Vedyatra वेदयात्रा
検索

ヴァールミーキのラーマーヤナ · サルガ 1.48

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

1.48.1

पृष्ट्वा तु कुशलं तत्र परस्परसमागमे।
कथान्ते सुमतिर्वाक्यं व्याजहार महामुनिम् ॥ १.४८.१ ॥

そこで互いに無事を尋ね合い、話の終わりに賢明なスマティは大聖者にこの言葉を述べた。

1.48.2

इमौ कुमारौ भद्रं ते देवतुल्यपराक्रमौ।
गजसिंहगती वीरौ शार्दूलवृषभोपमौ ॥ १.४८.२ ॥

あなたに吉祥あれ。この二人の王子は神々に等しい武勇を持ち、象と獅子のような歩みの英雄であり、虎や雄牛に似ている。

1.48.3

पद्मपत्रविशालाक्षौ खड्गतूणिधनुर्धरौ।
अश्विनाविव रूपेण समुपस्थितयौवनौ ॥ १.४८.३ ॥

蓮の花びらのような広い目をし、剣と箭筒と弓を携え、容貌はアシュヴィンのようで、青年期に達している。

1.48.4

यदृच्छयैव गां प्राप्तौ देवलोकादिवामरौ।
कथं पद्भ्यामिह प्राप्तौ किमर्थं कस्य वा मुने ॥ १.४८.४ ॥

天界から偶然地上に降りてきた不死の神々のようだ。どうして徒歩でここまで来たのか。何の目的で、あるいは誰のために来たのか、聖者よ。

1.48.5

भूषयन्ताविमं देशं चन्द्रसूर्याविवाम्बरम्।
परस्परेण सदृशौ प्रमाणेङ्गितचेष्टितैः ॥ १.४८.५ ॥

この地を飾っている。ちょうど日と月が空を飾るように。背丈も仕草も振る舞いも互いによく似ている。

1.48.6

किमर्थं च नरश्रेष्ठौ सम्प्राप्तौ दुर्गमे पथि।
वरायुधधरौ वीरौ श्रोतुमिच्छामि तत्त्वतः ॥ १.४८.६ ॥

そして人中の最良の方よ、優れた武器を携えたこの英雄たちは、険しい道を何の目的で来たのか。真実を聞きたい。

1.48.7

तस्य तद् वचनं श्रुत्वा यथावृत्तं न्यवेदयत्।
सिद्धाश्रमनिवासं च राक्षसानां वधं यथा।
विश्वामित्रवचः श्रुत्वा राजा परमविस्मितः ॥ १.४८.७ ॥

彼の言葉を聞いて、王はあったことをそのまま報告した。シッダーシュラマでの滞在と羅刹たちの殺害のことを。ヴィシュヴァーミトラの言葉を聞いて、王は大いに驚いた。

1.48.8

अतिथी परमं प्राप्तौ पुत्रौ दशरथस्य तौ।
पूजयामास विधिवत् सत्कारार्हौ महाबलौ ॥ १.४८.८ ॥

ダシャラタの二人の息子は最上の客人として来ていた。尊敬に値し大いなる力を持つ二人を、定めのとおりに供養した。

1.48.9

ततः परमसत्कारं सुमतेः प्राप्य राघवौ।
उष्य तत्र निशामेकां जग्मतुर्मिथिलां ततः ॥ १.४८.९ ॥

そこでスマティから最高の供応を受けたラーガヴァの二人は、一夜そこに泊まり、それからミティラーへ向かった。

1.48.10

तां दृष्ट्वा मुनयः सर्वे जनकस्य पुरीं शुभाम्।
साधु साध्विति शंसन्तो मिथिलां समपूजयन् ॥ १.४८.१० ॥

ジャナカの美しい都を見て、すべての聖仙たちは「善い、善い」と称賛し、ミティラーを十分にたたえた。

1.48.11

मिथिलोपवने तत्र आश्रमं दृश्य राघवः।
पुराणं निर्जनं रम्यं पप्रच्छ मुनिपुङ्गवम् ॥ १.४८.११ ॥

ミティラーの園で、古く人気がなく美しい庵を見たラーガヴァは、最も優れた聖仙に尋ねた。

1.48.12

इदमाश्रमसंकाशं किं न्विदं मुनिवर्जितम्।
श्रोतुमिच्छामि भगवन् कस्यायं पूर्व आश्रमः ॥ १.४८.१२ ॥

これは庵のように見えるが、なぜ聖仙がいないのか。尊き方よ、これは昔誰の庵だったのか、お聞きしたいのです。

1.48.13

तच्छ्रुत्वा राघवेणोक्तं वाक्यं वाक्यविशारदः।
प्रत्युवाच महातेजा विश्वामित्रो महामुनिः ॥ १.४८.१३ ॥

ラーガヴァ(ラーマ)の言葉を聞き、弁舌に長け、大いなる光輝を放つ大聖者ヴィシュヴァーミトラは答えた。

1.48.14

हन्त ते कथयिष्यामि शृणु तत्त्वेन राघव।
यस्यैतदाश्रमपदं शप्तं कोपान्महात्मनः ॥ १.४८.१४ ॥

よろしい、真実を話そう。聞け、ラーガヴァよ。この苦行林は、どの偉大な魂が怒りのうちに呪ったのかを。

1.48.15

गौतमस्य नरश्रेष्ठ पूर्वमासीन्महात्मनः।
आश्रमो दिव्यसंकाशः सुरैरपि सुपूजितः ॥ १.४८.१५ ॥

人の中の最上の者よ、昔ここは偉大な魂ガウタマの苦行林であり、神々のように輝き、神々にさえ大いに崇められていた。

1.48.16

स चात्र तप आतिष्ठदहल्यासहितः पुरा।
वर्षपूगान्यनेकानि राजपुत्र महायशः ॥ १.४८.१६ ॥

彼はアハルヤーとともに、昔ここで何年ものあいだ苦行をしていた。大いなる名声の王子よ。

1.48.17

तस्यान्तरं विदित्वा च सहस्राक्षः शचीपतिः।
मुनिवेषधरो भूत्वा अहल्यामिदमब्रवीत् ॥ १.४८.१७ ॥

彼の不在を知ったインドラ、千眼にしてシャチーの夫は、仙人の姿をとり、アハルヤーにこう告げた。

1.48.18

ऋतुकालं प्रतीक्षन्ते नार्थिनः सुसमाहिते।
संगमं त्वहमिच्छामि त्वया सह सुमध्यमे ॥ १.४८.१८ ॥

心の定まった女よ、欲する者は時期を待たぬもの。細い腰の女よ、私はおまえと交わりたい。

1.48.19

मुनिवेषं सहस्राक्षं विज्ञाय रघुनन्दन।
मतिं चकार दुर्मेधा देवराजकुतूहलात् ॥ १.४८.१९ ॥

ラグの歓喜よ。聖者の姿をした千眼インドラと知りながら、神々の王を見たいという好奇心から、その愚かな女は心を決めた。

1.48.20

अथाब्रवीत् सुरश्रेष्ठं कृतार्थेनान्तरात्मना।
कृतार्थास्मि सुरश्रेष्ठ गच्छ शीघ्रमितः प्रभो ॥ १.४८.२० ॥

すると、願いを遂げた彼女は満ち足りた心で神々の最上者に言った。「神々の最上者よ、私は満足しました。主よ、ここから早くお去りください。」

1.48.21

आत्मानं मां च देवेश सर्वथा रक्ष गौतमात्।
इन्द्रस्तु प्रहसन् वाक्यमहल्यामिदमब्रवीत् ॥ १.४८.२१ ॥

(アハリヤーは言った。)「神々の主よ、ご自身と私を、ゴータマからあらゆる方法でお守りください。」そこでインドラは笑いながら、アハリヤーにこの言葉を言った。

1.48.22

सुश्रोणि परितुष्टोऽस्मि गमिष्यामि यथागतम्।
एवं संगम्य तु तदा निश्चक्रामोटजात् ततः ॥ १.४८.२२ ॥

(インドラは言った。)「美しい腰の女よ、私は十分に満足した。来た時と同じように去ろう。」こうして彼女と交わった後、彼は庵の小屋から出て行った。

1.48.23

स सम्भ्रमात् त्वरन् राम शङ्कितो गौतमं प्रति।
गौतमं स ददर्शाथ प्रविशन्तं महामुनिम् ॥ १.४८.२३ ॥

ラーマよ、彼(インドラ)は慌てて急ぎ、恐れを抱いてゴータマの方へ向かった。すると、偉大な聖仙ゴータマが入って来るのを見た。

1.48.24

देवदानवदुर्धर्षं तपोबलसमन्वितम्।
तीर्थोदकपरिक्लिन्नं दीप्यमानमिवानलम् ॥ १.४८.२४ ॥

神々やダーナヴァ(阿修羅)にさえ打ち破りがたく、苦行の力を備え、聖なる沐浴場の水に濡れ、火のように輝いていた。

1.48.25

गृहीतसमिधं तत्र सकुशं मुनिपुंगवम्।
दृष्ट्वा सुरपतिस्त्रस्तो विषण्णवदनोऽभवत् ॥ १.४८.२५ ॥

そこで、薪と吉祥草を手にした最高の聖者を見て、神々の王インドラは恐れ、顔を曇らせた。

1.48.26

अथ दृष्ट्वा सहस्राक्षं मुनिवेषधरं मुनिः।
दुर्वृत्तं वृत्तसम्पन्नो रोषाद् वचनमब्रवीत् ॥ १.४८.२६ ॥

すると、善行に満ちたその聖者は、聖者の姿をした千眼神を見て、怒りをもって悪行者にこれらの言葉を告げた。

1.48.27

मम रूपं समास्थाय कृतवानसि दुर्मते।
अकर्तव्यमिदं यस्माद् विफलस्त्वं भविष्यसि ॥ १.४८.२७ ॥

邪悪な心の者よ!お前は私の姿をとり、してはならぬことをした。ゆえにお前は実を結ばぬものとなるだろう。

1.48.28

गौतमेनैवमुक्तस्य सुरोषेण महात्मना।
पेततुर्वृषणौ भूमौ सहस्राक्षस्य तत्क्षणात् ॥ १.४८.२८ ॥

偉大なるゴータマがこのように激しい怒りをもって言い終えるや否や、千眼神の両睾丸はその瞬間に地に落ちた。

1.48.29

तथा शप्त्वा च वै शक्रं भार्यामपि च शप्तवान्।
इह वर्षसहस्राणि बहूनि निवसिष्यसि ॥ १.४८.२९ ॥

このようにインドラを呪ったうえで、彼はその妻をも呪った。「お前はここで幾千年もの長き間、住むことになる。」

1.48.30

वातभक्षा निराहारा तप्यन्ती भस्मशायिनी।
अदृश्या सर्वभूतानामाश्रमेऽस्मिन् वसिष्यसि ॥ १.४८.३० ॥

風のみを食べ、食を断ち、苦行を行い、灰の上に横たわり、すべての生きものに見えないまま、お前はこの庵に住むことになる。

1.48.31

यदा त्वेतद् वनं घोरं रामो दशरथात्मजः।
आगमिष्यति दुर्धर्षस्तदा पूता भविष्यसि ॥ १.४८.३१ ॥

ダシャラタの息子、不屈のラーマがこの恐ろしい森に来るとき、そなたは清められるだろう。

1.48.32

तस्यातिथ्येन दुर्वृत्ते लोभमोहविवर्जिता।
मत्सकाशं मुदा युक्ता स्वं वपुर्धारयिष्यसि ॥ १.४८.३२ ॥

邪な振る舞いの女よ。彼へのもてなしによって、貪欲と迷妄を離れ、喜んで私のもとで本来の身体を取り戻すであろう。

1.48.33

एवमुक्त्वा महातेजा गौतमो दुष्टचारिणीम्।
इममाश्रममुत्सृज्य सिद्धचारणसेविते।
हिमवच्छिखरे रम्ये तपस्तेपे महातपाः ॥ १.४८.३३ ॥

このように言って、大いなる光輝のゴータマは、その邪な振る舞いの女を去り、シッダやチャーラナたちが訪れるこの庵を捨てて、ヒマラヤの美しい峰で大いなる苦行を行った。