ヴァールミーキのラーマーヤナ · サルガ 1.51
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.51.1
तस्य तद् वचनं श्रुत्वा विश्वामित्रस्य धीमतः।
हृष्टरोमा महातेजाः शतानन्दो महातपाः ॥ १.५१.१ ॥
賢明なヴィシュヴァーミトラの言葉を聞き、大いなる威光と大いなる苦行をもつシャターナンダの身の毛がよだった。
1.51.2
गौतमस्य सुतो ज्येष्ठस्तपसा द्योतितप्रभः।
रामसंदर्शनादेव परं विस्मयमागतः ॥ १.५१.२ ॥
ゴータマの長男シャターナンダは、苦行によって輝く威光をもち、ラーマを見ただけで大いに驚嘆した。
1.51.3
एतौ निषण्णौ सम्प्रेक्ष्य शतानन्दो नृपात्मजौ।
सुखासीनौ मुनिश्रेष्ठं विश्वामित्रमथाब्रवीत् ॥ १.५१.३ ॥
座っている二人の王子を見て、シャターナンダは最上の聖仙ヴィシュヴァーミトラに語った。
1.51.4
अपि ते मुनिशार्दूल मम माता यशस्विनी।
दर्शिता राजपुत्राय तपोदीर्घमुपागता ॥ १.५१.४ ॥
聖仙の中の虎よ、長い苦行の末に来られた私の名高い母上を、あの王子にお見せになりましたか。
1.51.5
अपि रामे महातेजा मम माता यशस्विनी।
वन्यैरुपाहरत् पूजां पूजार्हे सर्वदेहिनाम् ॥ १.५१.५ ॥
私の名高い母は、あらゆる生ける者に拝されるべき大いなる威光のラーマに、森の供物で礼拝を捧げましたか。
1.51.6
अपि रामाय कथितं यद् वृत्तं तत् पुरातनम्।
मम मातुर्महातेजो देवेन दुरनुष्ठितम् ॥ १.५१.६ ॥
偉大なる光の者よ、神が私の母に対して犯した古い不正の物語を、ラーマにお話しになりましたか。
1.51.7
अपि कौशिक भद्रं ते गुरुणा मम संगता।
मम माता मुनिश्रेष्ठ रामसंदर्शनादितः ॥ १.५१.७ ॥
カウシカよ、あなたに幸あれ。ラーマに会って以来、私の母は師と再会しましたか。最も優れた聖者よ。
1.51.8
अपि मे गुरुणा रामः पूजितः कुशिकात्मज।
इहागतो महातेजाः पूजां प्राप्य महात्मनः ॥ १.५१.८ ॥
クシカの子よ、ここに来た大いなる輝きのラーマを、私の師は敬いましたか。偉大な方の敬意を受けて。
1.51.9
अपि शान्तेन मनसा गुरुर्मे कुशिकात्मज।
इहागतेन रामेण पूजितेनाभिवादितः ॥ १.५१.९ ॥
クシカの子よ、穏やかな心で、ここに来たラーマに、私の師は敬われ、礼拝されましたか。
1.51.10
तच्छ्रुत्वा वचनं तस्य विश्वामित्रो महामुनिः।
प्रत्युवाच शतानन्दं वाक्यज्ञो वाक्यकोविदम् ॥ १.५१.१० ॥
その言葉を聞いて、偉大な聖者ヴィシュヴァーミトラは、言葉を知り言葉に巧みなシャタananda に答えた。
1.51.11
नातिक्रान्तं मुनिश्रेष्ठ यत्कर्तव्यं कृतं मया।
संगता मुनिना पत्नी भार्गवेणेव रेणुका ॥ १.५१.११ ॥
最も優れた聖者よ、私は逸脱していない。なすべきことはなされた。妻は聖者と再会した、ちょうどレーヌカーがバールガヴァと再会したように。
1.51.12
तच्छ्रुत्वा वचनं तस्य विश्वामित्रस्य धीमतः।
शतानन्दो महातेजा रामं वचनमब्रवीत् ॥ १.५१.१२ ॥
賢いヴィシュヴァーミトラのその言葉を聞いて、偉大な光を放つシャタananda はラーマにこの言葉を述べた。
1.51.13
स्वागतं ते नरश्रेष्ठ दिष्ट्या प्राप्तोऽसि राघव।
विश्वामित्रं पुरस्कृत्य महर्षिमपराजितम् ॥ १.५१.१३ ॥
ようこそ、人中の最良者、ラグハヴァよ。幸いにも、無敵の大仙ヴィシュヴァーミトラを先立てて、あなたはここに来られた。
1.51.14
अचिन्त्यकर्मा तपसा ब्रह्मर्षिरमितप्रभः।
विश्वामित्रो महातेजा वेद्म्येनं परमां गतिम् ॥ १.५१.१४ ॥
思議しがたい業を行い、苦行によって梵仙となり、無限の光と大いなる威光を持つヴィシュヴァーミトラを、私は知っている。彼こそ至上の帰趣である。
1.51.15
नास्ति धन्यतरो राम त्वत्तोऽन्यो भुवि कश्चन।
गोप्ता कुशिकपुत्रस्ते येन तप्तं महत्तपः ॥ १.५१.१५ ॥
ラーマよ、この地上であなたより幸運な者はいない。大きな苦行を行ったクシカの子が、あなたの守護者なのだから。
1.51.16
श्रूयतां चाभिधास्यामि कौशिकस्य महात्मनः।
यथाबलं यथातत्त्वं तन्मे निगदतः शृणु ॥ १.५१.१६ ॥
聞きなさい。偉大な魂のカウシカ(ヴィシュヴァーミトラ)について、その力と真実の姿に従って私は語ろう。私が話す間、よく聞きなさい。
1.51.17
राजाऽऽसीदेष धर्मात्मा दीर्घकालमरिंदमः।
धर्मज्ञः कृतविद्यश्च प्रजानां च हिते रतः ॥ १.५१.१७ ॥
この法に篤い王は長く統治した。敵を制する者、法を知る者、学識あり、民の幸福に専念していた。
1.51.18
प्रजापतिसुतस्त्वासीत् कुशो नाम महीपतिः।
कुशस्य पुत्रो बलवान् कुशनाभः सुधार्मिकः ॥ १.५१.१८ ॥
プラジャーパティの子クシャという名の大地の主がいた。クシャの力強い息子はクシャナーバで、非常に法に篤い者であった。
1.51.19
कुशनाभसुतस्त्वासीद् गाधिरित्येव विश्रुतः।
गाधेः पुत्रो महातेजा विश्वामित्रो महामुनिः ॥ १.५१.१९ ॥
クシャナーバの子はガーディとして知られた。ガーディの子は大いなる光輝を持つ大聖者ヴィシュヴァーミトラであった。
1.51.20
विश्वामित्रो महातेजाः पालयामास मेदिनीम्।
बहुवर्षसहस्राणि राजा राज्यमकारयत् ॥ १.५१.२० ॥
大いなる光輝のヴィシュヴァーミトラは大地を守った。その王は幾千年もの間、王国を治めた。
1.51.21
कदाचित् तु महातेजा योजयित्वा वरूथिनीम्।
अक्षौहिणीपरिवृतः परिचक्राम मेदिनीम् ॥ १.५१.२१ ॥
ある時、大いなる光輝の王は軍を整え、一つのアクシャウヒニー軍に囲まれて大地を巡った。
1.51.22
नगराणि च राष्ट्राणि सरितश्च महागिरीन्।
आश्रमान् क्रमशो राजा विचरन्नाजगाम ह ॥ १.५१.२२ ॥
都市、国々、川、大山を過ぎ、国王は順に苦行林を巡り歩いて、ついにやって来た。
1.51.23
वसिष्ठस्याश्रमपदं नानापुष्पलताद्रुमम्।
नानामृगगणाकीर्णं सिद्धचारणसेवितम् ॥ १.५१.२३ ॥
ヴァシシュタの苦行林は、様々な花や蔓草や木々に満ち、多くの鹿の群れで埋め尽くされ、シッダやチャーラナに仕えられていた。
1.51.24
देवदानवगन्धर्वैः किंनरैरुपशोभितम्।
प्रशान्तहरिणाकीर्णं द्विजसङ्घनिषेवितम् ॥ १.५१.२४ ॥
神々、ダーナヴァ、ガンダルヴァ、キンナラがそれを飾り、静かな鹿で満ち、再生族の群れが訪れていた。
1.51.25
ब्रह्मर्षिगणसंकीर्णं देवर्षिगणसेवितम्।
तपश्चरणसंसिद्धैरग्निकल्पैर्महात्मभिः ॥ १.५१.२५ ॥
梵仙の群れに満ち、天仙の群れに仕えられ、苦行によって成就し火のように輝く大いなる魂々によって飾られていた。
1.51.26
सततं संकुलं श्रीमद्ब्रह्मकल्पैर्महात्मभिः।
अब्भक्षैर्वायुभक्षैश्च शीर्णपर्णाशनैस्तथा ॥ १.५१.२६ ॥
常に賑わい、栄えて、ブラフマーに等しい大いなる魂々、水を飲む者、風を食う者、枯葉を食べる者たちで満ちていた。
1.51.27
फलमूलाशनैर्दान्तैर्जितदोषैर्जितेन्द्रियैः।
ऋषिभिर्वालखिल्यैश्च जपहोमपरायणैः ॥ १.५१.२७ ॥
果実と根を食べ、自制し、過ちと感官を征服した聖仙たち、ヴァーラキリヤ仙、そして読誦と火への供物に専心する者たちで満ちていた。
1.51.28
अन्यैर्वैखानसैश्चैव समन्तादुपशोभितम्।
वसिष्ठस्याश्रमपदं ब्रह्मलोकमिवापरम्।
ददर्श जयतां श्रेष्ठो विश्वामित्रो महाबलः ॥ १.५१.२८ ॥
ヴァイカーナサや他の聖仙たちによって四方が飾られたヴァシシュタの庵の地は、まるでもう一つのブラフマーの世界のようであった。勝者の中で最もすぐれた大力のヴィシュヴァーミトラがそれを見た。