Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 1.66

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.66.1

ततः प्रभाते विमले कृतकर्मा नराधिपः।
विश्वामित्रं महात्मानमाजुहाव सराघवम् ॥ १.६६.१ ॥

随后,在清晨的明亮时分,国王完成了自己的职责,召唤了大德的毗首密多罗与两位罗怙之子。

1.66.2

तमर्चयित्वा धर्मात्मा शास्त्रदृष्टेन कर्मणा।
राघवौ च महात्मानौ तदा वाक्यमुवाच ह ॥ १.६६.२ ॥

国王依据典籍所规定的仪式向他致敬之后,对两位大德罗怙之子说了这番话。

1.66.3

भगवन् स्वागतं तेऽस्तु किं करोमि तवानघ।
भवानाज्ञापयतु मामाज्ञाप्यो भवता ह्यहम् ॥ १.६६.३ ॥

尊者,欢迎您。无瑕者啊,我能为您做什么?请您吩咐我吧,我是应当听从您命令的人。

1.66.4

एवमुक्तः स धर्मात्मा जनकेन महात्मना।
प्रत्युवाच मुनिश्रेष्ठो वाक्यं वाक्यविशारदः ॥ १.६६.४ ॥

大德的遮那迦如此说完,正义的毗首密多罗——最优秀的仙人、善于辞令——便回答了。

1.66.5

पुत्रौ दशरथस्येमौ क्षत्रियौ लोकविश्रुतौ।
द्रष्टुकामौ धनुःश्रेष्ठं यदेतत्त्वयि तिष्ठति ॥ १.६६.५ ॥

这两位是十车王之子,是在世间闻名的刹帝利王子。他们想要见到您所保管的那张最好的弓。

1.66.6

एतद् दर्शय भद्रं ते कृतकामौ नृपात्मजौ।
दर्शनादस्य धनुषो यथेष्टं प्रतियास्यतः ॥ १.६६.६ ॥

愿您吉祥。请把这张弓给他们看。两位王子见到此弓,心愿达成,便可随意返回。

1.66.7

एवमुक्तस्तु जनकः प्रत्युवाच महामुनिम्।
श्रूयतामस्य धनुषो यदर्थमिह तिष्ठति ॥ १.६६.७ ॥

被这样问后,遮那伽回答这位大仙说:“请听这把弓为何放在此处的缘由。”

1.66.8

देवरात इति ख्यातो निमेर्ज्येष्ठो महीपतिः।
न्यासोऽयं तस्य भगवन् हस्ते दत्तो महात्मनः ॥ १.६६.८ ॥

“尊者啊!有一位名叫提婆罗陀的著名国王,是尼弥的长子。这把弓曾作为寄存之物交到那位大德的手中。”

1.66.9

दक्षयज्ञवधे पूर्वं धनुरायम्य वीर्यवान्।
विध्वंस्य त्रिदशान् रोषात् सलीलमिदमब्रवीत् ॥ १.६६.९ ॥

“往昔在毁灭达刹祭祀之时,那位有威力者拉开此弓,因愤怒而击溃诸天,并戏谑地说了这些话。”

1.66.10

यस्माद् भागार्थिनो भागं नाकल्पयत मे सुराः।
वरांगानि महार्हाणि धनुषा शातयामि वः ॥ १.६६.१० ॥

“求分一份的诸天啊,你们没有为我定下我的那一份,因此我要用这把弓斩断你们那殊胜而极为珍贵的肢体。”

1.66.11

ततो विमनसः सर्वे देवा वै मुनिपुंगव।
प्रसादयन्त देवेशं तेषां प्रीतोऽभवद् भवः ॥ १.६६.११ ॥

“那时诸天都忧愁,他们向天神之主求告;婆伐(湿婆)便对他们满心欢喜。”

1.66.12

प्रीतियुक्तस्तु सर्वेषां ददौ तेषां महात्मनाम्।
तदेतद् देवदेवस्य धनूरत्नं महात्मनः ॥ १.६६.१२ ॥

他满心欢喜,便把那属于众神之神的弓中珍宝交给了所有那些大德。

1.66.13

न्यासभूतं तदा न्यस्तमस्माकं पूर्वजे विभौ।
अथ मे कृषतः क्षेत्रं लांगलादुत्थिता ततः ॥ १.६६.१३ ॥

那张弓当时作为寄存之物交由我们的祖先保管,属于那位威力强大的主。此后,我在耕田时,她从犁沟中涌现出来。

1.66.14

क्षेत्रं शोधयता लब्धा नाम्ना सीतेति विश्रुता।
भूतलादुत्थिता सा तु व्यवर्धत ममात्मजा ॥ १.६६.१४ ॥

我在整理田地时得到她,她以“悉达”之名闻名。这位从大地涌现的女儿,逐渐长大了。

1.66.15

वीर्यशुल्केति मे कन्या स्थापितेयमयोनिजा।
भूतलादुत्थितां तां तु वर्धमानां ममात्मजाम् ॥ १.६६.१५ ॥

我这女儿,以勇力为聘礼,是非由胎中所生、而是从大地涌现的非胎生之女。对于这从大地涌现并成长的女儿,我立下了这个条件。

1.66.16

वरयामासुरागत्य राजानो मुनिपुंगव।
तेषां वरयतां कन्यां सर्वेषां पृथिवीक्षिताम् ॥ १.६६.१६ ॥

哦,最杰出的仙人!诸王前来请求娶她为妻。大地上所有的那些统治者都求娶那位少女。

1.66.17

वीर्यशुल्केति भगवन् न ददामि सुतामहम्।
ततः सर्वे नृपतयः समेत्य मुनिपुंगव ॥ १.६६.१७ ॥

我说“她以勇力为聘礼”,尊者啊,我不把女儿嫁出。于是,最杰出的仙人啊,那些诸王聚集在一起。

1.66.18

मिथिलामप्युपागम्य वीर्यं जिज्ञासवस्तदा।
तेषां जिज्ञासमानानां शैवं धनुरुपाहृतम् ॥ १.६६.१८ ॥

他们甚至来到了弥提罗,想要知道他的勇力;于是,为了那些想要试验勇力的人,湿婆之弓被拿了出来。

1.66.19

न शेकुर्ग्रहणे तस्य धनुषस्तोलनेऽपि वा।
तेषां वीर्यवतां वीर्यमल्पं ज्ञात्वा महामुने ॥ १.६६.१९ ॥

大仙啊,他们连那张弓都无法举起或拉开。得知那些勇士的力量微弱之后,

1.66.20

प्रत्याख्याता नृपतयस्तन्निबोध तपोधन।
ततः परमकोपेन राजानो मुनिपुंगव ॥ १.६६.२० ॥

苦行者啊,那些国王遭到了拒绝,请您明白这一点。那时,诸位仙中之尊啊,国王们怒不可遏,

1.66.21

अरुन्धन् मिथिलां सर्वे वीर्यसंदेहमागताः।
आत्मानमवधूतं मे विज्ञाय नृपपुंगवाः ॥ १.६६.२१ ॥

他们全都前来围困弥提罗城,对自身的勇力心存疑虑;他们得知我受到了羞辱,诸位王中之尊啊,

1.66.22

रोषेण महताविष्टाः पीडयन् मिथिलां पुरीम्।
ततः संवत्सरे पूर्णे क्षयं यातानि सर्वशः ॥ १.६६.२२ ॥

被巨大的愤怒所控制,他们折磨弥提罗城;随后一年期满,一切都全然毁灭,

1.66.23

साधनानि मुनिश्रेष्ठ ततोऽहं भृशदुःखितः।
ततो देवगणान् सर्वांस्तपसाहं प्रसादयम् ॥ १.६६.२३ ॥

仙中之尊啊,我的军队被摧毁,我深感悲痛;于是我以苦行之力,取悦了诸天神众,

1.66.24

ददुश्च परमप्रीताश्चतुरंगबलं सुराः।
ततो भग्ना नृपतयो हन्यमाना दिशो ययुः ॥ १.६६.२४ ॥

诸神大悦,赐予了四军之师;于是诸王溃败、被打击,向四方逃散,

1.66.25

अवीर्या वीर्यसंदिग्धाः सामात्याः पापकारिणः।
तदेतन्मुनिशार्दूल धनुः परमभास्वरम् ॥ १.६६.२५ ॥

众仙中的猛虎啊,那些无力、对自身力量犹疑的邪恶君王及其大臣们都无法举起它;此弓极其光亮。

1.66.26

रामलक्ष्मणयोश्चापि दर्शयिष्यामि सुव्रत।
यद्यस्य धनुषो रामः कुर्यादारोपणं मुने।
सुतामयोनिजां सीतां दद्यां दाशरथेरहम् ॥ १.६६.२६ ॥

持善誓者啊,我也将把它展示给罗摩和罗什曼那。圣者啊,若罗摩能将此弓拉上弦,我便将我非胎生的女儿悉多嫁给十车王之子罗摩。