ヴァールミーキのラーマーヤナ · サルガ 1.54
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.54.1
कामधेनुं वसिष्ठोऽपि यदा न त्यजते मुनिः।
तदास्य शबलां राम विश्वामित्रोऽन्वकर्षत ॥ १.५४.१ ॥
ラーマよ、聖者ヴァシシュタが如意牛カーマデーヌさえ手放そうとしなかったとき、ヴィシュヴァーミトラは彼の斑の牛シャバラを引いて連れ去った。
1.54.2
नीयमाना तु शबला राम राज्ञा महात्मना।
दुःखिता चिन्तयामास रुदन्ती शोककर्शिता ॥ १.५४.२ ॥
ラーマよ、高潔な王に連れ去られるシャバラは、悲しみ、泣き、憂いにやつれて、思い悩み始めた。
1.54.3
परित्यक्ता वसिष्ठेन किमहं सुमहात्मना।
याहं राजभृतैर्दीना ह्रियेय भृशदुःखिता ॥ १.५४.३ ॥
なぜ偉大なヴァシシュタは私を見捨てたのか。王の従者に惨めに引きずられる私は、深く悲しんでいる。
1.54.4
किं मयापकृतं तस्य महर्षेर्भावितात्मनः।
यन्मामनागसं दृष्ट्वा भक्तां त्यजति धार्मिकः ॥ १.५४.४ ॥
自己を律する偉大な聖者に私はどんな過ちを犯したのか。正しき聖者は、罪なく献身的な私を見ながら、なぜ見捨てるのか。
1.54.5
जगाम वेगेन तदा वसिष्ठं परमौजसम् ॥ १.५४.५ ॥
そのとき彼女は素早く、最高の威力を持つヴァシシュタのもとへ向かった。
1.54.6
निर्धूय तांस्तदा भृत्यान् शतशः शत्रुसूदन।
जगामानिलवेगेन पादमूलं महात्मनः ॥ १.५४.६ ॥
敵を滅ぼす者よ、そのとき彼女は幾百もの従者を振り払い、風の速さで偉大な聖者の足もとへ向かった。
1.54.7
शबला सा रुदन्ती च क्रोशन्ती चेदमब्रवीत्।
वसिष्ठस्याग्रतः स्थित्वा रुदन्ती मेघनिःस्वना ॥ १.५४.७ ॥
泣き叫びながら、シャバラはヴァシシュタの前に立ち、雷雲のような声でこう言った。
1.54.8
भगवन् किं परित्यक्ता त्वयाहं ब्रह्मणः सुत।
यस्माद् राजभटा मां हि नयन्ते त्वत्सकाशतः ॥ १.५४.८ ॥
尊き方よ、ブラフマーの御子よ、あなたは私を見捨てたのですか。王の兵士たちがあなたの御前から私を連れ去っています。
1.54.9
एवमुक्तस्तु ब्रह्मर्षिरिदं वचनमब्रवीत्।
शोकसंतप्तहृदयां स्वसारमिव दुःखिताम् ॥ १.५४.९ ॥
そう言われて、そのブラフマルシは、悲しみに心を焼かれ、妹のように苦しむ彼女にこの言葉を語った。
1.54.10
न त्वां त्यजामि शबले नापि मेऽपकृतं त्वया।
एष त्वां नयते राजा बलान्मत्तो महाबलः ॥ १.५४.१० ॥
シャバラよ、私はおまえを見捨てはしない。おまえも私に何の害もなしていない。この大力の王が、私からおまえを力ずくで連れ去っているのだ。
1.54.11
नहि तुल्यं बलं मह्यं राजा त्वद्य विशेषतः।
बली राजा क्षत्रियश्च पृथिव्याः पतिरेव च ॥ १.५४.११ ॥
私の力は王の力に及ばない、ことに今は。王は強大で、クシャトリヤの戦士であり、まことに大地の主でもある。
1.54.12
इयमक्षौहिणी पूर्णा गजवाजिरथाकुला।
हस्तिध्वजसमाकीर्णा तेनासौ बलवत्तरः ॥ १.५४.१२ ॥
この完全なアクシャウヒニー軍は、象・馬・戦車に満ち、象の旗で埋め尽くされている。ゆえに彼はより強いのだ。
1.54.13
एवमुक्ता वसिष्ठेन प्रत्युवाच विनीतवत्।
वचनं वचनज्ञा सा ब्रह्मर्षिमतुलप्रभम् ॥ १.५४.१३ ॥
ヴァシシュタにこう言われて、言葉に巧みな彼女は、比類なき輝きを持つ梵仙にへりくだって答えた。
1.54.14
न बलं क्षत्रियस्याहुर्ब्राह्मणा बलवत्तराः।
ब्रह्मन् ब्रह्मबलं दिव्यं क्षात्राच्च बलवत्तरम् ॥ १.५४.१४ ॥
バラモンは言う、クシャトリヤの力は彼らの力より大きくはないと。ブラフマンよ、ブラフマンの力は神聖で、武士の力よりもさらに強い。
1.54.15
अप्रमेयं बलं तुभ्यं न त्वया बलवत्तरः।
विश्वामित्रो महावीर्यस्तेजस्तव दुरासदम् ॥ १.५४.१५ ॥
あなたの力は計り知れず、あなたより強い者はいない。ヴィシュヴァーミトラは大いなる勇気を持ち、その輝きは近づき難い。
1.54.16
नियुङ्क्ष्व मां महातेजस्त्वं ब्रह्मबलसम्भृताम्।
तस्य दर्पं बलं यत्नं नाशयामि दुरात्मनः ॥ १.५४.१६ ॥
偉大なる光輝の者よ、ブラフマンの力によって生じた軍勢を私に授けよ。その邪悪な者の傲慢、力、努力を私は滅ぼそう。
1.54.17
इत्युक्तस्तु तया राम वसिष्ठस्तु महायशाः।
सृजस्वेति तदोवाच बलं परबलार्दनम् ॥ १.५४.१७ ॥
ラーマよ、彼女にこう言われて、大いに名高いヴァシシュタは言った。「創り出せ」と――敵軍を砕く軍勢を。
1.54.18
तस्य तद् वचनं श्रुत्वा सुरभिः सासृजत् तदा।
तस्या हुंभारवोत्सृष्टाः पह्लवाः शतशो नृप ॥ १.५४.१८ ॥
彼の言葉を聞き、スラビは軍勢を創り出した。その咆哮から、幾百ものパフラヴァが生まれ出た、王よ。
1.54.19
नाशयन्ति बलं सर्वं विश्वामित्रस्य पश्यतः।
स राजा परमक्रुद्धः क्रोधविस्फारितेक्षणः ॥ १.५४.१९ ॥
ヴィシュヴァーミトラが見ている前で、彼らは王の全軍を滅ぼしていた。そのとき王は激しく怒り、怒りに見開かれた目をしていた。
1.54.20
पह्लवान् नाशयामास शस्त्रैरुच्चावचैरपि।
विश्वामित्रार्दितान् दृष्ट्वा पह्लवान् शतशस्तदा ॥ १.५४.२० ॥
さまざまな武器で彼はパフラヴァの民をも滅ぼした。そのとき、ヴィシュヴァーミトラに苦しめられる数百のパフラヴァを見て……
1.54.21
भूय एवासृजद् घोरान् शकान् यवनमिश्रितान्।
तैरासीत् संवृता भूमिः शकैर्यवनमिश्रितैः ॥ १.५४.२१ ॥
彼は再び、ヤヴァナと混じった恐ろしいシャカたちを生み出した。大地は彼らで満たされ、ヤヴァナと混じったシャカたちに覆われた。
1.54.22
प्रभावद्भिर्महावीर्यैर्हेमकिंजल्कसंनिभैः।
तीक्ष्णासिपट्टिशधरैर्हेमवर्णाम्बरावृतैः ॥ १.५४.२२ ॥
彼らは輝かしく大いに勇猛で、金色の花蕊のように光り、鋭い剣と鉄棍を持ち、金色の衣をまとっていた。
1.54.23
निर्दग्धं तद्बलं सर्वं प्रदीप्तैरिव पावकैः।
ततोऽस्त्राणि महातेजा विश्वामित्रो मुमोच ह।
तैस्ते यवनकाम्बोजा बर्बराश्चाकुलीकृताः ॥ १.५४.२३ ॥
彼らの全軍は燃えさかる火に焼かれたように焼け落ちた。そこで大いなる威光のヴィシュヴァーミトラは武器を放ち、それによってヤヴァナ、カンボージャ、バルバラは混乱に陥った。