Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 1.74

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

1.74.1

अथ रात्र्यां व्यतीतायां विश्वामित्रो महामुनिः।
आपृष्ट्वा तौ च राजानौ जगामोत्तरपर्वतम् ॥ १.७४.१ ॥

夜晚过去后,大仙人毗首弥多罗向两位国王告别,前往北方的山岳。

1.74.2

विश्वामित्रे गते राजा वैदेहं मिथिलाधिपम्।
आपृष्ट्वैव जगामाशु राजा दशरथः पुरीम् ॥ १.७४.२ ॥

毗首弥多罗离去后,十车王向弥提罗之主、毗提诃王告别,随即快速返回自己的城市。

1.74.3

अथ राजा विदेहानां ददौ कन्याधनं बहु।
गवां शतसहस्राणि बहूनि मिथिलेश्वरः ॥ १.७४.३ ॥

于是,毗提诃人的国王、弥提罗之主赠予大量嫁妆,包括数十万头牛和许多其他财物。

1.74.4

कम्बलानां च मुख्यानां क्षौमान् कोट्यम्बराणि च।
हस्त्यश्वरथपादातं दिव्यरूपं स्वलंकृतम् ॥ १.७४.४ ॥

他还赠予上等毛毯、丝绸织物和千万件衣裳,以及大象、马匹、战车和步兵,这些都仪容如神、装饰华美。

1.74.5

ददौ कन्याशतं तासां दासीदासमनुत्तमम्।
हिरण्यस्य सुवर्णस्य मुक्तानां विद्रुमस्य च ॥ १.७४.५ ॥

他又赠予一百名少女、无双的男女仆役,以及黄金、精金、珍珠和珊瑚。

1.74.6

ददौ राजा सुसंहृष्टः कन्याधनमनुत्तमम्।
दत्त्वा बहुविधं राजा समनुज्ञाप्य पार्थिवम् ॥ १.७४.६ ॥

国王大为欢喜,赠予无与伦比的嫁妆;赠送种种礼物之后,他向另一位国王告别。

1.74.7

प्रविवेश स्वनिलयं मिथिलां मिथिलेश्वरः।
राजाप्ययोध्याधिपतिः सह पुत्रैर्महात्मभिः ॥ १.७४.७ ॥

弥提罗之主进入自己的住所弥提罗城,而阿逾陀之主国王则与他的伟大的儿子们一同离去。

1.74.8

ऋषीन् सर्वान् पुरस्कृत्य जगाम सबलानुगः।
गच्छन्तं तु नरव्याघ्रं सर्षिसङ्घं सराघवम् ॥ १.७४.८ ॥

他让诸位仙人走在前面,率领军队与随从出发;人中之虎罗怙之子则与仙人众一同前行。

1.74.9

घोरास्तु पक्षिणो वाचो व्याहरन्ति समन्ततः।
भौमाश्चैव मृगाः सर्वे गच्छन्ति स्म प्रदक्षिणम् ॥ १.७४.९ ॥

可怕的鸟儿四面鸣叫,地上的一切野兽都右绕而行。

1.74.10

तान् दृष्ट्वा राजशार्दूलो वसिष्ठं पर्यपृच्छत।
असौम्याः पक्षिणो घोरा मृगाश्चापि प्रदक्षिणाः ॥ १.७४.१० ॥

国王中的猛虎看到这些,便问婆私吒:"这些鸟儿不祥而可怕,野兽也右绕而行。"

1.74.11

किमिदं हृदयोत्कम्पि मनो मम विषीदति।
राज्ञो दशरथस्यैतच्छ्रुत्वा वाक्यं महानृषिः ॥ १.७४.११ ॥

"这是什么?使我心颤,我的心意也在消沉。"大仙听了国王十车王的这番话,

1.74.12

उवाच मधुरां वाणीं श्रूयतामस्य यत् फलम्।
उपस्थितं भयं घोरं दिव्यं पक्षिमुखाच्च्युतम् ॥ १.७४.१२ ॥

他以温和的声音说:"请听其兆:一种神圣而可怕的危险已经降临,从鸟的口中发出。"

1.74.13

मृगाः प्रशमयन्त्येते संतापस्त्यज्यतामयम्।
तेषां संवदतां तत्र वायुः प्रादुर्बभूव ह ॥ १.७४.१३ ॥

这些鹿正在安慰他;应当放下这份忧苦。他们在那里交谈时,风起了。

1.74.14

कम्पयन् मेदिनीं सर्वां पातयंश्च महाद्रुमान्।
तमसा संवृतः सूर्यः सर्वे नावेदिषुर्दिशः ॥ १.७४.१४ ॥

风摇撼整个大地,吹倒巨树。太阳被黑暗遮蔽,众人都辨不出方向。

1.74.15

भस्मना चावृतं सर्वं सम्मूढमिव तद्बलम्।
वसिष्ठ ऋषयश्चान्ये राजा च ससुतस्तदा ॥ १.७४.१५ ॥

一切都被灰烬覆盖,那支军队仿佛陷入迷乱。那时,婆private仙人、其他仙人以及与诸子同在的国王都在那里。

1.74.16

ससंज्ञा इव तत्रासन् सर्वमन्यद्विचेतनम्।
तस्मिंस्तमसि घोरे तु भस्मच्छन्नेव सा चमूः ॥ १.७४.१६ ॥

那里有些人似乎还清醒,其余的人都失去了知觉。在那可怕的黑暗中,那支军队仿佛被灰烬覆盖。

1.74.17

ददर्श भीमसंकाशं जटामण्डलधारिणम्।
भार्गवं जामदग्न्येयं राजा राजविमर्दनम् ॥ १.७४.१७ ॥

他看见了婆利古之后、遮摩达格尼之子,外貌可怖,头戴一圈纠结的发髻,乃是摧毁诸王者。

1.74.18

कैलासमिव दुर्धर्षं कालाग्निमिव दुःसहम्।
ज्वलन्तमिव तेजोभिर्दुर्निरीक्ष्यं पृथग्जनैः ॥ १.७४.१८ ॥

如凯拉萨山般难以接近,如死亡之火般难以忍受,仿佛因其光辉而燃烧,凡人难以直视。

1.74.19

स्कन्धे चासज्ज्य परशुं धनुर्विद्युद्गणोपमम्।
प्रगृह्य शरमुग्रं च त्रिपुरघ्नं यथा शिवम् ॥ १.७४.१९ ॥

肩上挂着斧头,手持如闪电群般的弓,并拿起一支猛烈的箭,如同毁灭三城的湿婆。

1.74.20

तं दृष्ट्वा भीमसंकाशं ज्वलन्तमिव पावकम्।
वसिष्ठप्रमुखा विप्रा जपहोमपरायणाः ॥ १.७४.२० ॥

看见他如同可怖而燃烧的烈火,以婆悉吒为首的婆罗门们,专注于诵咒与火祭。

1.74.21

संगता मुनयः सर्वे संजजल्पुरथो मिथः।
कच्चित् पितृवधामर्षी क्षत्रं नोत्सादयिष्यति ॥ १.७४.२१ ॥

聚集的众仙人彼此议论:因父亲被杀而愤怒的他,岂不会灭绝刹帝利族吗?

1.74.22

पूर्वं क्षत्रवधं कृत्वा गतमन्युर्गतज्वरः।
क्षत्रस्योत्सादनं भूयो न खल्वस्य चिकीर्षितम् ॥ १.७४.२२ ॥

他先前已诛杀刹帝利,怒气已消,热恼也已退去;他确实不再打算灭绝刹帝利族。

1.74.23

एवमुक्त्वार्घ्यमादाय भार्गवं भीमदर्शनम्।
ऋषयो राम रामेति मधुरं वाक्यमब्रुवन् ॥ १.७४.२३ ॥

说完这些,并手持敬献之礼,仙人们对形貌可怖的婆里固后裔以甜美之言说道:“罗摩啊,罗摩!”

1.74.24

प्रतिगृह्य तु तां पूजामृषिदत्तां प्रतापवान्।
रामं दाशरथिं रामो जामदग्न्योऽभ्यभाषत ॥ १.७४.२४ ॥

接受了仙人所奉的敬意之后,威猛的遮摩陀祢之子罗摩对十车王之子罗摩说道。