蚁垤《罗摩衍那》 · 篇 2.106
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
2.106.1
एवमुक्त्वा तु विरते रामे वचनमर्थवत् ।
ततो मन्दाकिनीतीरे रामं प्रकृतिवत्सलम् ।
उवाच भरतश्चित्रं धार्मिको धार्मिकं वचः ॥ २.१०६.१ ॥
罗摩说完这番有意义的话后沉默下来,于是正直的婆罗多在曼陀基尼河岸,对深受百姓爱戴的罗摩说了令人惊异的话。
2.106.2
को हि स्यादीदृशो लोके यादृशस्त्वमरिन्दम ।
न त्वां प्रव्यथयेद्दुःखं प्रीतिर्वा न प्रहर्षयेत् ॥ २.१०६.२ ॥
噢,降伏敌人者,世上谁能像你这样?悲痛不能使你困扰,喜悦也不能使你欢欣。
2.106.3
सम्मतश्चासि वृद्धानां तांश्च पृच्छसि संशयान् ॥ २.१०६.३ ॥
你受到长者们的敬重,你也向他们询问你的疑惑。
2.106.4
यथा मृतस्तथा जीवन् यथा ऽसति तथा सति ।
यस्यैष बुद्धिलाभः स्यात्परितप्येत केन सः ॥ २.१०६.४ ॥
凡是获得这样智慧的人,知道死者与生者相同,无与有相同,他又会为谁悲伤呢?
2.106.5
परावरज्ञो यश्च स्यात्तथा त्वं मनुजाधिप ।
स एवं व्यसनं प्राप्य न विषीदितुमर्हति ॥ २.१०६.५ ॥
人主啊,像你一样懂得高与低的人,遇到这样的灾祸,不应当沮丧。
2.106.6
अमरोपम सत्त्वस्त्वं महात्मा सत्यसङ्गरः ।
सर्वज्ञः सर्वदर्शी च बुद्धिमांश्चासि राघव ॥ २.१०६.६ ॥
罗怙婆啊,你的本性如同天神,你是大德之人,守信守诺,无所不知,无所不见,且聪慧明达。
2.106.7
न त्वामेवङ्गुणैर्युक्तं प्रभवाभवकोविदम् ।
अविषह्यतमं दुःखमासादयितुमर्हति ॥ २.१०६.७ ॥
你具备这样的品德,通晓创生与毁灭,不应遭受最难忍受的悲痛。
2.106.8
प्रोषिते मयि यत्पापं मात्रा मत्कारणात्कृतम् ।
क्षुद्रया तदनिष्टं मे प्रसीदतु भवान्मम ॥ २.१०६.८ ॥
我外出之时,母亲因我而犯下的罪过,以及那卑鄙女子造成的祸害,愿你宽恕,对我施以恩惠。
2.106.9
धर्मबन्धेन बद्धो ऽस्मि तेनेमां नेह मातरम् ।
हन्मि तीव्रेण दण्डेन दण्डार्हां पापकारिणीम् ॥ २.१०६.९ ॥
我被法的纽带所束缚,因此不在此以严厉的杖责打这个应受惩罚的罪人之母。
2.106.10
कथं दशरथाज्जातः शुद्धाभिजनकर्मणः ।
जानन् धर्ममधर्मिष्ठं कुर्य्यां कर्म जुगुप्सितम् ॥ २.१०६.१० ॥
我生于品行与出身皆纯正的十车王之家,知晓法度,怎能做出极不义而可鄙的事?
2.106.11
गुरुः क्रियावान् वृद्धश्च राजा प्रेतः पितेति च ।
तातं न परिगर्हेयं दैवतं चेति संसदि ॥ २.१०६.११ ॥
尊长、行事有度、年迈、为王,已逝的父亲——他是父亲,也是神明;我不该在众人之前诋毁父亲。
2.106.12
को हि धर्मार्थयोर्हीनमीदृशं कर्म किल्बिषम् ।
स्त्रियाः प्रियं चिकीर्षुः सन् कुर्याद्धर्मज्ञ धर्मवित् ॥ २.१०६.१२ ॥
谁会在失去法与利之时做出如此罪恶之事?哪个通晓法度的人,为了讨女子欢心,会去做这种事呢?
2.106.13
अन्तकाले हि भूतानि मुह्यन्तीति पुराश्रुतिः ।
राज्ञैवं कुर्वता लोके प्रत्यक्षं सा श्रुतिः कृता ॥ २.१०६.१३ ॥
临终之时众生迷惑,这是古老的圣训。国王如此行事,使这圣训在世间得以明证。
2.106.14
साध्वर्थमभिसन्धाय ऺक्रोधान्मोहाच्च साहसात् ।
तातस्य यदतिक्रान्तं प्रत्याहरतु तद्भवान् ॥ २.१०६.१४ ॥
父王所违背的,无论出于善意、愤怒、迷惑还是冲动,愿您将其收回。
2.106.15
पितुरपतनहेतुत्वात्तदेवापत्यत्वेन सम्मतम् ॥ २.१०६.१५ ॥
因为它是父亲堕落的原因,所以它本身被视为父亲的后嗣。
2.106.16
तदपत्यं भवानस्तु मा भवान् दुष्कृतं पितुः ।
अभिपत्ता कृतं कर्म लोके धीरविगर्हितम् ॥ २.१०६.१६ ॥
愿您自己成为那后嗣;不要沾染父亲的过错。他所做的,是世间有德之人所痛斥的行为。
2.106.17
कैकेयीं मां च तातं च सुहृदो बान्धवांश्च नः ।
पौरजानपदान् सर्वांस्त्रातु सर्वमिदं भवान् ॥ २.१०६.१७ ॥
愿您庇护吉凯依、我、父亲、朋友、我们的亲族,以及城乡所有的百姓;愿您守护这一切。
2.106.18
क्व चारण्यं क्व च क्षात्ऺत्र क्व जटाः क्व च पालनम् ।
ईदृशं व्याहतं कर्म न भवान् कर्तुमर्हति ॥ २.१०६.१८ ॥
何处是森林,何处是刹帝利之职?何处是结发苦行,何处是治理国土?如此自相矛盾的行为,您不应当去做。
2.106.19
एष हि प्रथमो धर्मः क्षत्ऺित्रयस्याभिषेचनम् ।
येन शक्यं महाप्राज्ञ प्रजानां परिपालनम् ॥ २.१०६.१९ ॥
这是刹帝利的首要职责——灌顶;因此,大智者啊,才能保护民众。
2.106.20
कश्च प्रत्यक्षमुत्सृज्य संशयस्थमलक्षणम् ।
आयतिस्थं चरेद्धर्मं क्षत्ऺत्रबन्धुरनिश्चितम् ॥ २.१०६.२० ॥
哪个刹帝利同族,舍弃眼前之事,去追随那建立在疑惑之中、没有明确标志、寄托于未来而不确定的法?
2.106.21
अथ क्लेशजमेव त्वं धर्मं चरितुमिच्छसि ।
धर्मेण चतुरो वर्णान् पालयन् क्लेशमाप्नुहि ॥ २.१०६.२१ ॥
你若想践行由苦难而生的法,那就以法护持四种姓,去承受这苦难吧。
2.106.22
चतुर्णामाश्रमाणां हि गार्हस्थ्यं श्रेष्ठमाश्रमम् ।
प्राहुर्धर्मज्ञ धर्मज्ञास्तं कथं त्यक्तुमर्हसि ॥ २.१०६.२२ ॥
在四种人生阶段中,知法者称家居之道最为殊胜。知法者啊,你怎能舍弃它呢?
2.106.23
श्रुतेन बालः स्थानेन जन्मना भवतो ह्यहम् ।
स कथं पालयिष्यामि भूमिं भवति तिष्ठति ॥ २.१०६.२३ ॥
论学识、地位与出身,我都比你年幼。你若在此,我怎能护持大地呢?
2.106.24
हीनबुद्धिगुणो बालो हीनः स्थानेन चाप्यहम् ।
भवता च विनाभूतो न वर्त्तयितुमुत्सहे ॥ २.१०६.२४ ॥
我智慧与德行俱浅,地位亦低,是个孩童;离开你,我实在无力独自生存。
2.106.25
इदं निखिलमव्यग्रं राज्यं पित्र्यमकण्टकम् ।
अनुशाधि स्वधर्मेण धर्मज्ञ सह बान्धवैः ॥ २.१०६.२५ ॥
你应当无忧地统治这整个从父亲传下的、没有荆棘的王国,依照你自己的法,与亲族一同治理,哦,精通法者。
2.106.26
इहैव त्वा ऽभिषिञ्चन्तु सर्वाः प्रकृतयः सह ।
ऋत्विजः सवसिष्ठाश्च मन्त्रवन्मन्त्रकोविदाः ॥ २.१०६.२६ ॥
就在这里,让所有臣民与祭司、婆私吒以及精通咒语的人,依咒语仪轨为你灌顶。
2.106.27
अभिषिक्तस्त्वमस्माभिरयोध्यां पालने व्रज ।
विजित्य तरसा लोकान् मरुद्भिरिव वासवः ॥ २.१०६.२७ ॥
经我们灌顶之后,前往阿逾陀治理,如因陀罗与摩路多一起迅速征服诸界。
2.106.28
ऋणानि त्रीण्यपाकुर्वन् दुर्हृदः साधु निर्द्दहन् ।
सुहृदस्तर्पयन् कामैस्त्वमेवात्रानुशाधि माम् ॥ २.१०६.२८ ॥
偿还三重债务,焚烧敌人,以所愿之物满足友人,你就在这里教导我吧。
2.106.29
अद्यार्य मुदिताः सन्तु सुहृदस्ते ऽभिषेचने ।
अद्य भीताः पलायन्तां दुर्हृदस्ते दिशो दश ॥ २.१०६.२९ ॥
今日,尊者,愿你的友人因你的灌顶而欢喜;今日,愿你的敌人惊恐地逃向十方。
2.106.30
आक्रोशं मम मातुश्च प्रमृज्य पुरुषर्षभ ।
अद्य तत्रभवन्तं च पितरं रक्ष किल्बिषात् ॥ २.१०६.३० ॥
人中之雄,今日请洗去加在我和母亲身上的谤辱,并使我们尊敬的父亲免于罪过。
2.106.31
शिरसा त्वा ऽभियाचे ऽहं कुरुष्व करुणां मयि ।
बान्धवेषु च सर्वेषु भूतेष्विव महेश्वरः ॥ २.१०६.३१ ॥
我低首向你恳求:请怜悯我、怜悯所有亲族,并怜悯一切众生,如同大自在天(Maheśvara)那样。
2.106.32
अथैतत् पृष्ठतः कृत्वा वनमेव भवानितः ।
गमिष्यति गमिष्यामि भवता सार्द्धमप्यहम् ॥ २.१०६.३२ ॥
那么,把此事抛在一旁,你就从这里前往森林吧;我也将与你同去。
2.106.33
तथाहि रामो भरतेन ताम्यता प्रसाद्यमानः शिरसा महीपतिः ।
न चैव चक्रे गमनाय सत्त्ववान् मतिं पितुस्तद्वचने व्यवस्थितः ॥ २.१०६.३३ ॥
虽然婆罗多悲伤地低首恳求,坚定的罗摩却没有决意前去;他坚守父亲的那句话。
2.106.34
तदद्भुतं स्थैर्यमवेक्ष्य राघवे समं जनो हर्षमवाप दुःखितः ।
न यात्ययोध्यामिति दुःखितो ऽभवत् स्थिरप्रतिज्ञत्वमवेक्ष्य हर्षितः ॥ २.१०६.३४ ॥
众人见罗怙之子那非凡的坚定,心中既喜又悲;因他不回阿逾陀而悲伤,又因见他誓言坚定而欢喜。
2.106.35
तमृत्विजो नैगमयूथवल्लभास्तदा विंसज्ञाश्रुकलाश्च मातरः ।
तथा ब्रुवाणं भरतं प्रतुष्टुवुः प्रणम्य रामं च ययाचिरे सह ॥ २.१०६.३५ ॥
当时,祭司、城民所敬爱的首领以及泪流满面的母亲们,称赞如此言说的婆罗多;他们向罗摩顶礼,并共同恳求。