ヴァールミーキのラーマーヤナ · サルガ 1.72
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.72.1
तमुक्तवन्तं वैदेहं विश्वामित्रो महामुनिः।
उवाच वचनं वीरं वसिष्ठसहितो नृपम् ॥ १.७२.१ ॥
ヴィデーハの王がそう言ったとき、偉大な聖仙ヴィシュヴァーミトラは、ヴァシシタとともに、その勇猛な王にこの言葉を告げた。
1.72.2
अचिन्त्यान्यप्रमेयाणि कुलानि नरपुंगव।
इक्ष्वाकूणां विदेहानां नैषां तुल्योऽस्ति कश्चन ॥ १.७२.२ ॥
人中の雄よ、イクシュヴァークの系譜もヴィデーハの系譜も、思いも及ばず、計り知れない。彼らに並ぶ者はいない。
1.72.3
सदृशो धर्मसम्बन्धः सदृशो रूपसम्पदा।
रामलक्ष्मणयो राजन् सीता चोर्मिलया सह ॥ १.७२.३ ॥
王よ、このダルマにかなった縁は相応しく、美貌の富も相応しい。ラーマとラクシュマナにはシーターとウールミラーがふさわしい。
1.72.4
वक्तव्यं च नरश्रेष्ठ श्रूयतां वचनं मम।
भ्राता यवीयान् धर्मज्ञ एष राजा कुशध्वजः ॥ १.७२.४ ॥
人中の英雄よ、私の言葉を聞け。ダルマに通じたこの王クシャドヴァジャは、あなたの弟である。
1.72.5
अस्य धर्मात्मनो राजन् रूपेणाप्रतिमं भुवि।
सुताद्वयं नरश्रेष्ठ पत्न्यर्थं वरयामहे ॥ १.७२.५ ॥
王よ、この義にかなった人には、地上に並ぶもののない美しさの娘が二人いる。人中の英雄よ、私たちは妻としてその二人を求める。
1.72.6
भरतस्य कुमारस्य शत्रुघ्नस्य च धीमतः।
वरये ते सुते राजंस्तयोरर्थे महात्मनोः ॥ १.७२.६ ॥
王よ、偉大な心を持つ賢明な王子バラタとシャトルグナのために、私はあなたの二人の娘を求める。
1.72.7
पुत्रा दशरथस्येमे रूपयौवनशालिनः।
लोकपालसमाः सर्वे देवतुल्यपराक्रमाः ॥ १.७२.७ ॥
これらはみなダシャラタの息子たちで、美しさと若さに恵まれ、世界守護神に等しく、その武勇は神々に等しい。
1.72.8
उभयोरपि राजेन्द्र सम्बन्धेनानुबध्यताम्।
इक्ष्वाकुकुलमव्यग्रं भवतः पुण्यकर्मणः ॥ १.७२.८ ॥
王の中の王よ、両家の縁が結ばれますように。功徳ある行いをなさるあなたの家系と、イクシュヴァーク家が揺るぎなく結ばれますように。
1.72.9
विश्वामित्रवचः श्रुत्वा वसिष्ठस्य मते तदा।
जनकः प्राञ्जलिर्वाक्यमुवाच मुनिपुंगवौ ॥ १.७२.९ ॥
ヴィシュヴァーミトラの言葉を聞き、ヴァシシタの同意を得て、そのときジャナカは合掌して、この二人の最上の聖仙に語った。
1.72.10
कुलं धन्यमिदं मन्ये येषां तौ मुनिपुंगवौ।
सदृशं कुलसम्बन्धं यदाज्ञापयतः स्वयम् ॥ १.७२.१० ॥
この家系は幸いだと私は思います。最上の聖仙であるあなた方お二人ご自身が、このふさわしい縁組を命じてくださるのですから。
1.72.11
एवं भवतु भद्रं वः कुशध्वजसुते इमे।
पत्न्यौ भजेतां सहितौ शत्रुघ्नभरतावुभौ ॥ १.७२.११ ॥
そのようになりますように、あなた方に幸いあれ。この二人はクシャドヴァジャの娘たちです。シャトルグナとバラタが共に彼女らを妻として迎えますように。
1.72.12
एकाह्ना राजपुत्रीणां चतसॄणां महामुने।
पाणीन् गृह्णन्तु चत्वारो राजपुत्रा महाबलाः ॥ १.७२.१२ ॥
偉大なる聖仙よ、同じ日に、四人の力強き王子が四人の王女の手をとりますように。
1.72.13
उत्तरे दिवसे ब्रह्मन् फल्गुनीभ्यां मनीषिणः।
वैवाहिकं प्रशंसन्ति भगो यत्र प्रजापतिः ॥ १.७२.१३ ॥
ブラフマンよ、その翌日、二つのプールヴァ・プラルグニー星宿の下で、賢者たちは婚礼の儀式を称賛する。そこにはバガとプラジャーパティがいる。
1.72.14
एवमुक्त्वा वचः सौम्यं प्रत्युत्थाय कृताञ्जलिः।
उभौ मुनिवरौ राजा जनको वाक्यमब्रवीत् ॥ १.७२.१४ ॥
このように穏やかな言葉を述べて、ジャナカは立ち上がり、合掌して二人の優れた聖仙にこう言った。
1.72.15
परो धर्मः कृतो मह्यं शिष्योऽस्मि भवतोस्तथा।
इमान्यासनमुख्यानि आस्यतां मुनिपुंगवौ ॥ १.७२.१५ ॥
あなた方の来訪により、私の最高の義務は果たされました。私はお二人の弟子です。これらは上等の座席です。最も優れた聖仙たちよ、お座りください。
1.72.16
यथा दशरथस्येयं तथायोध्या पुरी मम।
प्रभुत्वे नास्ति संदेहो यथार्हं कर्तुमर्हथ ॥ १.७२.१६ ॥
これがダシャラタのものであるように、私のアヨーディヤーの都もまたそうです。その支配権に疑いはありません。ふさわしいことをなさってください。
1.72.17
तथा ब्रुवति वैदेहे जनके रघुनन्दनः।
राजा दशरथो हृष्टः प्रत्युवाच महीपतिम् ॥ १.७२.१७ ॥
ヴァイデーハ王ジャナカがこのように語っていると、ラグ族の喜びであるダシャラタ王は喜んで、大地の主ジャナカに答えた。
1.72.18
युवामसंख्येयगुणौ भ्रातरौ मिथिलेश्वरौ।
ऋषयो राजसङ्घाश्च भवद्भ्यामभिपूजिताः ॥ १.७२.१८ ॥
お二人の兄弟は数え切れない徳を持つ、ミティラーの主です。あなた方によって聖仙たちと王の群れは敬われました。
1.72.19
स्वस्ति प्राप्नुहि भद्रं ते गमिष्यामः स्वमालयम्।
श्राद्धकर्माणि विधिवद्विधास्य इति चाब्रवीत् ॥ १.७२.१९ ॥
あなた方に安寧と幸運がありますように。私たちは自分の住まいへ帰り、規定どおりにシュラーッダの儀礼を行いましょう、と彼は言った。
1.72.20
तमापृष्ट्वा नरपतिं राजा दशरथस्तदा।
मुनीन्द्रौ तौ पुरस्कृत्य जगामाशु महायशाः ॥ १.७२.२० ॥
その時、大いなる名声のダシャラタ王は、その人の主(ジャナカ)に別れを告げ、二人の大聖者を前に立てて、すぐに出発した。
1.72.21
स गत्वा निलयं राजा श्राद्धं कृत्वा विधानतः।
प्रभाते काल्यमुत्थाय चक्रे गोदानमुत्तमम् ॥ १.७२.२१ ॥
その王は自分の住まいに帰り、規定どおりシュラーッダを行い、夜明けに起きて最高の牛の布施(ゴーダーナ)を行った。
1.72.22
गवां शतसहस्रं च ब्राह्मणेभ्यो नराधिपः।
एकैकशो ददौ राजा पुत्रानुद्दिश्य धर्मतः ॥ १.७२.२२ ॥
人の主は、息子たちのためにダルマに従って、バラモンたち一人ひとりに十万頭の牛を施した。
1.72.23
सुवर्णशृङ्ग्यः सम्पन्नाः सवत्साः कांस्यदोहनाः।
गवां शतसहस्राणि चत्वारि पुरुषर्षभः ॥ १.७२.२३ ॥
人の中の最上の者は、金の角を持ち、子牛を伴い、青銅の搾乳器を備えた四十万頭の牛を施した。
1.72.24
वित्तमन्यच्च सुबहु द्विजेभ्यो रघुनन्दनः।
ददौ गोदानमुद्दिश्य पुत्राणां पुत्रवत्सलः ॥ १.७२.२४ ॥
ラグの末裔の喜び(ラーマの父)は、再生族(バラモン)に他にも多くの財を与えた。息子たちのために牛の布施を行った、息子を愛する王である。
1.72.25
स सुतैः कृतगोदानैर्वृतः सन्नृपतिस्तदा।
लोकपालैरिवाभाति वृतः सौम्यः प्रजापतिः ॥ १.७२.२५ ॥
ゴーダーナの儀式を終えた息子たちに囲まれた王は、そのとき世界守護神たちに囲まれた穏やかなプラジャーパティのように輝いていた。