蚁垤《罗摩衍那》 · 篇 1.60
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.60.1
तपोबलहतान् ज्ञात्वा वासिष्ठान् समहोदयान्।
ऋषिमध्ये महातेजा विश्वामित्रोऽभ्यभाषत ॥ १.६०.१ ॥
得知瓦希什塔之子们凭借苦行之力被杀,他们同样显赫,大光明者毗首弥多罗在诸仙之中开口说道。
1.60.2
अयमिक्ष्वाकुदायादस्त्रिशङ्कुरिति विश्रुतः।
धर्मिष्ठश्च वदान्यश्च मां चैव शरणं गतः ॥ १.६०.२ ॥
此人是甘蔗王族的继承者,名为三footnote(特里商库),最为正直慷慨,并且前来投奔于我。
1.60.3
स्वेनानेन शरीरेण देवलोकजिगीषया।
यथायं स्वशरीरेण देवलोकं गमिष्यति ॥ १.६०.३ ॥
出于征服天界的愿望,他将以自己的这个身体前往天界。
1.60.4
तथा प्रवर्त्यतां यज्ञो भवद्भिश्च मया सह।
विश्वामित्रवचः श्रुत्वा सर्व एव महर्षयः ॥ १.६०.४ ॥
因此,让你们和我共同主持祭祀吧。诸大仙听了毗首弥多罗的话后——
1.60.5
ऊचुः समेताः सहसा धर्मज्ञा धर्मसंहितम्।
अयं कुशिकदायादो मुनिः परमकोपनः ॥ १.६०.५ ॥
聚集在一起的精通法义的诸仙忽然依法说道:“此人是拘尸迦之后裔,极易发怒的仙人。”
1.60.6
यदाह वचनं सम्यगेतत् कार्यं न संशयः।
अग्निकल्पो हि भगवान् शापं दास्यति रोषतः ॥ १.६०.६ ॥
他所说的正确,此事必须去做,毫无疑问。那位尊者如同火一般;他愤怒时将降下诅咒。
1.60.7
तस्मात् प्रवर्त्यतां यज्ञः सशरीरो यथा दिवि।
गच्छेदिक्ष्वाकुदायादो विश्वामित्रस्य तेजसा ॥ १.६०.७ ॥
因此让祭祀开始吧,使伊刹婆陀之后裔凭毗首弥多罗的威力肉身升天。
1.60.8
ततः प्रवर्त्यतां यज्ञः सर्वे समधितिष्ठत।
एवमुक्त्वा महर्षयः संजह्रुस्ताः क्रियास्तदा ॥ १.६०.८ ॥
于是,众大仙说“让祭祀开始吧”,各自就位;那时他们便停止了其他的仪式。
1.60.9
याजकश्च महातेजा विश्वामित्रोऽभवत् क्रतौ।
ऋत्विजश्चानुपूर्व्येण मन्त्रवन्मन्त्रकोविदाः ॥ १.६०.९ ॥
大光明的毗首弥多罗成为祭祀的主祭;通晓咒语的祭司们也依次按咒语行事。
1.60.10
चक्रुः सर्वाणि कर्माणि यथाकल्पं यथाविधि।
ततः कालेन महता विश्वामित्रो महातपाः ॥ १.६०.१० ॥
他们依照规程与法则完成了所有仪式;随后经过很长时间,大苦行者毗首弥多罗(继续行事)。
1.60.11
चकारावाहनं तत्र भागार्थं सर्वदेवताः।
नाभ्यागमंस्तदा तत्र भागार्थं सर्वदेवताः ॥ १.६०.११ ॥
毗首弥多罗在那里为所有天神作了迎请,以便他们领受祭品之分;但那时,并非所有天神都来领取自己的份额。
1.60.12
ततः कोपसमाविष्टो विश्वामित्रो महामुनिः।
स्रुवमुद्यम्य सक्रोधस्त्रिशङ्कुमिदमब्रवीत् ॥ १.६०.१२ ॥
于是,充满愤怒的大仙毗首弥多罗举起祭勺,怒气冲冲地对三足王说了这些话。
1.60.13
पश्य मे तपसो वीर्यं स्वार्जितस्य नरेश्वर।
एष त्वां स्वशरीरेण नयामि स्वर्गमोजसा ॥ १.६०.१३ ॥
国王啊,看我自己修得的苦行之力。我将以我的神力,让你连同自己的身体升往天界。
1.60.14
दुष्प्रापं स्वशरीरेण स्वर्गं गच्छ नरेश्वर।
स्वार्जितं किंचिदप्यस्ति मया हि तपसः फलम् ॥ १.६०.१४ ॥
国王啊,凭自己的肉身去到天界是困难的,你去天界吧。我所修得的苦行之果,确实仍有一些。
1.60.15
राजंस्त्वं तेजसा तस्य सशरीरो दिवं व्रज।
उक्तवाक्ये मुनौ तस्मिन् सशरीरो नरेश्वरः ॥ १.६०.१५ ॥
国王啊,借他的神力,你连同自己的身体升往天界吧。那位仙人说完这些话后,那位人主便连同自己的身体,
1.60.16
दिवं जगाम काकुत्स्थ मुनीनां पश्यतां तदा।
स्वर्गलोकं गतं दृष्ट्वा त्रिशङ्कुं पाकशासनः ॥ १.६०.१६ ॥
迦古特斯特啊,他在众仙人注视下升天而去。那时,因陀罗见到已抵达天界的三吓,
1.60.17
सह सर्वैः सुरगणैरिदं वचनमब्रवीत्।
त्रिशङ्को गच्छ भूयस्त्वं नासि स्वर्गकृतालयः ॥ १.६०.१७ ॥
他与众天神一同说出这番话:三吓啊,你回去吧,你并非在天界有住处的人。
1.60.18
गुरुशापहतो मूढ पत भूमिमवाक्शिराः।
एवमुक्तो महेन्द्रेण त्रिशङ्कुरपतत् पुनः ॥ १.६०.१८ ॥
你已为师尊的诅咒所击,愚人啊,头朝下坠落于地。大因陀罗如此说后,三吓再次坠落。
1.60.19
विक्रोशमानस्त्राहीति विश्वामित्रं तपोधनम्।
तच्छ्रुत्वा वचनं तस्य क्रोशमानस्य कौशिकः ॥ १.६०.१९ ॥
他大声呼喊:“救救我!”向以苦行为财富的毗首密多罗求救。听到这呼喊之声,憍尸迦(毗首密多罗)……
1.60.20
रोषमाहारयत् तीव्रं तिष्ठ तिष्ठेति चाब्रवीत्।
ऋषिमध्ये स तेजस्वी प्रजापतिरिवापरः ॥ १.६०.२० ॥
他怒火中烧,在众仙人之中说道:“站住,站住!”这位光辉的人如同另一位生主(Prajāpati)。
1.60.21
सृजन् दक्षिणमार्गस्थान् सप्तर्षीनपरान् पुनः।
नक्षत्रवंशमपरमसृजत् क्रोधमूर्च्छितः ॥ १.६०.२१ ॥
他被愤怒所迷惑,创造了位于南方之路上的另外七位仙人,又创造了另一支星宿之族。
1.60.22
दक्षिणां दिशमास्थाय ऋषिमध्ये महायशाः।
सृष्ट्वा नक्षत्रवंशं च क्रोधेन कलुषीकृतः ॥ १.६०.२२ ॥
立于南方,在众仙人之中,这位大名者创造了星宿之族,被愤怒所蒙蔽。
1.60.23
अन्यमिन्द्रं करिष्यामि लोको वा स्यादनिन्द्रकः।
दैवतान्यपि स क्रोधात् स्रष्टुं समुपचक्रमे ॥ १.६०.२३ ॥
“我要另造一位因陀罗,否则世界便没有因陀罗!”于是他在愤怒中开始创造诸神。
1.60.24
ततः परमसम्भ्रान्ताः सर्षिसङ्घाः सुरासुराः।
विश्वामित्रं महात्मानमूचुः सानुनयं वचः ॥ १.६०.२४ ॥
于是诸神与阿修罗极为惊慌,与众仙人一起,以温和的言辞对大心的毗首密多罗说道。
1.60.25
अयं राजा महाभाग गुरुशापपरिक्षतः।
सशरीरो दिवं यातुं नार्हत्येव तपोधन ॥ १.६०.२५ ॥
大福之人啊,此王为师尊的诅咒所困;苦行的宝藏啊,他绝不配以肉身升天。
1.60.26
तेषां तद् वचनं श्रुत्वा देवानां मुनिपुंगवः।
अब्रवीत् सुमहद् वाक्यं कौशिकः सर्वदेवताः ॥ १.६०.२६ ॥
仙人中的尊者憍尸迦听了诸天的这些话,便对一切天神说了这番重要的话。
1.60.27
सशरीरस्य भद्रं वस्त्रिशङ्कोरस्य भूपतेः।
आरोहणं प्रतिज्ञातं नानृतं कर्तुमुत्सहे ॥ १.६०.२७ ॥
愿国王特里商古吉祥。我已许诺让他以肉身升天,我决不愿让这诺言落空。
1.60.28
स्वर्गोऽस्तु सशरीरस्य त्रिशङ्कोरस्य शाश्वतः।
नक्षत्राणि च सर्वाणि मामकानि ध्रुवाण्यथ ॥ १.६०.२८ ॥
愿此特里商古以肉身永享天界;愿我所造的一切星辰永远恒定不移。
1.60.29
यावल्लोका धरिष्यन्ति तिष्ठन्त्वेतानि सर्वशः।
यत् कृतानि सुराः सर्वे तदनुज्ञातुमर्हथ ॥ १.६०.२९ ॥
只要世界存续,这些都应当长存;诸位天神啊,你们应当认可我所造的一切。
1.60.30
एवमुक्ताः सुराः सर्वे प्रत्यूचुर्मुनिपुंगवम्।
एवं भवतु भद्रं ते तिष्ठन्त्वेतानि सर्वशः ॥ १.६०.३० ॥
诸天神听了这话,回答这位仙人中的尊者说:“就这样吧,愿你吉祥。这一切都应永存。”
1.60.31
गगने तान्यनेकानि वैश्वानरपथाद् बहिः।
नक्षत्राणि मुनिश्रेष्ठ तेषु ज्योतिःषु जाज्वलन् ॥ १.६०.३१ ॥
众仙之中最殊胜者啊,在吠舍婆那道之外的天空中,许多星辰在那些光明中闪耀。
1.60.32
अवाक्शिरास्त्रिशङ्कुश्च तिष्ठत्वमरसंनिभः।
अनुयास्यन्ति चैतानि ज्योतींषि नृपसत्तमम् ॥ १.६०.३२ ॥
愿头朝下的特利商past如天神般安住;这些光明将追随最优秀的君王。
1.60.33
कृतार्थं कीर्तिमन्तं च स्वर्गलोकगतं यथा।
विश्वामित्रस्तु धर्मात्मा सर्वदेवैरभिष्टुतः ॥ १.६०.३३ ॥
如同功成名就、升往天界者,行法之心的毗首密多罗受到诸天神的赞颂。
1.60.34
ऋषिमध्ये महातेजा बाढमित्येव देवताः।
ततो देवा महात्मानो ऋषयश्च तपोधनाः।
जग्मुर्यथागतं सर्वे यज्ञस्यान्ते नरोत्तम ॥ १.६०.३४ ॥
在诸仙之中,光辉盛大的诸天神说:「就这样吧。」随后,大心的诸神与以苦行为财富的仙人们,人中之上啊,在祭祀完毕时,全都如来时那样返回了。