Vedyatra वेदयात्रा
検索

ヴァールミーキのラーマーヤナ · サルガ 1.56

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

1.56.1

एवमुक्तो वसिष्ठेन विश्वामित्रो महाबलः।
आग्नेयमस्त्रमुद्दिश्य तिष्ठ तिष्ठेति चाब्रवीत् ॥ १.५६.१ ॥

ヴァシシュタにこう言われた大力のヴィシュヴァーミトラは、火神の矢を向けて「止まれ、止まれ」と言った。

1.56.2

ब्रह्मदण्डं समुद्यम्य कालदण्डमिवापरम्।
वसिष्ठो भगवान् क्रोधादिदं वचनमब्रवीत् ॥ १.५६.२ ॥

もう一本の死神の杖のようなブラフマダンダを振り上げ、尊きヴァシシュタは怒ってこの言葉を述べた。

1.56.3

क्षत्रबन्धो स्थितोऽस्म्येष यद् बलं तद् विदर्शय।
नाशयाम्यद्य ते दर्पं शस्त्रस्य तव गाधिज ॥ १.५६.३ ॥

卑しきクシャトリヤよ、私はここに立っている。お前の力を見せるがよい。ガーディの子よ、今日お前の武器の驕りを打ち砕いてやる。

1.56.4

क्व च ते क्षत्रियबलं क्व च ब्रह्मबलं महत्।
पश्य ब्रह्मबलं दिव्यं मम क्षत्रियपांसन ॥ १.५६.४ ॥

お前のクシャトリヤの力はどこにあり、偉大なブラーフマナの力はどこにあるか。卑しきクシャトリヤよ、我が神聖なブラフマンの力を見よ。

1.56.5

तस्यास्त्रं गाधिपुत्रस्य घोरमाग्नेयमुत्तमम्।
ब्रह्मदण्डेन तच्छान्तमग्नेर्वेग इवाम्भसा ॥ १.५६.५ ॥

ガーディの子のその恐ろしく至高の火の矢は、ブラフマダンダによって鎮められた。水によって火の勢いが鎮まるように。

1.56.6

वारुणं चैव रौद्रं च ऐन्द्रं पाशुपतं तथा।
ऐषीकं चापि चिक्षेप कुपितो गाधिनन्दनः ॥ १.५६.६ ॥

激怒したガーディの子は、ヴァルナ、ルドラ、インドラの武器、パーシュパタ、そしてアイシーカの武器をも投げ放った。

1.56.7

मानवं मोहनं चैव गान्धर्वं स्वापनं तथा।
जृम्भणं मादनं चैव संतापनविलापने ॥ १.५६.७ ॥

人間の矢、幻惑の矢、ガンダルヴァの矢、眠りの矢、あくびの矢、陶酔の矢、そして苦悶と嘆きの矢。

1.56.8

शोषणं दारणं चैव वज्रमस्त्रं सुदुर्जयम्।
ब्रह्मपाशं कालपाशं वारुणं पाशमेव च ॥ १.५६.८ ॥

乾燥の矢、裂断の矢、きわめて打ち破りがたい雷霆の矢、ブラフマーの縄、時の縄、ヴァルナの縄。

1.56.9

पिनाकमस्त्रं दयितं शुष्कार्द्रे अशनी तथा।
दण्डास्त्रमथ पैशाचं क्रौञ्चमस्त्रं तथैव च ॥ १.५६.९ ॥

ピナーカの矢、愛用の矢、乾いた雷と湿った雷、杖の矢、ピシャーチャの矢、クラウンチャの矢。

1.56.10

धर्मचक्रं कालचक्रं विष्णुचक्रं तथैव च।
वायव्यं मथनं चैव अस्त्रं हयशिरस्तथा ॥ १.५६.१० ॥

ダルマの輪、時の輪、ヴィシュヌの輪、風の矢、攪拌の矢、馬頭の矢。

1.56.11

शक्तिद्वयं च चिक्षेप कङ्कालं मुसलं तथा।
वैद्याधरं महास्त्रं च कालास्त्रमथ दारुणम् ॥ १.५६.११ ॥

彼は二つの槍、骸骨の矢と棍棒を放った。さらにヴィディヤーダラの矢、大いなる矢、時の矢、そして恐ろしい矢を。

1.56.12

त्रिशूलमस्त्रं घोरं च कापालमथ कङ्कणम्।
एतान्यस्त्राणि चिक्षेप सर्वाणि रघुनन्दन ॥ १.५६.१२ ॥

三叉戟の矢、恐ろしい矢、頭蓋骨の矢、そして腕輪の矢。ラグの喜びよ、彼はこれらすべての矢を放った。

1.56.13

वसिष्ठे जपतां श्रेष्ठे तदद्भुतमिवाभवत्।
तानि सर्वाणि दण्डेन ग्रसते ब्रह्मणः सुतः ॥ १.५६.१३ ॥

詠唱する者の中で最もすぐれたヴァシシュタのもとで、それは不思議な出来事となった。ブラフマーの息子は杖でそれらすべてを飲み込んだ。

1.56.14

तेषु शान्तेषु ब्रह्मास्त्रं क्षिप्तवान् गाधिनन्दनः।
तदस्त्रमुद्यतं दृष्ट्वा देवाः साग्निपुरोगमाः ॥ १.५६.१४ ॥

それらが鎮まると、ガーディの息子はブラフマーの武器を放った。振り上げられたその武器を見て、アグニを先頭とする神々は怯えた。

1.56.15

देवर्षयश्च सम्भ्रान्ता गन्धर्वाः समहोरगाः।
त्रैलोक्यमासीत् संत्रस्तं ब्रह्मास्त्रे समुदीरिते ॥ १.५६.१५ ॥

天仙たちも動揺し、ガンダルヴァや大蛇たちもそうであった。ブラフマーの武器が放たれると、三界は恐れおののいた。

1.56.16

तदप्यस्त्रं महाघोरं ब्राह्मं ब्राह्मेण तेजसा।
वसिष्ठो ग्रसते सर्वं ब्रह्मदण्डेन राघव ॥ १.५६.१६ ॥

その極めて恐ろしいブラーフマの武器をも、ラーガヴァよ、ヴァシシュタはブラフマーの威力によりブラフマーの杖で全部飲み込んだ。

1.56.17

ब्रह्मास्त्रं ग्रसमानस्य वसिष्ठस्य महात्मनः।
त्रैलोक्यमोहनं रौद्रं रूपमासीत् सुदारुणम् ॥ १.५६.१७ ॥

ブラフマーの武器を飲み込む偉大な魂ヴァシシュタの姿は、三界を惑わせ、恐ろしく、極めて凄まじいものとなった。

1.56.18

रोमकूपेषु सर्वेषु वसिष्ठस्य महात्मनः।
मरीच्य इव निष्पेतुरग्नेर्धूमाकुलार्चिषः ॥ १.५६.१८ ॥

偉大な魂ヴァシシュタの全身の毛穴から、煙に曇った炎の光線のような光が放たれた。

1.56.19

प्राज्वलद् ब्रह्मदण्डश्च वसिष्ठस्य करोद्यतः।
विधूम इव कालाग्नेर्यमदण्ड इवापरः ॥ १.५६.१९ ॥

ヴァシシュタの手に掲げられたブラフマーの杖が燃え上がった。煙のない時の火のように、ヤマのもう一つの杖のように。

1.56.20

ततोऽस्तुवन् मुनिगणा वसिष्ठं जपतां वरम्।
अमोघं ते बलं ब्रह्मंस्तेजो धारय तेजसा ॥ १.५६.२० ॥

そのとき聖仙たちは、読誦する者の中で最も優れたヴァシシュタを讃えた。「ブラフマンよ、あなたの力は決して外れない。あなたの威光でそれを抑えたまえ。」

1.56.21

निगृहीतस्त्वया ब्रह्मन् विश्वामित्रो महाबलः।
अमोघं ते बलं श्रेष्ठ लोकाः सन्तु गतव्यथाः ॥ १.५६.२१ ॥

ブラフマンよ、あなたは大力のヴィシュヴァーミトラを抑えた。最も優れた方よ、あなたの力は決して外れない。世界よ、苦しみから解放されよ。

1.56.22

एवमुक्तो महातेजाः शमं चक्रे महाबलः।
विश्वामित्रो विनिकृतो विनिःश्वस्येदमब्रवीत् ॥ १.५६.२२ ॥

このように言われ、大いなる威光と力を持つヴィシュヴァーミトラは静まった。しかし辱められて深く溜息をつき、次のように言った。

1.56.23

धिग् बलं क्षत्रियबलं ब्रह्मतेजोबलं बलम्।
एकेन ब्रह्मदण्डेन सर्वास्त्राणि हतानि मे ॥ १.५६.२३ ॥

武士の力など恥だ!ブラフマンの威光の力こそ真の力だ。ただ一本のブラフマーの杖で、私の全ての武器は破壊された。

1.56.24

तदेतत् प्रसमीक्ष्याहं प्रसन्नेन्द्रियमानसः।
तपो महत् समास्थास्ये यद् वै ब्रह्मत्वकारणम् ॥ १.५६.२४ ॥

これを十分に考え、感官と心を澄ませて、まさにバラモンとなる原因である偉大な苦行を私は行おう。