蚁垤《罗摩衍那》 · 篇 1.63
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.63.1
पूर्णे वर्षसहस्रे तु व्रतस्नातं महामुनिम्।
अभ्यगच्छन् सुराः सर्वे तपः फलचिकीर्षवः ॥ १.६३.१ ॥
千年圆满之时,所有天神前来拜访已沐浴完成誓愿的大仙人,愿赐予他苦行的果实。
1.63.2
अब्रवीत् सुमहातेजा ब्रह्मा सुरुचिरं वचः।
ऋषिस्त्वमसि भद्रं ते स्वार्जितैः कर्मभिः शुभैः ॥ १.६३.२ ॥
大光明的梵天说出了这些极其悦耳的话:“你已是仙人。愿你吉祥;你是凭借自己的善业而获得此果的。”
1.63.3
तमेवमुक्त्वा देवेशस्त्रिदिवं पुनरभ्यगात्।
विश्वामित्रो महातेजा भूयस्तेपे महत् तपः ॥ १.६३.३ ॥
对他说完这些,众神之主返回了天界。而大光明的毗奢蜜多罗再次进行了大苦行。
1.63.4
ततः कालेन महता मेनका परमाप्सराः।
पुष्करेषु नरश्रेष्ठ स्नातुं समुपचक्रमे ॥ १.६३.४ ॥
此后经过很长时间,最上的天女门那伽在布什卡拉湖中开始沐浴,人中之杰啊。
1.63.5
तां ददर्श महातेजा मेनकां कुशिकात्मजः।
रूपेणाप्रतिमां तत्र विद्युतं जलदे यथा ॥ १.६३.५ ॥
大光明的古史迦之子在那里看见了门那伽,她的美貌无与伦比,如同云中的闪电。
1.63.6
कन्दर्पदर्पवशगो मुनिस्तामिदमब्रवीत्।
अप्सरः स्वागतं तेऽस्तु वस चेह ममाश्रमे ॥ १.६३.६ ॥
被爱神之傲慢所controlled的仙人对她说:“天女啊,欢迎你!请留在我的净修林中。”
1.63.7
अनुगृह्णीष्व भद्रं ते मदनेन विमोहितम्।
इत्युक्ता सा वरारोहा तत्र वासमथाकरोत् ॥ १.६३.७ ॥
“请施恩于我,愿你吉祥;我被爱神迷惑了。”听她这样说,这位细腰美人便在那里住下了。
1.63.8
तपसो हि महाविघ्नो विश्वामित्रमुपागमत्।
तस्यां वसन्त्यां वर्षाणि पञ्च पञ्च च राघव ॥ १.६३.८ ॥
罗怙之子啊,一大障碍降临到仙人毗首弥多罗的苦行之中。她在那里居住,一连过了十年。
1.63.9
विश्वामित्राश्रमे सौम्ये सुखेन व्यतिचक्रमुः।
अथ काले गते तस्मिन् विश्वामित्रो महामुनिः ॥ १.६३.९ ॥
他们在毗首弥多罗的美好隐居处快乐地度过时光。时光流逝之后,这位大仙毗首弥多罗……
1.63.10
सव्रीड इव संवृत्तश्चिन्ताशोकपरायणः।
बुद्धिर्मुनेः समुत्पन्ना सामर्षा रघुनन्दन ॥ १.६३.१० ॥
他仿佛感到羞愧,陷入忧愁与悲伤之中。罗怙族的喜乐啊,仙人心中生起一个混杂着愤怒的念头。
1.63.11
सर्वं सुराणां कर्मैतत् तपोऽपहरणं महत्।
अहोरात्रापदेशेन गताः संवत्सरा दश ॥ १.६३.११ ॥
这一切都是诸神的所为,是对我苦行的巨大窃取。以昼夜为借口,十年便消逝了。
1.63.12
काममोहाभिभूतस्य विघ्नोऽयं प्रत्युपस्थितः।
स निःश्वसन् मुनिवरः पश्चात्तापेन दुःखितः ॥ १.६३.१२ ॥
对于被欲望与迷惑所征服的人,这障碍便出现了。那位卓越的仙人叹息着,因事后的悔恨而痛苦。
1.63.13
भीतामप्सरसं दृष्ट्वा वेपन्तीं प्राञ्जलिं स्थिताम्।
मेनकां मधुरैर्वाक्यैर्विसृज्य कुशिकात्मजः ॥ १.६३.१३ ॥
见受惊的天女美那伽颤抖着合掌站立,俱ution之子以甜美的言语送她离去。
1.63.14
उत्तरं पर्वतं राम विश्वामित्रो जगाम ह।
स कृत्वा नैष्ठिकीं बुद्धिं जेतुकामो महायशाः ॥ १.६३.१४ ॥
罗摩啊,毗首弥多罗前往北方的山。这位大名的圣人坚定了决心,怀着征服之愿出发了。
1.63.15
कौशिकीतीरमासाद्य तपस्तेपे दुरासदम्।
तस्य वर्षसहस्राणि घोरं तप उपासतः ॥ १.६३.१५ ॥
他来到考希基河岸,修行了难以企及的苦行;千年之久,他修习可怖的苦行。
1.63.16
उत्तरे पर्वते राम देवतानामभूद् भयम्।
आमन्त्रयन् समागम्य सर्वे सर्षिगणाः सुराः ॥ १.६३.१६ ॥
罗摩啊,北方之山上,诸神生起了恐惧。与仙人群一同聚集,所有天神相互商议。
1.63.17
महर्षिशब्दं लभतां साध्वयं कुशिकात्मजः।
देवतानां वचः श्रुत्वा सर्वलोकपितामहः ॥ १.६३.१७ ॥
“愿此俱舍之子获得大仙之号。”诸天之言被听到后,诸世界的祖父……
1.63.18
अब्रवीन्मधुरं वाक्यं विश्वामित्रं तपोधनम्।
महर्षे स्वागतं वत्स तपसोग्रेण तोषितः ॥ १.६३.१८ ॥
他对苦行的财富毗首弥多罗说了甜美的话:“欢迎你,大仙,孩子!你的猛烈苦行让我欢喜。”
1.63.19
महत्त्वमृषिमुख्यत्वं ददामि तव कौशिक।
ब्रह्मणस्तु वचः श्रुत्वा विश्वामित्रस्तपोधनः ॥ १.६३.१९ ॥
“喬紀迦啊,我賜予你偉大與諸仙之中的首位。”婆羅門的話語被苦行財富的毗首彌多羅聽到後……
1.63.20
प्राञ्जलिः प्रणतो भूत्वा प्रत्युवाच पितामहम्।
ब्रह्मर्षिशब्दमतुलं स्वार्जितैः कर्मभिः शुभैः ॥ १.६३.२० ॥
他合掌恭敬地向祖父回答道:“梵仙之名,無與倫比,是我以自己所積的善業所得……”
1.63.21
यदि मे भगवन्नाह ततोऽहं विजितेन्द्रियः।
तमुवाच ततो ब्रह्मा न तावत् त्वं जितेन्द्रियः ॥ १.६३.२१ ॥
“尊者啊,若您這樣說,那我便是已調伏諸根的人。”於是梵天對他說:“你還未曾調伏諸根。”
1.63.22
यतस्व मुनिशार्दूल इत्युक्त्वा त्रिदिवं गतः।
विप्रस्थितेषु देवेषु विश्वामित्रो महामुनिः ॥ १.६३.२२ ॥
“諸仙中的猛虎啊,努力吧!”說完,他便升往天界。諸天人離去之後,大仙毗首彌多羅……
1.63.23
ऊर्ध्वबाहुर्निरालम्बो वायुभक्षस्तपश्चरन्।
घर्मे पञ्चतपा भूत्वा वर्षास्वाकाशसंश्रयः ॥ १.६३.२३ ॥
舉起雙臂,無所依靠,以風為食,行苦行;夏日處於五火之中,雨季則在露天的天空之下……
1.63.24
शिशिरे सलिलेशायी रात्र्यहानि तपोधनः।
एवं वर्षसहस्रं हि तपो घोरमुपागमत् ॥ १.६३.२४ ॥
寒季睡在水中,日夜不息,那以苦行為財富的人便如此修行了一千年的艱苦苦行。
1.63.25
तस्मिन् संतप्यमाने तु विश्वामित्रे महामुनौ।
संतापः सुमहानासीत् सुराणां वासवस्य च ॥ १.६३.२५ ॥
当大仙人毗首弥多罗以苦行炙烤自身时,诸天与因陀罗(婆娑婆)心中生起了巨大的忧虑。
1.63.26
रम्भामप्सरसं शक्रः सर्वैः सह मरुद्गणैः।
उवाचात्महितं वाक्यमहितं कौशिकस्य च ॥ १.६३.२६ ॥
因陀罗与诸摩录多众一同对天女兰跋说了一番对自己有利、对憍尸迦有害的话。