ヴァールミーキのラーマーヤナ · サルガ 1.55
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.55.1
ततस्तानाकुलान् दृष्ट्वा विश्वामित्रास्त्रमोहितान्।
वसिष्ठश्चोदयामास कामधुक् सृज योगतः ॥ १.५५.१ ॥
ヴィシュヴァーミトラの武器に心を奪われて混乱する彼らを見て、ヴァシシュタは願いを叶える牛にヨーガの力で(軍勢を)創り出すよう命じた。
1.55.2
तस्या हुंकारतो जाताः काम्बोजा रविसंनिभाः।
ऊधसश्चाथ सम्भूता बर्बराः शस्त्रपाणयः ॥ १.५५.२ ॥
彼女の鼻息からは太陽に似たカンボージャが生まれ、続いて乳房からは武器を手にしたバルバラが現れた。
1.55.3
योनिदेशाच्च यवनाः शकृद्देशाच्छकाः स्मृताः।
रोमकूपेषु म्लेच्छाश्च हारीताः सकिरातकाः ॥ १.५५.३ ॥
その陰部からヤヴァナが生まれ、糞の部分からシャカが生じたと言われる。体毛の穴からはムレッチャ、ハーリータ、キラータが生まれた。
1.55.4
तैस्तन्निषूदितं सर्वं विश्वामित्रस्य तत्क्षणात्।
सपदातिगजं साश्वं सरथं रघुनन्दन ॥ १.५५.४ ॥
彼らによって、その瞬間にヴィシュヴァーミトラの全軍が打ち倒された――歩兵、象、馬、戦車のすべてが。ラグの歓びよ!
1.55.5
दृष्ट्वा निषूदितं सैन्यं वसिष्ठेन महात्मना।
विश्वामित्रसुतानां तु शतं नानाविधायुधम् ॥ १.५५.५ ॥
偉大な魂のヴァシシュタによって殲滅された軍を見て、ヴィシュヴァーミトラの百人の息子たちは種々の武器を手に(進み出た)。
1.55.6
अभ्यधावत् सुसंक्रुद्धं वसिष्ठं जपतां वरम्।
हुंकारेणैव तान् सर्वान् निर्ददाह महानृषिः ॥ १.५५.६ ॥
激怒した彼らは、ジャパ(真言の読誦)を行う者の中で最も優れたヴァシシュタに襲いかかったが、大仙はただ一声の咆哮で彼ら全員を灰にした。
1.55.7
ते साश्वरथपादाता वसिष्ठेन महात्मना।
भस्मीकृता मुहूर्तेन विश्वामित्रसुतास्तथा ॥ १.५५.७ ॥
偉大なヴァシシュタによって、馬も戦車も歩兵も、またヴィシュヴァーミトラの息子たちも、一瞬のうちに灰にされた。
1.55.8
दृष्ट्वा विनाशितान् सर्वान् बलं च सुमहायशाः।
सव्रीडं चिन्तयाविष्टो विश्वामित्रोऽभवत् तदा ॥ १.५५.८ ॥
すべての者と軍勢が滅ぼされたのを見て、大いに名高いヴィシュヴァーミトラは、そのとき恥じ入り、思い悩んだ。
1.55.9
समुद्र इव निर्वेगो भग्नद्रंष्ट्र इवोरगः।
उपरक्त इवादित्यः सद्यो निष्प्रभतां गतः ॥ १.५५.९ ॥
波のない海のように、牙を折られた蛇のように、日蝕に覆われた太陽のように、彼はたちまち輝きを失った。
1.55.10
हतपुत्रबलो दीनो लूनपक्ष इव द्विजः।
हतसर्वबलोत्साहो निर्वेदं समपद्यत ॥ १.५५.१० ॥
息子たちと軍勢を失い、翼を切られた鳥のように沈み込み、力も気概もすべて失って、厭世の念に陥った。
1.55.11
स पुत्रमेकं राज्याय पालयेति नियुज्य च।
पृथिवीं क्षत्रधर्मेण वनमेवाभ्यपद्यत ॥ १.५५.११ ॥
一人の息子に「王国を守れ」と任じ、武士の義務によって大地を託して、彼は森へ赴いた。
1.55.12
स गत्वा हिमवत्पार्श्वे किंनरोरगसेवितम्।
महादेवप्रसादार्थं तपस्तेपे महातपाः ॥ १.५५.१२ ॥
キンナラや蛇たちが集う ヒマーラヤの麓へ行き、偉大な苦行者はマハーデーヴァの恩寵を求めて苦行を行った。
1.55.13
केनचित् त्वथ कालेन देवेशो वृषभध्वजः।
दर्शयामास वरदो विश्वामित्रं महामुनिम् ॥ १.५५.१३ ॥
やがて、牛の旗を掲げ恩寵を与える神々の主が、大聖仙ヴィシュヴァーミトラの前に現れた。
1.55.14
किमर्थं तप्यसे राजन् ब्रूहि यत् ते विवक्षितम्।
वरदोऽस्मि वरो यस्ते कांक्षितः सोऽभिधीयताम् ॥ १.५५.१४ ॥
王よ、何のために苦行をしているのか。お前の望みを言え。私は恩寵を与える者だ。お前の求める恩寵を告げよ。
1.55.15
एवमुक्तस्तु देवेन विश्वामित्रो महातपाः।
प्रणिपत्य महादेवं विश्वामित्रोऽब्रवीदिदम् ॥ १.५५.१५ ॥
神にこう言われ、大苦行者ヴィシュヴァーミトラはマハーデーヴァに礼拝し、このように言った。
1.55.16
यदि तुष्टो महादेव धनुर्वेदो ममानघ।
सांगोपांगोपनिषदः सरहस्यः प्रदीयताम् ॥ १.५५.१६ ॥
大神よ、もしご満足なら、無垢なる方よ、弓の学問を、その支分・副支・ウパニシャッドと秘奥とともに私にお授けください。
1.55.17
यानि देवेषु चास्त्राणि दानवेषु महर्षिषु।
गन्धर्वयक्षरक्षःसु प्रतिभान्तु ममानघ ॥ १.५५.१७ ॥
神々、ダーナヴァ、大仙、ガンダルヴァ、ヤクシャ、ラークシャサのもとにある武器はすべて、無垢なる方よ、私のうちに輝きますように。
1.55.18
तव प्रसादाद् भवतु देवदेव ममेप्सितम्।
एवमस्त्विति देवेशो वाक्यमुक्त्वा गतस्तदा ॥ १.५५.१८ ॥
神々の神よ、あなたの恩寵により私の願いが叶いますように。「そうなれ」と言って、神々の主はその時去っていった。
1.55.19
प्राप्य चास्त्राणि देवेशाद् विश्वामित्रो महाबलः।
दर्पेण महता युक्तो दर्पपूर्णोऽभवत् तदा ॥ १.५५.१९ ॥
神々の主から武器を得た大力のヴィシュヴァーミトラは、そのとき大いなる慢心に満たされ、傲慢さに満ちあふれた。
1.55.20
विवर्धमानो वीर्येण समुद्र इव पर्वणि।
हतं मेने तदा राम वसिष्ठमृषिसत्तमम् ॥ १.५५.२० ॥
満月の海のように武勇を増したかれは、ラーマよ、そのとき聖仙の中の最上の者ヴァシシュタは殺されたと考えた。
1.55.21
ततो गत्वाऽऽश्रमपदं मुमोचास्त्राणि पार्थिवः।
यैस्तत् तपोवनं नाम निर्दग्धं चास्त्रतेजसा ॥ १.५५.२१ ॥
それから王は草庵に行き、武器を放った。その武器の威力によって、タポーヴァナと呼ばれるその森は完全に焼き尽くされた。
1.55.22
उदीर्यमाणमस्त्रं तद् विश्वामित्रस्य धीमतः।
दृष्ट्वा विप्रद्रुता भीता मुनयः शतशो दिशः ॥ १.५५.२२ ॥
賢者ヴィシュヴァーミトラが放とうとするその武器を見て、怯えた数百の聖仙たちは四方八方に逃げ散った。
1.55.23
वसिष्ठस्य च ये शिष्या ये च वै मृगपक्षिणः।
विद्रवन्ति भयाद् भीता नानादिग्भ्यः सहस्रशः ॥ १.५५.२३ ॥
ヴァシシュタの弟子たちや、鹿や鳥たちは恐怖に震え、数千の群れとなって四方へ逃げ散った。
1.55.24
वसिष्ठस्याश्रमपदं शून्यमासीन्महात्मनः।
मुहूर्तमिव निःशब्दमासीदीरिणसंनिभम् ॥ १.५५.२४ ॥
偉大な魂ヴァシシュタの草庵は空になった。しばしのあいだ、それは荒れ地のように静まり返った。
1.55.25
वदतो वै वसिष्ठस्य मा भैरिति मुहुर्मुहुः।
नाशयाम्यद्य गाधेयं नीहारमिव भास्करः ॥ १.५५.२५ ॥
ヴァシシュタは幾度も言った。「恐れるな。今日、ガーディの子を、太陽が霧を消すように滅ぼしてやる。」
1.55.26
एवमुक्त्वा महातेजा वसिष्ठो जपतां वरः।
विश्वामित्रं तदा वाक्यं सरोषमिदमब्रवीत् ॥ १.५५.२६ ॥
こう言うと、偉大な光輝を持ち、ジャパ(真言誦唱)を行う者の中で最も優れたヴァシシュタは、怒りをもってヴィシュヴァーミトラにこの言葉を語った。
1.55.27
आश्रमं चिरसंवृद्धं यद् विनाशितवानसि।
दुराचारो हि यन्मूढस्तस्मात् त्वं न भविष्यसि ॥ १.५५.२७ ॥
「長く栄えてきたこの隠棲所を、お前は壊してしまった。悪しき行いをし、愚かなお前は、もはや存在しないだろう。」
1.55.28
इत्युक्त्वा परमक्रुद्धो दण्डमुद्यम्य सत्वरः।
विधूम इव कालाग्निर्यमदण्डमिवापरम् ॥ १.५५.२८ ॥
こう言うと、極度に怒ったヴァシシュタは素早く杖を振り上げた。それは煙のない劫火のようで、もう一本のヤマの杖のようであった。