蚁垤《罗摩衍那》 · 篇 1.70
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.70.1
ततः प्रभाते जनकः कृतकर्मा महर्षिभिः।
उवाच वाक्यं वाक्यज्ञः शतानन्दं पुरोहितम् ॥ १.७०.१ ॥
黎明时分,完成祭仪的遮那伽在大仙们面前,对精通言辞的家族祭司舍陀难陀说了这番话。
1.70.2
भ्राता मम महातेजा वीर्यवानतिधार्मिकः।
कुशध्वज इति ख्यातः पुरीमध्यवसच्छुभाम् ॥ १.७०.२ ॥
我的兄弟大放光辉、力量强大、极为正直,名为俱舍陀婆,居住在一座美丽的城市中。
1.70.3
वार्याफलकपर्यन्तां पिबन्निक्षुमतीं नदीम्।
सांकाश्यां पुण्यसंकाशां विमानमिव पुष्पकम् ॥ १.७०.३ ॥
萨犍奢城以护城壕的城墙为界,饮着甘蔗河的水,光辉如功德,宛如天车普须波迦。
1.70.4
तमहं द्रष्टुमिच्छामि यज्ञगोप्ता स मे मतः।
प्रीतिं सोऽपि महातेजा इमां भोक्ता मया सह ॥ १.७०.४ ॥
我想见他;他被认为是祭祀的守护者。愿这位大光辉者也与我一同享受这份喜悦。
1.70.5
एवमुक्ते तु वचने शतानन्दस्य संनिधौ।
आगताः केचिदव्यग्रा जनकस्तान् समादिशत् ॥ १.७०.५ ॥
在舍陀难陀面前说出这番话后,几位沉稳的使者前来,遮那伽便向他们下达了命令。
1.70.6
शासनात् तु नरेन्द्रस्य प्रययुः शीघ्रवाजिभिः।
समानेतुं नरव्याघ्रं विष्णुमिन्द्राज्ञया यथा ॥ १.७०.६ ॥
依国王之命,他们乘快马出发,要把人中之虎接来,如同因因陀罗之命去召唤毗湿奴一般。
1.70.7
सांकाश्यां ते समागम्य ददृशुश्च कुशध्वजम्।
न्यवेदयन् यथावृत्तं जनकस्य च चिन्तितम् ॥ १.७०.७ ॥
他们到达桑卡希雅,见到俱舍陀瓦伽,如实禀告了所发生之事以及遮那迦的心意。
1.70.8
तद्वृत्तं नृपतिः श्रुत्वा दूतश्रेष्ठैर्महाजवैः।
आज्ञया तु नरेन्द्रस्य आजगाम कुशध्वजः ॥ १.७०.८ ॥
国王听闻这一情况后,借最迅捷的优秀使者之力,遵照君主的命令,俱舍陀瓦伽来到了。
1.70.9
स ददर्श महात्मानं जनकं धर्मवत्सलम्।
सोऽभिवाद्य शतानन्दं जनकं चातिधार्मिकम् ॥ १.७०.९ ॥
他见到了心胸宽广、热爱法的遮那迦;他向舍塔难陀和极其虔诚的遮那迦行礼致敬。
1.70.10
राजार्हं परमं दिव्यमासनं सोऽध्यरोहत।
उपविष्टावुभौ तौ तु भ्रातरावमितद्युती ॥ १.७०.१० ॥
他登上了适合国王的至高神圣宝座;两位光芒无量的兄弟便坐下了。
1.70.11
प्रेषयामासतुर्वीरौ मन्त्रिश्रेष्ठं सुदामनम्।
गच्छ मन्त्रिपते शीघ्रमिक्ष्वाकुममितप्रभम् ॥ १.७०.११ ॥
两位英雄派遣首席大臣苏达曼说:「大臣之主啊,快去见光芒无量的伊刹婆伽后裔。」
1.70.12
आत्मजैः सह दुर्धर्षमानयस्व समन्त्रिणम्।
औपकार्यां स गत्वा तु रघूणां कुलवर्धनम् ॥ १.७०.१२ ॥
「请把这位难以战胜的君主连同他的儿子和大臣一起带来。」他前往奥伯卡利亚,来到了光大罗古家族的人面前。
1.70.13
ददर्श शिरसा चैनमभिवाद्येदमब्रवीत्।
अयोध्याधिपते वीर वैदेहो मिथिलाधिपः ॥ १.७०.१३ ॥
他看见他,低头致礼,说道:阿逾陀之主啊,英雄!米提罗之主、毗提诃国王(这样说)。
1.70.14
स त्वां द्रष्टुं व्यवसितः सोपाध्यायपुरोहितम्।
मन्त्रिश्रेष्ठवचः श्रुत्वा राजा सर्षिगणस्तथा ॥ १.७०.१४ ॥
他已决定前来与您相见。国王听了首席大臣的话后,也与导师、家族祭司及众仙人一同(准备前来)。
1.70.15
सबन्धुरगमत् तत्र जनको यत्र वर्तते।
राजा च मन्त्रिसहितः सोपाध्यायः सबान्धवः ॥ १.७०.१५ ॥
他与亲族一同前往遮那迦所在之处。国王也与大臣、导师及亲族一同(前往那里)。
1.70.16
वाक्यं वाक्यविदां श्रेष्ठो वैदेहमिदमब्रवीत्।
विदितं ते महाराज इक्ष्वाकुकुलदैवतम् ॥ १.७०.१६ ॥
最善言辞者对毗提诃王说道:大王啊,您是知道伊刹婆伽族之神的。
1.70.17
वक्ता सर्वेषु कृत्येषु वसिष्ठो भगवानृषिः।
विश्वामित्राभ्यनुज्ञातः सह सर्वैर्महर्षिभिः ॥ १.७०.१७ ॥
凡事由尊贵的仙人婆私陀发言,经憍尸迦及诸大仙允许。
1.70.18
एष वक्ष्यति धर्मात्मा वसिष्ठो मे यथाक्रमम्।
तूष्णींभूते दशरथे वसिष्ठो भगवानृषिः ॥ १.७०.१८ ॥
此正法之心的婆私陀将依次为我发言。十车王默然之时,尊贵的仙人婆私陀(开口说道)。
1.70.19
उवाच वाक्यं वाक्यज्ञो वैदेहं सपुरोधसम्।
अव्यक्तप्रभवो ब्रह्मा शाश्वतो नित्य अव्ययः ॥ १.७०.१९ ॥
精通言辞者对毗提诃王及其祭司说道:源于未显者的梵天,永恒、常住、不灭。
1.70.20
तस्मान्मरीचिः संजज्ञे मरीचेः कश्यपः सुतः।
विवस्वान् कश्यपाज्जज्ञे मनुर्वैवस्वतः स्मृतः ॥ १.७०.२० ॥
由他生出摩哩质(Marīci);由摩哩质生其子迦叶波(Kaśyapa)。由迦叶波生毗婆娑婆(Vivasvān),毗婆娑婆之子即被称为毗婆娑婆多摩奴(Manu Vaivasvata)。
1.70.21
मनुः प्रजापतिः पूर्वमिक्ष्वाकुश्च मनोः सुतः।
तमिक्ष्वाकुमयोध्यायां राजानं विद्धि पूर्वकम् ॥ १.७०.२१ ॥
摩奴是众生之主,伊刹婆迦(Ikṣvāku)是摩奴之子。应当知道,伊刹婆迦是阿逾陀最初的国王。
1.70.22
इक्ष्वाकोस्तु सुतः श्रीमान् कुक्षिरित्येव विश्रुतः।
कुक्षेरथात्मजः श्रीमान् विकुक्षिरुदपद्यत ॥ १.७०.२२ ॥
伊刹婆迦的光荣之子以库克希(Kukṣi)之名闻名。库克希之子光荣的毗库克希(Vikukṣi)诞生。
1.70.23
विकुक्षेस्तु महातेजा बाणः पुत्रः प्रतापवान्।
बाणस्य तु महातेजा अनरण्यः प्रतापवान् ॥ १.७०.२३ ॥
毗库克希之子是光辉伟大、威力强盛的巴那(Bāṇa)。巴那之子、光辉伟大、威力强盛的是阿那兰耶(Anaraṇya)。
1.70.24
अनरण्यात् पृथुर्जज्ञे त्रिशङ्कुस्तु पृथोरपि।
त्रिशङ्कोरभवत् पुत्रो धुन्धुमारो महायशाः ॥ १.७०.२४ ॥
阿那兰耶生普利图(Pṛthu),普利图生特利商古(Triśaṅku)。特利商古之子是大名闻的敦度摩罗(Dhundhumāra)。
1.70.25
धुन्धुमारान्महातेजा युवनाश्वो महारथः।
युवनाश्वसुतश्चासीन्मान्धाता पृथिवीपतिः ॥ १.७०.२५ ॥
从 Dhundhumāra 生出了大光明、大战车武士 Yuvanāśva;Yuvanāśva 之子是大地之主 Māndhātā。
1.70.26
मान्धातुस्तु सुतः श्रीमान् सुसन्धिरुदपद्यत।
सुसन्धेरपि पुत्रौ द्वौ ध्रुवसन्धिः प्रसेनजित् ॥ १.७०.२६ ॥
Māndhātā 之子是光荣的 Susandhi;Susandhi 有两个儿子,Dhruvasandhi 与 Prasenajit。
1.70.27
यशस्वी ध्रुवसन्धेस्तु भरतो नाम नामतः।
भरतात् तु महातेजा असितो नाम जायत ॥ १.७०.२७ ॥
著名的 Dhruvasandhi 有一子名为 Bharata;从 Bharata 生出了大光明的 Asita。
1.70.28
यस्यैते प्रतिराजान उदपद्यन्त शत्रवः।
हैहयास्तालजङ्घाश्च शूराश्च शशबिन्दवः ॥ १.७०.२८ ॥
与他为敌而兴起的诸对手王是:Haihaya、Tālajaṅgha,以及勇猛的 Śaśabindu 诸族。
1.70.29
तांश्च स प्रतियुध्यन् वै युद्धे राजा प्रवासितः।
हिमवन्तमुपागम्य भार्याभ्यां सहितस्तदा ॥ १.७०.२९ ॥
他在战中抵抗他们,国王被驱逐流亡;于是他带着两位妻子前往喜马拉雅山。
1.70.30
असितोऽल्पबलो राजा कालधर्ममुपेयिवान्।
द्वे चास्य भार्ये गर्भिण्यौ बभूवतुरिति श्रुतिः ॥ १.७०.३० ॥
力量薄弱的国王 Asita 走向了时间之法(即死亡);据传他的两位妻子都已怀孕。
1.70.31
एका गर्भविनाशार्थं सपत्न्यै सगरं ददौ।
ततः शैलवरे रम्ये बभूवाभिरतो मुनिः ॥ १.७०.३१ ॥
一人将萨伽拉交给她的同伴以毁灭胚胎。随后,这位圣人在一座美丽的上好山上欣然居住。
1.70.32
भार्गवश्च्यवनो नाम हिमवन्तमुपाश्रितः।
तत्र चैका महाभागा भार्गवं देववर्चसम् ॥ १.७०.३२ ॥
婆利古之后裔名为车耶那的圣人依止于喜马拉雅。那里一位极有福德的女子见到了如天神般光辉的婆尔伽瓦。
1.70.33
ववन्दे पद्मपत्राक्षी कांक्षन्ती सुतमुत्तमम्।
तमृषिं साभ्युपागम्य कालिन्दी चाभ्यवादयत् ॥ १.७०.३३ ॥
眼如莲花瓣的她渴望一个优秀的儿子,向他行礼。卡林迪走近那位圣人,向他致敬。
1.70.34
स तामभ्यवदद् विप्रः पुत्रेप्सुं पुत्रजन्मनि।
तव कुक्षौ महाभागे सुपुत्रः सुमहाबलः ॥ १.७०.३४ ॥
那位婆罗门圣人对渴望儿子的她说:“啊,大福之人,你腹中有一个好儿子,极其强大。”
1.70.35
महावीर्यो महातेजा अचिरात् संजनिष्यति।
गरेण सहितः श्रीमान् मा शुचः कमलेक्षणे ॥ १.७०.३५ ॥
他,大勇猛、大光辉的,不久将诞生,伴随毒物,那位荣耀者。莲花眼的人啊,不要悲伤。
1.70.36
च्यवनं च नमस्कृत्य राजपुत्री पतिव्रता।
पत्या विरहिता तस्मात् पुत्रं देवी व्यजायत ॥ १.७०.३६ ॥
向车耶那致敬之后,这位对丈夫忠贞、与丈夫分离的王女,便生下了一个儿子,那位王后。
1.70.37
सपत्न्या तु गरस्तस्यै दत्तो गर्भजिघांसया।
सह तेन गरेणैव संजातः सगरोऽभवत् ॥ १.७०.३७ ॥
然而,一位妾室想要杀死胎儿,便给她下了毒。他正是伴随着那毒药而出生,并名为萨伽罗。
1.70.38
सगरस्यासमञ्जस्तु असमञ्जादथांशुमान्।
दिलीपोंऽशुमतः पुत्रो दिलीपस्य भगीरथः ॥ १.७०.३८ ॥
萨伽罗之子是阿萨曼迦;阿萨曼迦之子是阿恭曼。阿恭曼之子是迪利波,迪利波之子是跋伽罗陀。
1.70.39
भगीरथात् ककुत्स्थश्च ककुत्स्थाच्च रघुस्तथा।
रघोस्तु पुत्रस्तेजस्वी प्रवृद्धः पुरुषादकः ॥ १.७०.३९ ॥
跋伽罗陀之子是迦吉斯特ha,迦吉斯特ha之子是罗怙。罗怙那光辉的儿子长大后成为食人者。
1.70.40
कल्माषपादोऽप्यभवत् तस्माज्जातस्तु शङ्खणः।
सुदर्शनः शङ्खणस्य अग्निवर्णः सुदर्शनात् ॥ १.७०.४० ॥
他之后又有迦尔玛沙跋陀;从他生出尚卡那。尚卡那之子是苏达尔莎那,苏达尔莎那之子是阿耆尼跋尔那。
1.70.41
शीघ्रगस्त्वग्निवर्णस्य शीघ्रगस्य मरुः सुतः।
मरोः प्रशुश्रुकस्त्वासीदम्बरीषः प्रशुश्रुकात् ॥ १.७०.४१ ॥
阿耆尼跋尔那之子是湿祗迦,湿祗迦之子是摩如。摩如之子是普罗舒鲁迦,普罗舒鲁迦之子是安跋利沙。
1.70.42
अम्बरीषस्य पुत्रोऽभून्नहुषश्च महीपतिः।
नहुषस्य ययातिस्तु नाभागस्तु ययातिजः ॥ १.७०.४२ ॥
安跋利沙之子是那呼沙,他是大地之主。那呼沙之子是耶耶提,耶耶提之子是那跋伽。
1.70.43
नाभागस्य बभूवाज अजाद् दशरथोऽभवत्।
अस्माद् दशरथाज्जातौ भ्रातरौ रामलक्ष्मणौ ॥ १.७०.४३ ॥
那婆伽生阿阇;阿阇生十车王。从这位十车王,生出两位兄弟,罗摩与罗什曼那。
1.70.44
आदिवंशविशुद्धानां राज्ञां परमधर्मिणाम्।
इक्ष्वाकुकुलजातानां वीराणां सत्यवादिनाम् ॥ १.७०.४४ ॥
那些以古老世系而清净、极为守法、生于甘蔗王族的英雄、诚实不欺的君王。
1.70.45
रामलक्ष्मणयोरर्थे त्वत्सुते वरये नृप।
सदृशाभ्यां नरश्रेष्ठ सदृशे दातुमर्हसि ॥ १.७०.४५ ॥
君王啊,为了罗摩与罗什曼那,我求娶您的两个儿子。人中之最,您应当把相称之人,许配给这两位相称的人。