२ ॥
那时,天空仿佛充满了四散的闪电;白色的水流相互冲击,千般飞溅。
1.43.23
शारदाभ्रैरिवाकीर्णं गगनं हंससम्प्लवैः ।
क्वचिद् द्रुततरं याति कुटिलं क्वचिदायतम् ॥ १.४३.२३ ॥
天空仿佛布满了秋云与天鹅群;有时飞快奔流,有时蜿蜒曲折,有时广阔展开。
1.43.24
विनतं क्वचिदुद्भूतं क्वचिद् याति शनैः शनैः ।
सलिलेनैव सलिलं क्वचिदभ्याहतं पुनः ॥ १.४३.२४ ॥
有时它低垂,有时它高涌,有时缓缓流动;有时水与水相撞,又被再次撞击。
1.43.25
मुहुरूर्ध्वपथं गत्वा पपात वसुधां पुनः ।
तच्छङ्करशिरोभ्रष्टं भ्रष्टं भूमितले पुनः ॥ १.४३.२५ ॥
它一次又一次沿着向上的路径升起,又再次落到大地上。那从湿婆头顶滑落的水,再次落在地面之上。
1.43.26
व्यरोचत तदा तोयं निर्मलं गतकल्मषम् ।
तत्रर्षिगणगन्धर्वा वसुधातलवासिनः ॥ १.४३.२६ ॥
那时,这水清净无垢而闪耀。那里有居住在大地之上的诸仙众与乾闼婆。
1.43.27
भवाङ्गपतितं तोयं पवित्रमिति पस्पृशुः ।
शापात् प्रपतिता ये च गगनाद् वसुधातलम् ॥ १.४३.२७ ॥
他们因认为那从婆婆(湿婆)身上落下的水是圣洁的而触摸了它;那些因咒诅从天空坠落大地的人也触摸了它。
1.43.28
कृत्वा तत्राभिषेकं ते बभूवुर्गतकल्मषाः ।
धूपपापाः पुनस्तेन तोयेनाथ शुभान्विताः ॥ १.४३.२८ ॥
他们在那里沐浴之后,变得无罪;随后以那水洗去罪过,充满了吉祥。
1.43.29
पुनराकाशमाविश्य स्वाँल्लोकान् प्रतिपेदिरे ।
मुमुदे मुदितो लोकस्तेन तोयेन भास्वता ॥ १.४३.२९ ॥
他们重新进入天空,回到各自的世界;世界因那光辉的水而欢喜雀跃。
1.43.30
कृताभिषेको गङ्गायां बभूव गतकल्मषः ।
भगीरथो हि राजर्षिर्दिव्यं स्यन्दनमास्थितः ॥ १.४३.३० ॥
薄伽罗陀在恒河中沐浴,脱离罪孽,这位王仙登上了天界之车。
1.43.31
प्रायादग्रे महाराजास्तं गङ्गा पृष्ठतोऽन्वगात् ।
देवाः सर्षिगणाः सर्वे दैत्यदानवराक्षसाः ॥ १.४३.३१ ॥
大王走在前面,恒河紧随其后。诸天神、众仙人群,以及所有达提亚、檀那婆和罗刹都随行。
1.43.32
गन्धर्वयक्षप्रवराः सकिन्नरमहोरगाः ।
सर्वाश्चाप्सरसो राम भगीरथरथानुगाः ॥ १.४३.३२ ॥
罗摩啊,诸位上等的乾闼婆与夜叉、紧那罗与大蛇,以及所有阿普萨拉斯,都跟随在跋吉罗陀的车后。
1.43.33
गङ्गामन्वगमन् प्रीताः सर्वे जलचराश्च ये ।
यतो भगीरथो राजा ततो गङ्गा यशस्विनी ॥ १.४३.३३ ॥
所有水中的生灵也欢欣地跟随恒河,因为正是由于国王跋吉罗陀,光荣的恒河才得以降临。
1.43.34
जगाम सरितां श्रेष्ठा सर्वपापप्रणाशिनी ।
ततो हि यजमानस्य जह्नोरद्भुतकर्मणः ॥ १.४३.३४ ॥
河流中最殊胜、能灭一切罪业的(恒河)前行。那时,行祭者、行为奇特的仙人遮婆奴的……
1.43.35
गङ्गा सम्प्लावयामास यज्ञवाटं महत्मनः ।
तस्यावलेपनं ज्ञात्वा क्रुद्धो जह्नुश्च राघव ॥ १.४३.३५ ॥
恒河淹没了大德者的祭坛。罗怙后裔啊,遮婆奴得知这泛滥后,大怒。
1.43.36
अपिबत् तु जलं सर्वं गङ्गयाः परमाद्भुतम् ।
ततो देवाः सगन्घर्वा ऋषयश्च सुविस्मिताः ॥ १.४३.३६ ॥
他将恒河那极其奇妙的水全部饮尽。于是诸天神、乾闼婆与仙人们都大为惊异。
1.43.37
पूजयन्ति महात्मानं जह्नुं पुरुषसत्तमम् ।
गङ्गां चापि नयन्ति स्म दुहितृत्वे महात्मनः ॥ १.४३.३७ ॥
他们尊崇这位大德的札湖,人中之最,也将恒河视为这位大德之女。
1.43.38
ततस्तुष्टो महातेजाः श्रोत्राभ्यामसृजत् प्रभुः ।
तस्माज्जह्नुसुता गङ्गा प्रोच्यते जाह्नवीति च ॥ १.४३.३८ ॥
于是大光明的主宰心生欢喜,从自己的耳中生出恒河;因此札湖之女恒河又被称为“札诃维”。
1.43.39
जगाम च पुनर्गङ्गा भगीरथरथानुगा ।
सागरं चापि सम्प्रप्ता सा सरित्प्रवरा तदा ॥ १.४३.३९ ॥
恒河又随着婆吉罗陀的车驾前行,那最殊胜的河流于是抵达了大海。
1.43.40
रसातलमुपागच्छत् सिद्ध्यर्थं तस्य कर्मणः ।
भगीरथोऽपि राजार्षिर्गङ्गामादाय यत्नतः ॥ १.४३.४० ॥
为了成就那件事,恒河降入地下世界;王仙婆吉罗陀也小心地带着恒河前往那里。
1.43.41
पितमहान् भस्मकृतानपश्यद् गतचेतनः ।
अथ तद्भस्मनां राशिं गङ्गासलिलमुत्तमम् ।
प्लावयत् पूतपाप्मानः स्वर्गं प्राप्ता रघूत्तम ॥ १.४३.४१ ॥
婆吉罗陀见祖先化为灰烬,便失去知觉;随后恒河的殊胜之水浇灌了那堆灰烬,哦,罗怙之最,他们的罪业被洗净,升入了天界。