Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 1.62

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.62.1

शुनःशेपं नरश्रेष्ठ गृहीत्वा तु महायशाः।
व्यश्रमत् पुष्करे राजा मध्याह्ने रघुनन्दन ॥ १.६२.१ ॥

人中之杰啊,罗怙族的欢乐!那位大名声的国王抓住了须那舍鲜,在正午时分于普什卡罗休息。

1.62.2

तस्य विश्रममाणस्य शुनःशेपो महायशाः।
पुष्करं ज्येष्ठमागम्य विश्वामित्रं ददर्श ह ॥ १.६२.२ ॥

当国王休息时,大名声的须那舍鲜来到最主要的普什卡罗,看见了毗首密多罗。

1.62.3

तप्यन्तमृषिभिः सार्धं मातुलं परमातुरः।
विषण्णवदनो दीनस्तृष्णया च श्रमेण च ॥ १.६२.३ ॥

须那舍鲜看见他的舅父与诸仙人一同苦修,而他自己极其痛苦,面容憔悴,因口渴和疲劳而困顿,

1.62.4

पपाताङ्के मुने राम वाक्यं चेदमुवाच ह।
न मेऽस्ति माता न पिता ज्ञातयो बान्धवाः कुतः ॥ १.६२.४ ॥

罗摩啊!他倒在仙人的怀中,说出这些话:“我没有母亲,没有父亲,也没有亲族与亲人;那么,帮助从何而来呢?”

1.62.5

त्रातुमर्हसि मां सौम्य धर्मेण मुनिपुंगव।
त्राता त्वं हि नरश्रेष्ठ सर्वेषां त्वं हि भावनः ॥ १.६२.५ ॥

温和的人啊,最好的仙人!您应当依法拯救我。人中之杰啊,您就是保护者;您确实是一切众生的养育者。

1.62.6

राजा च कृतकार्यः स्यादहं दीर्घायुरव्ययः।
स्वर्गलोकमुपाश्नीयां तपस्तप्त्वा ह्यनुत्तमम् ॥ १.६२.६ ॥

愿国王也达成他的目的;愿我长寿而不朽,修行至高的苦行,得到天界。

1.62.7

स मे नाथो ह्यनाथस्य भव भव्येन चेतसा।
पितेव पुत्रं धर्मात्मंस्त्रातुमर्हसि किल्बिषात् ॥ १.६२.७ ॥

我无依无靠,愿您以善良之心成为我的主宰。正直之人啊,如同父亲拯救儿子,您应当把我从这罪过中救出。

1.62.8

तस्य तद् वचनं श्रुत्वा विश्वामित्रो महातपाः।
सान्त्वयित्वा बहुविधं पुत्रानिदमुवाच ह ॥ १.६२.८ ॥

大苦行者毗奢蜜多罗听了他的话,以种种方式安慰他,然后对自己的儿子们说了这番话。

1.62.9

यत्कृते पितरः पुत्राञ्जनयन्ति शुभार्थिनः।
परलोकहितार्थाय तस्य कालोऽयमागतः ॥ १.६२.९ ॥

善求之父为之生育儿子的那一目的,为了来世的利益,那个时候现在已经到来。

1.62.10

अयं मुनिसुतो बालो मत्तः शरणमिच्छति।
अस्य जीवितमात्रेण प्रियं कुरुत पुत्रकाः ॥ १.६२.१० ॥

这个孩子是仙人之子,向我寻求庇护。孩子们,只需保全他的性命,便是对他行善。

1.62.11

सर्वे सुकृतकर्माणः सर्वे धर्मपरायणाः।
पशुभूता नरेन्द्रस्य तृप्तिमग्नेः प्रयच्छत ॥ १.६२.११ ॥

你们所有行善的人,你们所有奉行法的人,为国王化作祭牲,使火神得到满足。

1.62.12

नाथवांश्च शुनःशेपो यज्ञश्चाविघ्नतो भवेत्।
देवतास्तर्पिताश्च स्युर्मम चापि कृतं वचः ॥ १.६२.१२ ॥

愿舜纳舍有庇护者,愿祭祀无阻地进行,愿诸神得到满足,也愿我的话得以实现。

1.62.13

मुनेस्तद् वचनं श्रुत्वा मधुच्छन्दादयः सुताः।
साभिमानं नरश्रेष्ठ सलीलमिदमब्रुवन् ॥ १.६२.१३ ॥

诸子听到仙人的话,以傲慢且戏谑的口吻说道:人中之杰啊。

1.62.14

कथमात्मसुतान् हित्वा त्रायसेऽन्यसुतं विभो।
अकार्यमिव पश्यामः श्वमांसमिव भोजने ॥ १.६२.१४ ॥

威严的大师啊,您为何舍弃自己的儿子,反去保护他人之子?在我们看来,这如同饭食中的狗肉一般不合适。

1.62.15

तेषां तद् वचनं श्रुत्वा पुत्राणां मुनिपुंगवः।
क्रोधसंरक्तनयनो व्याहर्तुमुपचक्रमे ॥ १.६२.१५ ॥

诸子的话传入耳中,这位仙人中的翘楚双目因愤怒而通红,开口说道。

1.62.16

निःसाध्वसमिदं प्रोक्तं धर्मादपि विगर्हितम्।
अतिक्रम्य तु मद्वाक्यं दारुणं रोमहर्षणम् ॥ १.६२.१६ ॥

你们毫无羞耻地说出了这话,连法也要谴责它。违背了我的话,你们做出了这恐怖、令人毛骨悚然的事。

1.62.17

श्वमांसभोजिनः सर्वे वासिष्ठा इव जातिषु।
पूर्णं वर्षसहस्रं तु पृथिव्यामनुवत्स्यथ ॥ १.६२.१७ ॥

你们这些食狗肉的人,将在大地上度过整整一千年,在卑贱的种姓之中,如同婆罗门仙人婆悉吒的子孙一般。

1.62.18

कृत्वा शापसमायुक्तान् पुत्रान् मुनिवरस्तदा।
शुनःशेपमुवाचार्तं कृत्वा रक्षां निरामयाम् ॥ १.६२.१८ ॥

于是,仙人中的最优者使那些陷入诅咒的儿子遭受此报,随后为忧愁的舍那舍贝设下无害的庇护,并对他说道。

1.62.19

पवित्रपाशैराबद्धो रक्तमाल्यानुलेपनः।
वैष्णवं यूपमासाद्य वाग्भिरग्निमुदाहर ॥ १.६२.१९ ॥

他被神圣的绳索捆绑,身披红色花环并涂抹红色香膏,来到献给毗湿奴的祭柱前,开始以颂词召请火神阿耆尼。

1.62.20

इमे च गाथे द्वे दिव्ये गायेथा मुनिपुत्रक।
अम्बरीषस्य यज्ञेऽस्मिंस्ततः सिद्धिमवाप्स्यसि ॥ १.६२.२० ॥

啊,仙人之子,请咏唱这两首神圣的偈颂;那时,在安巴利沙的这场祭祀中,你将获得成就。

1.62.21

शुनःशेपो गृहीत्वा ते द्वे गाथे सुसमाहितः।
त्वरया राजसिंहं तमम्बरीषमुवाच ह ॥ १.६२.२१ ॥

舍娜舍波领受那两首偈颂,全神贯注,急忙对那位王中之狮安巴利沙说道。

1.62.22

राजसिंह महाबुद्धे शीघ्रं गच्छावहे वयम्।
निवर्तयस्व राजेन्द्र दीक्षां च समुदाहर ॥ १.६२.२२ ॥

啊,王中之狮,大智者,让我们两人快走吧。啊,王中之王,请返回并完整地诵念灌顶的誓愿。

1.62.23

तद् वाक्यमृषिपुत्रस्य श्रुत्वा हर्षसमन्वितः।
जगाम नृपतिः शीघ्रं यज्ञवाटमतन्द्रितः ॥ १.६२.२३ ॥

国王听了仙人之子的那句话,心中充满喜悦,不知疲倦地急速走向祭祀场。

1.62.24

सदस्यानुमते राजा पवित्रकृतलक्षणम्।
पशुं रक्ताम्बरं कृत्वा यूपे तं समबन्धयत् ॥ १.६२.२४ ॥

在祭司们的同意下,国王为那头带有神圣绳索标记的牲畜披上红衣,并将它牢牢系在祭柱上。

1.62.25

स बद्धो वाग्भिरग्र्याभिरभितुष्टाव वै सुरौ।
इन्द्रमिन्द्रानुजं चैव यथावन्मुनिपुत्रकः ॥ १.६२.२५ ॥

被缚的仙人之子以殊胜的言辞,如法地赞颂了两位天神——因陀罗与因陀罗的幼弟。

1.62.26

ततः प्रीतः सहस्राक्षो रहस्यस्तुतितोषितः।
दीर्घमायुस्तदा प्रादाच्छुनःशेपाय वासवः ॥ १.६२.२६ ॥

于是千眼的因陀罗因秘密的赞颂而欢喜满足,便赐予舜那舍沛长寿。

1.62.27

स च राजा नरश्रेष्ठ यज्ञस्य च समाप्तवान्।
फलं बहुगुणं राम सहस्राक्षप्रसादजम् ॥ १.६२.२७ ॥

那位国王,啊罗摩,人中之尊,完成了祭祀,并获得了因因陀罗恩典而生、具足众多功德的果报。

1.62.28

विश्वामित्रोऽपि धर्मात्मा भूयस्तेपे महातपाः।
पुष्करेषु नरश्रेष्ठ दशवर्षशतानि च ॥ १.६२.२८ ॥

正法心性的大苦行者毗舍蜜多罗,人中之尊啊,也在普什卡罗再次修行苦行,历时千年。