Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 1.69

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.69.1

ततो रात्र्यां व्यतीतायां सोपाध्यायः सबान्धवः।
राजा दशरथो हृष्टः सुमन्त्रमिदमब्रवीत् ॥ १.६९.१ ॥

夜晚过去之后,喜悦的国王十车王与师长和亲族一同对苏曼陀罗说了这番话。

1.69.2

अद्य सर्वे धनाध्यक्षा धनमादाय पुष्कलम्।
व्रजन्त्वग्रे सुविहिता नानारत्नसमन्विताः ॥ १.६९.२ ॥

今日,所有库务官携带丰厚的财富,有序地并佩带各种珍宝,走在前面。

1.69.3

चतुरंगबलं चापि शीघ्रं निर्यातु सर्वशः।
ममाज्ञासमकालं च यानं युग्यमनुत्तमम् ॥ १.६९.३ ॥

四军也应与我的命令同时迅速全部出发,并套上最好的车驾。

1.69.4

वसिष्ठो वामदेवश्च जाबालिरथ कश्यपः।
मार्कण्डेयस्तु दीर्घायुर्ऋषिः कात्यायनस्तथा ॥ १.६९.४ ॥

婆舍吒、婆摩提婆、阇跋离、迦叶波,长寿仙人摩根德耶,以及迦旃延亦在其中。

1.69.5

एते द्विजाः प्रयान्त्वग्रे स्यन्दनं योजयस्व मे।
यथा कालात्ययो न स्याद् दूता हि त्वरयन्ति माम् ॥ १.६९.५ ॥

这些再生婆罗门先行;为我套好车驾,以免耽误,因为使者催促我。

1.69.6

वचनाच्च नरेन्द्रस्य सेना च चतुरंगिणी।
राजानमृषिभिः सार्धं व्रजन्तं पृष्ठतोऽन्वयात् ॥ १.६९.६ ॥

依国王之命,四军也从后跟随正与仙人们同行的国王。

1.69.7

गत्वा चतुरहं मार्गं विदेहानभ्युपेयिवान्।
राजा च जनकः श्रीमान् श्रुत्वा पूजामकल्पयत् ॥ १.६९.७ ॥

走了四天路程,他们抵达了毗提诃国。光辉的国王遮那迦听闻此事,便安排了迎接的礼仪。

1.69.8

ततो राजानमासाद्य वृद्धं दशरथं नृपम्।
मुदितो जनको राजा प्रहर्षं परमं ययौ ॥ १.६९.८ ॥

随后,遮那迦王来到年迈的十车王面前,心中欢喜,极为喜悦。

1.69.9

उवाच वचनं श्रेष्ठो नरश्रेष्ठं मुदान्वितम्।
स्वागतं ते नरश्रेष्ठ दिष्ट्या प्राप्तोऽसि राघव ॥ १.६९.९ ॥

贤能的遮那迦满心欢喜,对人中之杰十车王说道:"人中之杰,罗怙之裔,欢迎您!幸运的是您已经到来。"

1.69.10

पुत्रयोरुभयोः प्रीतिं लप्स्यसे वीर्यनिर्जिताम्।
दिष्ट्या प्राप्तो महातेजा वसिष्ठो भगवानृषिः ॥ १.६९.१० ॥

您将从两个儿子那里获得由他们的英勇所赢得的爱戴。幸运的是,大光明、尊贵的仙人伐悉瑟也已到来。

1.69.11

सह सर्वैर्द्विजश्रेष्ठैर्देवैरिव शतक्रतुः।
दिष्ट्या मे निर्जिता विघ्ना दिष्ट्या मे पूजितं कुलम् ॥ १.६९.११ ॥

如同百祀之因陀罗与诸天同来,他与所有最优秀的再生者一同到来。幸运的是,我的障碍已被克服;幸运的是,我的家族受到了尊崇。

1.69.12

राघवैः सह सम्बन्धाद् वीर्यश्रेष्ठैर्महाबलैः।
श्वः प्रभाते नरेन्द्र त्वं संवर्तयितुमर्हसि ॥ १.६९.१२ ॥

借着与罗怙家族这些以勇武超群、力量强大著称的人结为姻亲,人主啊,您明日黎明时便应当完成这项仪式。

1.69.13

यज्ञस्यान्ते नरश्रेष्ठ विवाहमृषिसत्तमैः।
तस्य तद् वचनं श्रुत्वा ऋषिमध्ये नराधिपः ॥ १.६९.१३ ॥

人中之最啊!祭祀终了时,诸位最优秀的仙人谈及婚事。国王听了他们的话,在众仙人之中——

1.69.14

वाक्यं वाक्यविदां श्रेष्ठः प्रत्युवाच महीपतिम्।
प्रतिग्रहो दातृवशः श्रुतमेतन्मया पुरा ॥ १.६९.१४ ॥

精通言辞者中最优秀的人回答地上之主说:“接受布施取决于施者;这件事我以前听过。”

1.69.15

यथा वक्ष्यसि धर्मज्ञ तत् करिष्यामहे वयम्।
तद् धर्मिष्ठं यशस्यं च वचनं सत्यवादिनः ॥ १.६९.१५ ॥

“精通法义者啊,您怎么说,我们就怎么做。”那位说真话的人的话,最合乎法,也能带来美名。

1.69.16

श्रुत्वा विदेहाधिपतिः परं विस्मयमागतः।
ततः सर्वे मुनिगणाः परस्परसमागमे ॥ १.६९.१६ ॥

听了这话,毗提诃之主大为惊异。于是,诸位仙人群在彼此相会之中,

1.69.17

हर्षेण महता युक्तास्तां रात्रिमवसन् सुखम्।
अथ रामो महातेजा लक्ष्मणेन समं ययौ ॥ १.६९.१७ ॥

众仙人满怀大喜,安乐地度过了那一夜。随后,大光明的罗摩与罗什曼那一同离去。

1.69.18

विश्वामित्रं पुरस्कृत्य पितुः पादावुपस्पृशन्।
राजा च राघवौ पुत्रौ निशाम्य परिहर्षितः ॥ १.६९.१८ ॥

罗摩与罗什曼那以毗首跋多罗为前导,触摸父亲的双足;国王见到他的两个罗怙后裔之子,大为欢喜。

1.69.19

उवास परमप्रीतो जनकेनाभिपूजितः।
जनकोऽपि महातेजाः क्रिया धर्मेण तत्त्ववित्।
यज्ञस्य च सुताभ्यां च कृत्वा रात्रिमुवास ह ॥ १.६९.१९ ॥

他极为欢喜,受到遮那迦的敬重,便留在那里。遮那迦亦是大光辉者、通晓真理之人,依法完成祭祀仪式后,与两个儿子共度了那一夜。