蚁垤《罗摩衍那》 · 篇 1.9
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
1.9.1
एतच्छ्रुत्वा रहः सूतो राजानमिदमब्रवीत् ।
श्रूयतां तत् पुरावृत्तं पुराणे च मया श्रुतम् ॥ १.९.१ ॥
苏多听后,私下对国王说:“请听那段我在往世书中所闻的古老传说。”
1.9.2
ऋत्विग्भिरुपदिष्टोऽयं पुरावृत्तो मया श्रुतः ।
सनत्कुमारो भगवान् पूर्वं कथितवान् कथाम् ॥ १.९.२ ॥
在祭司的指导下,我听闻了这段古老的传说。往昔,尊贵的萨纳特库玛拉曾讲述此故事。
1.9.3
ऋषीणां संनिधौ राजंस्तव पुत्रागमं प्रति ।
काश्यपस्य च पुत्रोऽस्ति विभाण्डक इति श्रुतः ॥ १.९.३ ॥
国王啊!在诸仙面前,谈到你诸子的降生时,有人说:迦叶波有一子,名为毗梵荼迦。
1.9.4
ऋश्यशृङ्ग इति ख्यातस्तस्य पुत्रो भविष्यति ।
स वने नित्यसंवृद्धो मुनिर्वनचरः सदा ॥ १.९.४ ॥
他的儿子将以鹿角仙之名闻名。他始终在森林中长大,将成为一位常在林间游走的仙人。
1.9.5
नान्यं जानाति विप्रेन्द्रो नित्यं पित्रनुवर्तनात् ।
द्वैविध्यं ब्रह्मचर्यस्य भविष्यति महात्मनः ॥ १.९.५ ॥
那位婆罗门中的尊者,因始终顺从父亲,将不知其他;而这位大德的梵行之中,将出现某种二元之分。
1.9.6
लोकेषु प्रथितं राजन् विप्रैश्च कथितं सदा ।
तस्यैवं वर्तमानस्य कालः समभिवर्तत ॥ १.९.६ ॥
国王啊,他在诸世间闻名,婆罗门们常常谈起——他如此生活着,时光流逝。
1.9.7
अग्निं शुश्रूषमाणस्य पितरं च यशस्विनम् ।
एतस्मिन्नेव काले तु रोमपादः प्रतापवान् ॥ १.९.७ ॥
正当他侍奉圣火和他那声名显赫的父亲之时,威力强大的罗摩波陀(在位)。
1.9.8
अङ्गेषु प्रथितो राजा भविष्यति महाबलः ।
तस्य व्यतिक्रमाद् राज्ञो भविष्यति सुदारुणा ॥ १.९.८ ॥
安伽国将出现一位闻名的大力之王;由于此王的违逆,将会降下极为可怕的灾祸。
1.9.9
अनावृष्टिः सुघोरा वै सर्वलोकभयावहा ।
अनावृष्ट्यां तु वृत्तायां राजा दुःखसमन्वितः ॥ १.९.९ ॥
将会出现极为可怕的干旱,使一切世界都陷入恐惧;干旱发生之时,国王将充满忧伤。
1.9.10
ब्राह्मणाञ्छ्रुतसंवृद्धान् समानीय प्रवक्ष्यति व ।
भवन्तः श्रुतकर्माणो लोकचारित्रवेदिनः ॥ १.९.१० ॥
国王召集通晓圣典的婆罗门,说道:“你们精通圣礼,熟知世间的规则。”
1.9.11
समादिशन्तु नियमं प्रायश्चित्तं यथा भवेत् ।
इत्युक्तास्ते ततो राज्ञा सर्वे ब्राह्मणसत्तमाः ॥ १.९.११ ॥
“请你们规定戒律与赎罪之法,好使此事得以纠正。”国王如此吩咐后,那些最优秀的婆罗门都将回答。
1.9.12
वक्ष्यन्ति ते महीपालं ब्राह्मणा वेदपारगाः ।
विभाण्डकसुतं राजन् सर्वोपायैरिहानय ॥ १.९.१२ ॥
那些精通吠陀的婆罗门将对国王说:“大王啊!请用一切办法把毗樊陀迦之子请到这里来。”
1.9.13
आनाय्य तु महीपाल ऋष्यशृङ्गं सुसत्कृतम् ।
विभाण्डकसुतं राजन् ब्राह्मणं वेदपारगम् ।
प्रयच्छ कन्यां शान्तां वै विधिना सुसमाहितः ॥ १.९.१३ ॥
护持大地的君王啊,请迎来备受尊敬的力角仙人,王啊,依照礼仪、全心专注地把少女尚塔嫁给婆罗门——毗婆羯多之子,精通吠陀的人。
1.9.14
तेषां तु वचनं श्रुत्वा राजा चिन्तां प्रपत्स्यते ।
केनोपायेन वै शक्यमिहानेतुं स वीर्यवान् ॥ १.९.१४ ॥
国王听了他们的话,便陷入忧虑:用什么方法才能把那位有大力量的人请到这里来呢?
1.9.15
ततो राजा विनिश्चित्य सह मन्त्रिभिरात्मवान् ।
पुरोहितममात्यांश्च प्रेषयिष्यति सत्कृतान् ॥ १.९.१५ ॥
于是,克制自持的国王与大臣商议定夺后,将派遣受到尊敬的家族祭司和谋臣前去。
1.9.16
ते तु राज्ञो वचः श्रुत्वा व्यथिता विनताननाः ।
न गच्छेम ऋषेर्भीता अनुनेष्यन्ति तं नृपम् ॥ १.९.१६ ॥
他们听了国王的话,满心忧惧,垂首低眉,说:“我们因畏惧仙人,不敢前往。”于是恳求那位国王。
1.9.17
वक्ष्यन्ति चिन्तयित्वा ते तस्योपायांश्च तान्क्षमान् ।
आनेष्यामो वयं विप्रं न च दोषो भविष्यति ॥ १.९.१७ ॥
他们思量之后,便说出适当的办法:“我们会把那位婆罗门带来,这样做不会有过失。”
1.9.18
एवमङ्गाधिपेनैव गणिकाभिर्ऋषेः सुतः ।
आनीतोऽवर्षयद् देवः शान्ता चास्मै प्रदीयते ॥ १.९.१८ ॥
就这样,在安伽国王和众妓女的帮助下,仙人之子被带来了;天神降下了雨,尚塔便被许配给了他。
1.9.19
ऋश्यशृङ्गस्तु जामाता पुत्रांस्तव विधास्यति ।
सनत्कुमारकथितमेतावद् व्याहृतं मया ॥ १.९.१९ ॥
Ṛśyaśṛṅga将成为你的女婿,并为你带来儿子。这就是我所转述的,乃是由Sanatkumāra所说。
1.9.20
अथ हृष्टो दशरथः सुमन्त्रं प्रत्यभाषत।
यथर्ष्यशृङ्गस्त्वानीतो येनोपायेन सोच्यताम् ॥ १.९.२० ॥
于是欢喜的十车王对苏曼特拉说:"请告诉我,Ṛśyaśṛṅga是用什么办法被带来的。"