Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 2.107

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

2.107.1

पुनरेवं ब्रुवाणं तं भरतं लक्ष्मणाग्रजः ।
प्रत्युवाच ततः श्रीमान् ज्ञातिमध्ये ऽभिसत्कृतः ॥ २.१०७.१ ॥

当婆罗多再次如此说话时,罗什曼那的长兄、光辉的罗摩在族人之中受到敬重,于是回答道。

2.107.2

उपपन्नमिदं वाक्यं यत्त्वमेवमभाषथाः ।
जातः पुत्रो दशरथात् कैकेय्यां राजसत्तमात् ॥ २.१०७.२ ॥

你如此说话是恰当的,因为你是最优秀的国王十车王与吉凯伊所生之子。

2.107.3

पुरा भ्रातः पिता नः स मातरं ते समुद्वहन् ।
मातामहे समाश्रौषीद्राज्यशुल्कमनुत्तमम् ॥ २.१०७.३ ॥

兄弟,从前我们的父亲迎娶你的母亲时,曾向她的外祖父承诺以王国本身作为聘礼,这是至高的誓言。

2.107.4

दैवासुरे च सङ्ग्रामे जनन्यै तव पार्थिवः ।
सम्प्रहृष्टो ददौ राजा वरमाराधितः प्रभुः ॥ २.१०७.४ ॥

在神魔之战中,国王因你母亲的侍奉而欢喜,这位君主十分高兴,便赐予她一个恩惠。

2.107.5

ततः सा सम्प्रतिश्राव्य तव माता यशस्विनी ।
अयाचत नरश्रेष्ठं द्वौ वरौ वरवर्णिनी ॥ २.१०७.५ ॥

于是你那声名卓著、美丽而高贵的母亲,使他立下誓言后,向这位人中之杰索取了两个恩惠。

2.107.6

तव राज्यं नरव्याघ्र मम प्रव्राजनं तथा ।
तौ च राजा तदा तस्यै नियुक्तः प्रददौ वरौ ॥ २.१०७.६ ॥

人中之虎啊,王国归你,流放归我——这两个恩惠,受誓约所束的国王当时便赐予了她。

2.107.7

तेन पित्रा ऽहमप्यत्र नियुक्तः पुरुषर्षभ ।
चतुर्दश वने वासं वर्षाणि वरदानिकम् ॥ २.१०७.७ ॥

人中之雄啊,父王也将我安排于此,作为所赐之恩,在森林中居住十四年。

2.107.8

सो ऽहं वनमिदं प्राप्तो निर्जनं लक्ष्मणान्वितः ।
सीतया चाप्रतिद्वन्द्वः सत्यवादे स्थितः पितुः ॥ २.१०७.८ ॥

我与罗什曼那及悉多同来此无人的森林,坚守父亲的诚实之言,毫无争执。

2.107.9

भवानपि तथेत्येव पितरं सत्यवादिनम् ।
कर्त्तुमर्हति राजेन्द्र क्षिप्रमेवाभिषेचनात् ॥ २.१०७.९ ॥

诸王之主啊,你也应当如此:受灌顶之后,应迅速履行诚实的父亲之言。

2.107.10

ऋणान्मोचय राजानं मत्कृते भरत प्रभुम् ।
पितरं चापि धर्मज्ञं मातरं चाभिनन्दय ॥ २.१०७.१० ॥

婆罗多啊,为了我,请使国王、我们的主君免于债务,并使知法的父亲和母亲欢喜。

2.107.11

श्रूयते हि पुरा तात श्रुतिर्गीता यशस्विना ।
गयेन यजमानेन गयेष्वेव पितऽन् प्रति ॥ २.१०७.११ ॥

亲爱的,听说往昔名声远扬的伽耶在伽耶城举行祭祀时,曾为先祖唱出此闻名的圣典。

2.107.12

पुन्नाम्नो नरकाद्यस्मात् पितरं त्रायते सुतः ।
तस्मात् पुत्र इति प्रोक्तः पितऽन् यत्पाति वा सुतः ॥ २.१०७.१२ ॥

因为儿子能使父亲脱离名为“布特”的地狱,所以被称为“补特罗”(putra);或者说,儿子就是保护(pāti)祖先的人。

2.107.13

एष्टव्या बहवः पुत्रा गुणवन्तो बहुश्रुताः ।
तेषां वै समवेतानामपि कश्चिद्गयां व्रजेत् ॥ २.१०७.१३ ॥

应当期望有许多品德高尚、博学的儿子;即使他们都聚在一起,其中也会有某一人前往伽耶。

2.107.14

एवं राजर्षयः सर्वे प्रतीता राजनन्दन ।
तस्मात् त्राहि नरश्रेष्ठ पितरं नरकात् प्रभो ॥ २.१०७.१४ ॥

如此,所有王仙都是闻名的。因此,王子啊,人中最优秀者,主啊,请把父亲从地狱中救出。

2.107.15

अयोध्यां गच्छ भरत प्रकृतीरनुरञ्जय ।
शत्रुघ्नसहितो वीर सह सर्वैर्द्विजातिभिः ॥ २.१०७.१५ ॥

婆罗多啊,前往阿逾陀,使臣民欢喜。英雄啊,与沙特鲁颜那及所有再生者一同前往。

2.107.16

प्रवेक्ष्ये दण्डकारण्यमहमप्यविलम्बयन् ।
आभ्यां तु सहितो राजन् वैदेह्या लक्ष्मणेन च ॥ २.१०७.१६ ॥

我也将毫不迟延地进入檀陀迦森林,大王啊,与这二人——毗提诃(悉多)和罗什曼那——同行。

2.107.17

त्वं राजा भरत भव स्वयं नराणां वन्यानामहमपि राजराण्मृगाणाम् ।
गच्छत्वं पुरवरमद्य सम्प्रहृष्टः संहृष्टस्त्वहमपि दण्डकान् प्रवेक्ष्ये ॥ २.१०७.१७ ॥

婆罗多啊,你自己做人类的王;我也将做野兽的王。今日你欢喜地前往那座殊胜的城市,我也欢喜地进入檀陀迦。

2.107.18

छायां ते दिनकरभाः प्रबाधमानं वर्षत्रं भरत करोतु मूर्ध्नि शीताम् ।
एतेषामहमपि काननद्रुमाणां छायां तामति शयिनीं सुखी श्रयिष्ये ॥ २.१०७.१८ ॥

愿驱散日光的清凉树荫成为你头顶的伞盖,婆罗多啊。我也将欢喜地在这些林木广阔的荫下安息。

2.107.19

शत्रुघ्नः कुशलमतिस्तु ते सहायः सौमित्रिर्मम विदितः प्रधानमित्रम् ।
चत्वारस्तनयवरा वयं नरेन्द्रं सत्यस्थं भरत चराम मा विषादम् ॥ २.१०७.१९ ॥

舍destrughna(Śatrughna)心思敏慧,是你的助手;萨乌米特里(Lakṣmaṇa)是我所知的首要挚友。我们四人皆是优秀的儿子;让我们追随安住于真实的君王。婆罗多,不要悲伤。