蚁垤《罗摩衍那》 · 篇 2.105
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
2.105.1
ततः पुरुषसिंहानां वृतानां तैः सुहृद्गणैः ।
शोचतामेव रजनी दुःखेन व्यत्यवर्त्तत ॥ २.१०५.१ ॥
那时,众友环绕着这些如狮般的人,他们在悲痛中度过了那一夜。
2.105.2
रजन्यां सुप्रभातायां भ्रातरस्ते सुहृद्वृताः ।
मन्दाकिन्यां हुतं जप्यं कृत्वा राममुपागमन् ॥ २.१०५.२ ॥
夜尽黎明来临,兄弟们被朋友环绕,在曼达基尼河畔举行火祭与诵经之后,走近了罗摩。
2.105.3
तूष्णीं ते समुपासीना न कश्चित्किञ्चिदब्रवीत् ।
भरतस्तु सुहृन्मध्ये रामं वचनमब्रवीत् ॥ २.१०५.३ ॥
他们默然静坐,无人开口;唯有婆罗多在众友之中,对罗摩说出了这番话。
2.105.4
सान्त्विता मामिका माता दत्तं राज्यमिदं मम ।
तद्ददामि तवैवाहं भुङ्क्ष्व राज्यमकण्टकम् ॥ २.१०५.४ ॥
安慰了我的母亲之后,这王国被赐予了我;我现在把这同一王国交给你。请享有这无荆棘的王国。
2.105.5
महतेवाम्बुवेगेन भिन्नः सेतुर्जलागमे ।
दुरावारं त्वदन्येन राज्यखण्डमिदं महत् ॥ २.१०५.५ ॥
如同大水来临时,巨大的水势冲毁堤坝一般,这片广大的王国,除你之外无人能够守住,如今已经破裂了。
2.105.6
गतिं खर इवाश्वस्य तार्क्ष्यस्येव पतत्ऺित्रणः ।
अनुगन्तुं न शक्तिर्मे गतिं तव महीपते ॥ २.१०५.६ ॥
如同驴不能追上马的步伐,鸟类中也无人能追上迦噜荼的飞翔,同样,大地之主啊,我没有力量追随你的道路。
2.105.7
सुजीवं नित्यशस्तस्य यः परैरुपजीव्यते ।
राम तेन तु दुर्जीवं यः परानुपजीवति ॥ २.१०५.७ ॥
罗摩啊,被他人依靠的人生活容易;依靠他人的人生活艰难。
2.105.8
यथा तु रोपितो वृक्षः पुरुषेण विवर्द्धितः ।
ह्रस्वकेन दुरारोहो रूढस्कन्धो महाद्रुमः ॥ २.१०५.८ ॥
犹如人所栽种培育的树,长成主干粗壮的大树,身材矮小的人难以攀登,
2.105.9
स यथा पुष्पितो भूत्वा फलानि न विदर्शयेत् ।
स तां नानुभवेत्प्रीतिं यस्य हेतोः प्ररोपितः ॥ २.१०५.९ ॥
开花之后若不结果,栽种者便不能享受他为之栽种的那份喜悦。
2.105.10
एषोपमा महाबाहो तमर्थं वेत्तुमर्हसि ।
यदि त्वमस्मान् वृषभो भर्त्ता भृत्यान्न शाधि हि ॥ २.१०५.१० ॥
大臂者啊,你应当理解这个比喻:你作为我们的主人与保护者,若不统治我们这些仆人……
2.105.11
श्रेणयस्त्वां महाराज पश्यन्त्वग्र्याश्च सर्वशः ।
प्रतपन्तमिवादित्यं राज्ये स्थितमरिन्दमम् ॥ २.१०५.११ ॥
愿各行会与尊者处处见你,大王,你坐镇王国,如烈日般光耀,降伏敌人的人啊。
2.105.12
तवा ऽनुयाने काकुत्स्थ मत्ता नर्दन्तु कुञ्जराः ।
अन्तःपुरगता नार्यो नन्दन्तु सुसमाहिताः ॥ २.१०५.१२ ॥
愿你的队伍中醉象鸣吼,克迦恭史啊;愿后宫的女子心神安定,欢喜快乐。
2.105.13
तस्य साध्वित्यमन्यन्त नागरा विविधा जनाः ।
भरतस्य वचः श्रुत्वा रामं प्रत्यनुयाचतः ॥ २.१०५.१३ ॥
城中各色百姓听了婆罗多的话,认为他说得对,他正向罗摩恳求。
2.105.14
तमेवं दुःखितं प्रेक्ष्य विलपन्तं यशस्विनम् ।
रामः कृतात्मा भरतं समाश्वासय दात्मवान् ॥ २.१०५.१४ ॥
罗摩见光荣的婆罗多如此悲伤哀号,便以自持的心态安慰了他。
2.105.15
नात्मनः कामकारो ऽस्ति पुरुषो ऽयमनीश्वरः ।
इतश्चेतरतश्चैनं कृतान्तः परिकर्षति ॥ २.१०५.१५ ॥
人没有按自己意愿行事的自由;他无能为力,死神将他拖来拽去。
2.105.16
सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्रयाः ।
संयोगा विप्रयोगान्ता मरणान्तं च जीवितम् ॥ २.१०५.१६ ॥
一切积聚终归毁坏,一切高升终归跌落,一切聚合终归分离,生命终归死亡。
2.105.17
यथा फलानां पक्वानां नान्यत्र पतनाद्भयम् ।
एवं नरस्य जातस्य नान्यत्र मरणाद्भयम् ॥ २.१०५.१७ ॥
正如成熟的果实只怕坠落,出生的人只怕死亡。
2.105.18
यथागारं दृढस्थूणं जीर्णं भूत्वा ऽवसीदति ।
तथैव सीदन्ति नरा जरामृत्युवशङ्गताः ॥ २.१०५.१८ ॥
正如立着坚固柱子的房屋,年久失修便会倒塌,人们也同样陷入衰老与死亡的掌握而沉沦。
2.105.19
अत्येति रजनी या तु सा न प्रतिनिवर्त्तते ।
यात्येव यमुना पूर्णा समुद्रमुदकाकुलम् ॥ २.१०५.१९ ॥
逝去的夜晚不会回来;正如充满水的亚穆纳河奔流不息,流向大海。
2.105.20
अहोरात्राणि गच्छन्ति सर्वेषां प्राणिनामिह ।
आयूंषि क्षपयन्त्याशु ग्रीष्मे जलमिवांशवः ॥ २.१०५.२० ॥
此处一切众生的昼夜流逝;如同夏日阳光迅速晒干水分,它们也迅速消耗寿命。
2.105.21
आत्मानमनुशोच त्वं किमन्यमनुशोचसि ।
आयुस्ते हीयते यस्य स्थितस्य च गतस्य च ॥ २.१०५.२१ ॥
你应为自己哀伤,何必为他人哀伤?无论站立还是行走,寿命都在减少的那个人,正是你自己的寿命在减少。
2.105.22
सहैव मृत्युर्व्रजति सह मृत्युर्निषीदति ।
गत्वा सुदीर्घमध्वानं सहमृत्युर्निवर्तते ॥ २.१०५.२२ ॥
死亡与你一同行走,与你一同坐下;即使走过极其漫长的道路,死亡也与你一同返回。
2.105.23
गात्रेषु वलयः प्राप्ताः श्वेताश्चैव शिरोरुहाः ।
जरया पुरुषो जीर्णः किं हि कृत्वा प्रभावयेत् ॥ २.१०५.२३ ॥
四肢上已生出皱纹,头发也变白了;被衰老耗尽的人,又能做什么来阻止这一切呢?
2.105.24
नन्दन्त्युदित आदित्ये नन्दन्त्यस्तमिते रवौ ।
आत्मनो नावबुध्यन्ते मनुष्या जीवितक्षयम् ॥ २.१०५.२४ ॥
太阳升起时人们欢喜,太阳落下时人们也欢喜;然而人们却不觉察自己生命的消逝。
2.105.25
हृष्यन्त्यृतुमखं दृष्ट्वा नवं नवमिहागतम् ।
ऋतूनां परिवर्त्तेन प्राणिनां प्राणसंक्षयः ॥ २.१०५.२५ ॥
人们见新来的季节祭祀而欢欣;然而随着季节更替,众生的生命日渐消亡。
2.105.26
यथा काष्ठं च काष्ठं च समेयातां महार्णवे ।
समेत्य च व्यपेयातां कालमासाद्य कञ्चन ॥ २.१०५.२६ ॥
如同两段木头在大海中相遇,相遇之后,到了某个时刻又彼此分离。
2.105.27
एवं भार्याश्च पुत्राश्च ज्ञातयश्च घनानि च ।
समेत्य व्यवधावन्ति ध्रुवो ह्येषां विनाभवः ॥ २.१०५.२७ ॥
妻子、儿子、亲属与财富也是如此:聚合之后又各自奔散,他们的离散必定到来。
2.105.28
नात्र कश्चिद्यथाभावं प्राणी समभिवर्त्तते ।
तेन तस्मिन्न सामर्थ्यं प्रेतस्यास्त्यनुशोचतः ॥ २.१०५.२८ ॥
在此世间,无论何种生灵都无法改变其命定的归宿;因此为死者悲伤之人,并无力使其复生。
2.105.29
यथा हि सार्थं गच्छन्तं ब्रूयात् कश्चित् पथि स्थितः ।
अहमप्यागमिष्यामि पृष्ठतो भवतामिति ॥ २.१०५.२९ ॥
如同路旁站立之人对经过的商队说:“我也会跟在你们后面的。”
2.105.30
एवं पूर्वैर्गतो मार्गः पितृपैतामहो ध्रुवः ।
तमापन्नः कथं शोचेद्यस्ऺय नास्ति व्यतिक्रमः ॥ २.१०५.३० ॥
这条路是先祖与祖父们所走过的,必定之路;既已踏上此路,何必悲伤呢?因为无可逃避。
2.105.31
वयसः पतमानस्य स्रोतसो वा ऽनिवर्तिनः ।
आत्मा सुखे नियोक्तव्यः सुखभाजः प्रजाः स्मृताः ॥ २.१०५.३१ ॥
生命如同一去不返的河流般逝去,心应专注于幸福;百姓被视为分享幸福之人。
2.105.32
धर्मात्मा स शुभैः कृत्स्नैः क्रतुभिश्चाप्तदक्षिणैः ।
धूतपापो गतः स्वर्गं पिता नः पृथिवीपतिः ॥ २.१०५.३२ ॥
我们的父亲,大地之主,心怀正法,以诸般吉祥祭祀与圆满布施洗净罪过,已升往天界。
2.105.33
भृत्यानां भरणात् सम्यक् प्रजानां परिपालनात् ।
अर्थादानाच्च धर्मेण पिता नस्त्रिदिवं गतः ॥ २.१०५.३३ ॥
我们的父亲善养仆从、保护百姓,依正法征收赋税,已升往天界。
2.105.34
कर्मभिस्तु शुभैरिष्टैः क्रतुभिश्चाप्तदक्षिणैः ।
स्वर्गं दशरथः प्राप्तः पिता नः पृथिवीपतिः ॥ २.१०५.३४ ॥
以吉祥可爱的善行与布施圆满的祭祀,我们的父亲十车王,大地之主,得升天界。
2.105.35
इष्ट्वा बहुविधैर्यज्ञैर्भोगांश्चावाप्य पुष्कलान् ।
उत्तमं चायुरासाद्य स्वर्गतः पृथिवीपतिः ॥ २.१०५.३५ ॥
行了多种祭祀,享尽丰厚的福乐,又得到上寿,大地之主已升往天界。
2.105.36
आयुरुत्तममासाद्य भोगानपि च राघवः ।
स न शोच्यः पिता तातः स्वर्गतः सत्कृतः सताम् ॥ २.१०५.३६ ॥
罗怙族的父亲既得上寿与福乐,不值得悲伤;我们亲爱的父亲已升天界,受善人敬重。
2.105.37
स जीर्णं मानुषं देहं परित्यज्य पिता हि नः ।
दैवीमृद्धिमनुप्राप्तो ब्रह्मलोकविहारिणीम् ॥ २.१०५.३७ ॥
我们的父亲舍弃了衰老的人身,获得了游行于梵天世界的神圣福报。
2.105.38
तं तु नैवंविधः कश्चित् प्राज्ञः शोचितुमर्हति ।
तद्विधो यद्विधश्चापि श्रुतवान् बुद्धिमत्तरः ॥ २.१०५.३८ ॥
像他这样的人,任何有智慧的人都不应为之悲伤;博学而极有智慧的人也不会这样做。
2.105.39
एते बहुविधाः शोका विलापरुदिते तथा ।
वर्जनीया हि धीरेण सर्वावस्थासु धीमता ॥ २.१०५.३९ ॥
这些种种悲伤,以及哀嚎与哭泣,坚毅而有智慧的人在任何境况下都应当摒弃。
2.105.40
स स्वस्थो भव माशोचीर्यात्वा चावस तां पुरीम् ।
तथा पित्रा नियुक्तो ऽसि वशिना वदतां वर ॥ २.१०५.४० ॥
你要安定,不要悲伤;去那座城市居住吧。辩才中最优秀的人啊,你那自制的父亲如此命令了你。
2.105.41
यत्राहमपि तेनैव नियुक्तः पुण्यकर्मणा ।
तत्रैवाहं करिष्यामि पितुरार्य्यस्य शासनम् ॥ २.१०५.४१ ॥
那位行善的父亲也曾命令我去的地方,我就在那里遵行我尊贵父亲的命令。
2.105.42
न मया शासनं तस्य त्यक्तुं न्याय्यमरिन्दम ।
तत् त्वयापि सदा मान्यं स वै बन्धुः स नः पिता ॥ २.१०५.४२ ॥
降伏敌人的人啊,我不应当违背他的命令。你也应当始终尊重它,因为他是我们的亲人,也是我们的父亲。
2.105.43
तद्वचः पितुरेवाहं सम्मतं धर्मचारिणः ।
कर्मणा पालयिष्यामि वनवासेन राघव ॥ २.१०५.४३ ॥
奉行法度的父亲之言,我确然遵从;我将以居住森林之行,将其践行,啊,罗怙之后。
2.105.44
धीर्मिकेणानृशंसेन नरेण गुरुवर्त्तिना ।
भवितव्यं नरव्याघ्र परलोकं जिगीषता ॥ २.१०५.४४ ॥
人中之虎啊,人应当是奉行正法、不残忍、顺从长辈、并志在征服来世的人。
2.105.45
आत्मानमनुतिष्ठ त्वं स्वभावेन नरर्षभ ।
निशाम्य तु शुभं वृत्तं पितुर्दशरथस्य नः ॥ २.१०५.४५ ॥
人中之牛啊,依你本性而行;听闻我们父亲十车王的善行之后,你也应如此行事。
2.105.46
इत्येवमुक्त्वा वचनं महात्मा पितुर्निदेशप्रतिपालनार्थम् ।
यवीयसं भ्रातरमर्थवच्च प्रभुर्मुहूर्ताद्विरराम रामः ॥ २.१०५.४६ ॥
大德的罗摩为遵从父亲之命,说完这些话,对幼弟说了有意义的话,片刻之后便停了下来。