蚁垤《罗摩衍那》 · 篇 1.65
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.65.1
अथ हैमवतीं राम दिशं त्यक्त्वा महामुनिः।
पूर्वां दिशमनुप्राप्य तपस्तेपे सुदारुणम् ॥ १.६५.१ ॥
罗摩啊,那位大仙离开喜马拉雅之地,来到东方,修行了极其严酷的苦行。
1.65.2
मौनं वर्षसहस्रस्य कृत्वा व्रतमनुत्तमम्।
चकाराप्रतिमं राम तपः परमदुष्करम् ॥ १.६५.२ ॥
罗摩啊,他立下千年缄默的誓愿,修行了无与伦比、极其艰难的苦行。
1.65.3
पूर्णे वर्षसहस्रे तु काष्ठभूतं महामुनिम्।
विघ्नैर्बहुभिराधूतं क्रोधो नान्तरमाविशत् ॥ १.६५.३ ॥
千年圆满之时,那位大仙仍如木柴般不动;虽被诸多障碍所扰,愤怒却未能进入他的内心。
1.65.4
स कृत्वा निश्चयं राम तप आतिष्ठताव्ययम्।
तस्य वर्षसहस्रस्य व्रते पूर्णे महाव्रतः ॥ १.६५.४ ॥
罗摩啊,他坚定决心,开始了不坏的苦行;当千年的大愿圆满之时,那位大誓者……
1.65.5
भोक्तुमारब्धवानन्नं तस्मिन् काले रघूत्तम।
इन्द्रो द्विजातिर्भूत्वा तं सिद्धमन्नमयाचत ॥ १.६५.५ ॥
罗怙之最胜者啊,那时他正开始进食;此时因陀罗化作婆罗门,向他乞求煮好的食物。
1.65.6
तस्मै दत्त्वा तदा सिद्धं सर्वं विप्राय निश्चितः।
निःशेषितेऽन्ने भगवानभुक्त्वैव महातपाः ॥ १.६५.६ ॥
于是这位坚定的大苦行者把所有煮好的食物都给了婆罗门;食物已尽,那位尊贵的大苦行者却未曾进食。
1.65.7
न किंचिदवदद् विप्रं मौनव्रतमुपास्थितः।
तथैवासीत् पुनर्मौनमनुच्छ्वासं चकार ह ॥ १.६५.७ ॥
他对婆罗门什么也没说,持守沉默之誓。他又如此沉默,并屏住了呼吸。
1.65.8
अथ वर्षसहस्रं च नोच्छ्वसन् मुनिपुंगवः।
तस्यानुच्छ्वसमानस्य मूर्ध्नि धूमो व्यजायत ॥ १.६५.८ ॥
此后,那位最尊贵的圣人一千年不呼吸。他屏住呼吸,头顶便冒出烟来。
1.65.9
त्रैलोक्यं येन सम्भ्रान्तमातापितमिवाभवत्।
ततो देवर्षिगन्धर्वाः पन्नगोरगराक्षसाः ॥ १.६५.९ ॥
三界因此震动,仿佛被烈火焚烧。于是诸天神、仙人、乾闼婆、蛇、大蛇与罗刹……
1.65.10
मोहितास्तपसा तस्य तेजसा मन्दरश्मयः।
कश्मलोपहताः सर्वे पितामहमथाब्रुवन् ॥ १.६५.१० ॥
他们被他的苦行与光辉所迷惑,光彩暗淡,众人皆因忧惧而痛苦,向祖父梵天说道。
1.65.11
बहुभिः कारणैर्देव विश्वामित्रो महामुनिः।
लोभितः क्रोधितश्चैव तपसा चाभिवर्धते ॥ १.६५.११ ॥
天神啊,尽管大仙毗舍蜜多罗被诸多缘由所诱惑、激怒,他仍因苦行而日益增长。
1.65.12
नह्यस्य वृजिनं किंचिद् दृश्यते सूक्ष्ममप्युत।
न दीयते यदि त्वस्य मनसा यदभीप्सितम् ॥ १.६५.१२ ॥
在他身上连细微的过失也见不到。如果不把他心中所求的给予他……
1.65.13
विनाशयति त्रैलोक्यं तपसा सचराचरम्।
व्याकुलाश्च दिशः सर्वा न च किंचित् प्रकाशते ॥ १.६५.१३ ॥
他以苦行毁灭三界及其中的动与不动之物;四方皆惊扰不安,无物再显光明。
1.65.14
सागराः क्षुभिताः सर्वे विशीर्यन्ते च पर्वताः।
प्रकम्पते च वसुधा वायुर्वातीह संकुलः ॥ १.६५.१४ ॥
诸海皆已翻腾,群山崩裂,大地震动,此处狂风大作。
1.65.15
ब्रह्मन् न प्रतिजानीमो नास्तिको जायते जनः।
सम्मूढमिव त्रैलोक्यं सम्प्रक्षुभितमानसम् ॥ १.६५.१५ ॥
梵天啊,我们不明白其缘故;人们正失去信仰。三界仿佛迷惑,心意极为惊乱。
1.65.16
भास्करो निष्प्रभश्चैव महर्षेस्तस्य तेजसा।
बुद्धिं न कुरुते यावन्नाशे देव महामुनिः ॥ १.६५.१६ ॥
太阳也因那位大仙的光辉而失去光彩。天神啊,这种状况只会持续到那大仙未下定毁灭之决心为止。
1.65.17
तावत् प्रसादो भगवन्नग्निरूपो महाद्युतिः।
कालाग्निना यथा पूर्वं त्रैलोक्यं दह्यतेऽखिलम् ॥ १.६५.१७ ॥
尊贵者啊,愿那具火之形相、大光辉的仙人之恩泽长存,使三界不致如往昔被时间之火焚尽。
1.65.18
देवराज्यं चिकीर्षेत दीयतामस्य यन्मनः।
ततः सुरगणाः सर्वे पितामहपुरोगमाः ॥ १.६५.१८ ॥
即便他想要天神之国,也应将其心中所愿赐予他。于是以祖父梵天为首的诸天神众……
1.65.19
विश्वामित्रं महात्मानं वाक्यं मधुरमब्रुवन्।
ब्रह्मर्षे स्वागतं तेऽस्तु तपसा स्म सुतोषिताः ॥ १.६५.१९ ॥
他们对大德的毗奢弥多罗说了甘美的话:"梵仙啊,欢迎您;我们因您的苦行而深感欣慰。"
1.65.20
ब्राह्मण्यं तपसोग्रेण प्राप्तवानसि कौशिक।
दीर्घमायुश्च ते ब्रह्मन् ददामि समरुद्गणः ॥ १.६५.२० ॥
憍尸迦啊,你以猛烈的苦行已获得婆罗门的身份;梵啊,我与摩录多众一起赐予你长寿。
1.65.21
स्वस्ति प्राप्नुहि भद्रं ते गच्छ सौम्य यथासुखम्।
पितामहवचः श्रुत्वा सर्वेषां त्रिदिवौकसाम् ॥ १.६५.२१ ॥
"愿你平安,愿你吉祥;温和的人啊,安然前行。"听了祖父梵天的话,天界的所有居民都这样说。
1.65.22
कृत्वा प्रणामं मुदितो व्याजहार महामुनिः।
ब्राह्मण्यं यदि मे प्राप्तं दीर्घमायुस्तथैव च ॥ १.६५.२२ ॥
大仙行礼后欢喜地说:"如果我已获得婆罗门的身份和长寿,那就如此吧。"
1.65.23
ॐकारोऽथ वषट्कारो वेदाश्च वरयन्तु माम्।
क्षत्रवेदविदां श्रेष्ठो ब्रह्मवेदविदामपि ॥ १.६५.२३ ॥
愿唵字、婆沙字及诸吠陀拣选我;愿我在通晓刹帝利吠陀者中、也在通晓梵吠陀者中成为最杰出者。
1.65.24
ब्रह्मपुत्रो वसिष्ठो मामेवं वदतु देवताः।
यद्येवं परमः कामः कृतो यान्तु सुरर्षभाः ॥ १.६५.२४ ॥
愿梵之子婆私吒如此宣告我,愿诸神也如此宣告。若我的至高心愿以此方式实现,那么诸天中的至尊们,请你们离去吧。
1.65.25
ततः प्रसादितो देवैर्वसिष्ठो जपतां वरः।
सख्यं चकार ब्रह्मर्षिरेवमस्त्विति चाब्रवीत् ॥ १.६५.२५ ॥
于是,被诸神安抚的诵咒者中最杰出的梵仙婆悉咤与之结交,并说:“就这样吧。”
1.65.26
ब्रह्मर्षिस्त्वं न संदेहः सर्वं सम्पद्यते तव।
इत्युक्त्वा देवताश्चापि सर्वा जग्मुर्यथागतम् ॥ १.६५.२६ ॥
“你确是梵仙,毫无疑问;你的一切都将成就。”说完,众神便循原路返回了。
1.65.27
विश्वामित्रोऽपि धर्मात्मा लब्ध्वा ब्राह्मण्यमुत्तमम्।
पूजयामास ब्रह्मर्षिं वसिष्ठं जपतां वरम् ॥ १.६५.२७ ॥
正义之魂的毗首弥多罗也获得了至上的婆罗门地位,并尊敬了诵咒者中最杰出的梵仙婆悉咤。
1.65.28
कृतकामो महीं सर्वां चचार तपसि स्थितः।
एवं त्वनेन ब्राह्मण्यं प्राप्तं राम महात्मना ॥ १.६५.२८ ॥
他心愿达成,便游历整个大地,安住于苦行。罗摩啊,这位大德正是如此获得了婆罗门地位。
1.65.29
एष राम मुनिश्रेष्ठ एष विग्रहवांस्तपः।
एष धर्मः परो नित्यं वीर्यस्यैष परायणम् ॥ १.६५.२९ ॥
罗摩啊,此人是诸仙中的至尊,是具象化的苦行。他永远是至高的法,是勇力的至上归宿。
1.65.30
एवमुक्त्वा महातेजा विरराम द्विजोत्तमः।
शतानन्दवचः श्रुत्वा रामलक्ष्मणसंनिधौ ॥ १.६५.३० ॥
说完这些,光辉的二生者中最优秀的人便停了下来。这是在罗摩与罗什曼那面前,听闻沙塔难陀之言时所述。
1.65.31
जनकः प्राञ्जलिर्वाक्यमुवाच कुशिकात्मजम्।
धन्योऽस्म्यनुगृहीतोऽस्मि यस्य मे मुनिपुंगव ॥ १.६५.३१ ॥
遮那伽合掌对拘尸迦之子说:"最尊贵的仙人啊,我是有福的,我蒙受了恩惠。"
1.65.32
यज्ञं काकुत्स्थसहितः प्राप्तवानसि कौशिक।
पावितोऽहं त्वया ब्रह्मन् दर्शनेन महामुने ॥ १.६५.३२ ॥
拘尸迦之子啊,你与迦古特斯塔一同来到我的祭祀。婆罗门啊,大仙啊,我因见到你而得到净化。
1.65.33
गुणा बहुविधाः प्राप्तास्तव संदर्शनान्मया।
विस्तरेण च वै ब्रह्मन् कीर्त्यमानं महत्तपः ॥ १.६५.३३ ॥
因见到你,我获得了多种美德。婆罗门啊,我听到你的大苦行被详细讲述。
1.65.34
श्रुतं मया महातेजो रामेण च महात्मना।
सदस्यैः प्राप्य च सदः श्रुतास्ते बहवो गुणाः ॥ १.६५.३४ ॥
大光明者啊,我从大心的罗摩那里听说,而在集会中也听到了你的许多美德。
1.65.35
अप्रमेयं तपस्तुभ्यमप्रमेयं च ते बलम्।
अप्रमेया गुणाश्चैव नित्यं ते कुशिकात्मज ॥ १.६५.३५ ॥
你的苦行无量,你的力量也无量。拘尸迦之子啊,你的美德也永远无量。
1.65.36
तृप्तिराश्चर्यभूतानां कथानां नास्ति मे विभो।
कर्मकालो मुनिश्रेष्ठ लम्बते रविमण्डलम् ॥ १.६५.३६ ॥
大主啊,这些奇妙的故事使我听不厌足。最尊贵的仙人啊,行祭的时候到了,太阳之轮正在沉落。
1.65.37
श्वः प्रभाते महातेजो द्रष्टुमर्हसि मां पुनः।
स्वागतं जपतां श्रेष्ठ मामनुज्ञातुमर्हसि ॥ १.६५.३७ ॥
啊,大光明者,明晨你应当再次来见我。啊,诵咒者中最殊胜者,你应当允许我告辞。
1.65.38
एवमुक्तो मुनिवरः प्रशस्य पुरुषर्षभम्।
विससर्जाशु जनकं प्रीतं प्रीतमनास्तदा ॥ १.६५.३८ ॥
如此被告知之后,这位杰出的仙人赞美了人中之龙遮那伽,并以欢喜的心立即让喜悦的遮那伽告辞。
1.65.39
एवमुक्त्वा मुनिश्रेष्ठं वैदेहो मिथिलाधिपः।
प्रदक्षिणं चकाराशु सोपाध्यायः सबान्धवः ॥ १.६५.३९ ॥
对诸仙中最殊胜者如此说罢,毗提诃之王、弥提罗的主人,与他的师长和亲属一同迅速行了右绕礼。
1.65.40
विश्वामित्रोऽपि धर्मात्मा सहरामः सलक्ष्मणः।
स्ववासमभिचक्राम पूज्यमानो महात्मभिः ॥ १.६५.४० ॥
正法之心的毗首密多罗也与罗摩、罗什曼那一同,在大德者的敬重中,走向自己的住所。