Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 2.109

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

2.109.1

जाबालेस्तु वचः श्रुत्वा रामः सत्यात्मनां वरः ।
उवाच परया भक्त्या स्वबुद्ध्या चाविपन्नया ॥ २.१०९.१ ॥

罗摩听了阇婆离的话,他是真实者中最杰出的,以至诚的敬意和不动摇的智慧回答道。

2.109.2

भवान् मे प्रियकामार्थं वचनं यदिहोक्तवान् ।
अकार्य्यं कार्य्यसङ्काशमपथ्यं पथ्यसम्मितम् ॥ २.१०९.२ ॥

您在此为了讨我的欢心和满足我的心愿所说的话,把不应做的说成如应做的,把不利的说成如有益的。

2.109.3

निर्मर्यादस्तु पुरुषः पापाचारसमन्वितः ।
मानं न लभते सत्सु भिन्नचारित्रदर्शनः ॥ २.१०९.३ ॥

无拘无束、行为有罪、品行显得败坏的人,在善人之中得不到尊敬。

2.109.4

कुलीनमकुलीनं वा वीरं पुरुषमानिनम् ।
चारित्रमेव व्याख्याति शुचिं वा यदि वा ऽशुचिम् ॥ २.१०९.४ ॥

无论出身高贵或低贱,是英雄或自负之人,清净或不净,唯有他的行为才显示其为人。

2.109.5

अनार्यस्त्वार्यसङ्काशः शौचाद्धीनस्तथा शुचिः ।
लक्षण्यवदलक्षण्यो दुःशीलः शीलवानिव ॥ २.१०९.५ ॥

不高贵之人可以看似高贵,缺乏清净之人可以看似清净,缺少吉相之人可以看似具有吉相,品行恶劣之人可以看似品行良好。

2.109.6

अधर्मं धर्मवेषेण यदीमं लोकसङ्करम् ।
अभिपत्स्ये शुभं हित्वा क्रियाविधिविवर्जितम् ॥ २.१०९.६ ॥

倘若我以法之外衣接受这混乱世界的非法,舍弃吉祥而不行规定的礼仪与职责……

2.109.7

कश्चेतयानः पुरुषः कार्याकार्यविचक्षणः ।
बहुमंस्यति मां लोके दुर्वृत्तं लोकदूषणम् ॥ २.१०९.७ ॥

谁能明辨应做与不应做之事、有思虑之心,会在世上尊重我这个行为败坏、玷污世界的人呢?

2.109.8

कस्य धास्याम्यहं वृत्तं केन वा स्वर्गमाप्नुयाम् ।
अनया वर्त्तमानो हि वृत्त्या हीनप्रतिज्ञया ॥ २.१०९.८ ॥

我为谁建立德行?又凭什么获得天界?我如今以这违背誓言的行为生活着。

2.109.9

कामवृत्तस्त्वयं लोकः कृत्स्नः समुपवर्त्तते ।
यद्वृत्ताः सन्ति राजानस्तद्वृत्ताः सन्ति हि प्रजाः ॥ २.१०९.९ ॥

这整个世界都顺从欲望而行事;君王如何行事,臣民也如何行事。

2.109.10

सत्यमेवानृशंसञ्च राजवृत्तं सनातनम् ।
तस्मात्सत्यात्मकं राज्यं सत्ये लोकः प्रतिष्ठितः ॥ २.१०९.१० ॥

诚实与仁慈是君王永恒的行为。因此王国以真实为本体,世界建立在真实之上。

2.109.11

ऋषयश्चैव देवाश्च सत्यमेव हि मेनिरे ।
सत्यवादी हि लोके ऽस्मिन् परमं गच्छति क्षयम् ॥ २.१०९.११ ॥

仙人与诸神都视真实为尊;在这世上,说真话的人达到至高的归宿。

2.109.12

उद्विजन्ते यथा सर्प्पान्नरादनृतवादिनः ।
धर्मः सत्यं परो लोके मूलं स्वर्गस्य चोच्यते ॥ २.१०९.१२ ॥

人们如同畏惧毒蛇一般躲避说谎之人。在这世上,法与真实最为崇高,真实被称为天界之根。

2.109.13

सत्यमेवेश्वरो लोके सत्यं पद्मा श्रिता सदा ।
सत्यमूलानि सर्वाणि सत्यान्नास्ति परं पदम् ॥ २.१०९.१३ ॥

世间唯有真理为主宰;吉祥女神帕德玛(拉克什米)恒常居于真理之中。万物皆以真理为根;没有比真理更高的境界。

2.109.14

दत्तमिष्टं हुतं चैव तप्तानि च तपांसि च ।
वेदाः सत्यप्रतिष्ठानास्तस्मात् सत्यपरो भवेत् ॥ २.१०९.१४ ॥

布施、祭祀、供奉,以及苦行与修行,还有吠陀,都以真理为根基;因此人应当以真理为至上。

2.109.15

एकः पालयते लोकमेकः पालयते कुलम् ।
मज्जत्येको हि निरय एकः स्वर्गे महीयते ॥ २.१०९.१५ ॥

一人守护世界,一人守护家族;唯有一人坠入地狱,唯有一人在天界受到尊崇。

2.109.16

सो ऽहं पितुर्नियोगन्तु किमर्थं नानुपालये ।
सत्यप्रतिश्रवः सत्यं सत्येन समयीकृतः ॥ २.१०९.१६ ॥

我为何不遵从父亲的命令?我是立下真理誓言之人;我以真理而与誓约相系。

2.109.17

नैव लोभान्न मोहाद्वा न ह्यज्ञानात्तमोन्वितः ।
सेतुं सत्यस्य भेत्स्यामि गुरोः सत्यप्रतिश्रवः ॥ २.१०९.१७ ॥

我不因贪婪,不因迷惑,也不因无明的黑暗所蔽而毁坏真理之桥——我是守护师长(父亲)真实誓言的人。

2.109.18

असत्यसन्धस्य सतश्चलस्यास्थिरचेतसः ।
नैव देवा न पितरः प्रतीच्छन्तीति नः श्रुतम् ॥ २.१०९.१८ ॥

我们听说,诸神与祖先都不会接受那违背诺言、反复无常、心意不定之人的供养。

2.109.19

प्रत्यगात्ममिमं धर्मं सत्यं पश्याम्यहं स्वयम् ।
भारः सत्पुरुषाचीर्णस्तदर्थमभिमन्यते ॥ २.१०९.१९ ॥

我自己看见这内在的法即是真理。善人所行之此重担,正是为此而承担。

2.109.20

क्षात्ऺत्रं धर्ममहं त्यक्ष्ये ह्यधर्मं धर्मसंहितम् ।
क्षुद्रैर्नृशंसैर्लुब्धैश्च सेवितं पापकर्मभिः ॥ २.१०९.२० ॥

我将舍弃刹帝利之法。它虽是非法,却与法相连;卑贱、残忍、贪婪与作恶之人所行之。

2.109.21

कायेन कुरुते पापं मनसा सम्प्रधार्य च ।
अनृतं जिह्वया चाह त्रिविधं कर्म पातकम् ॥ २.१०९.२१ ॥

以身造作罪恶,经思虑后以意造作;以舌说出虚妄。这便是三种罪业。

2.109.22

भूमिः कीर्त्तिर्यशो लक्ष्मीः पुरुषं प्रार्थयन्ति हि ।
स्वर्गस्थं चानुपश्यन्ति सत्यमेव भजेत तत् ॥ २.१०९.२२ ॥

大地、名声、荣誉与吉祥都渴望人;它们也眷顾居于天上者。因此应当亲近真实。

2.109.23

श्रेष्ठं ह्यनार्यमेव स्याद्यद्भवानवधार्य्य माम् ।
आह युक्तिकरैर्वाक्यैरिदं भद्रं कुरुष्व ह ॥ २.१०९.२३ ॥

您思量于我,以有理的言辞说:「不善之事才最为殊胜。」因此请行此吉祥之事。

2.109.24

कथं ह्यहं प्रतिज्ञाय वनवासमिमं गुरौ ।
भरतस्य करिष्यामि वचो हित्वा गुरोर्वचः ॥ २.१०९.२४ ॥

我已向作为师长的父亲许下这林中之誓,怎能舍弃师长之言而去成全婆罗多之言呢?

2.109.25

स्थिरा मया प्रतिज्ञाता प्रतिज्ञा गुरुसन्निधौ ।
प्रहृष्यमाणा सा देवी कैकेयी चाभवत्तदा ॥ २.१०९.२५ ॥

在长者面前我作出了坚定的誓言,那时王后吉迦雅欣喜不已。

2.109.26

वनवासं वसन्नेवं शुचिर्नियतभोजनः ।
मूलैः पुष्पैः फलैः पुण्यैः पितऽन् देवांश्च तर्पयन् ॥ २.१०९.२६ ॥

如此在林中流放而居,保持清净,饮食有节,以根、花、果及圣洁的供奉使祖先与诸神得到满足。

2.109.27

सन्तुष्टपञ्चवर्गो ऽहं लोकयात्रां प्रवर्त्तये ।
अकुहः श्रद्दधानस्सन् कार्य्याकार्य्यविचक्षणः ॥ २.१०९.२७ ॥

五根皆得满足,我维持世间的生活,无欺诈,怀有信心,善于分辨应做与不应做之事。

2.109.28

कर्मभूमिमिमां प्राप्य कर्त्तव्यं कर्म यच्छुभम् ।
अग्निर्वायुश्च सोमश्च कर्मणां फलभागिनः ॥ २.१०९.२८ ॥

既得此行动之地,便应行所应行的善业;火神、风神与月神也都分享业的果报。

2.109.29

शतं क्रतूनामाहृत्य देवराट् त्रिदिवङ्गतः ।
तपांस्युग्राणि चास्थाय दिवं याता महर्षयः ॥ २.१०९.२९ ॥

诸神之王完成一百次祭祀后升天;大仙人们修持严酷的苦行,也都升上了天界。

2.109.30

अमृष्यमाणः पुनरुग्रतेजा निशम्य तन्नास्तिकवाक्यहेतुम् ।
अथाब्रवीत्तं नृपतेस्तनूजो विगर्हमाणो वचनानि तस्य ॥ २.१०९.३० ॥

于是那位烈焰般威严的王子无法忍受,听闻这无神论者言辞的缘由,斥责他的言论,对他说道。

2.109.31

सत्यं च धर्मं च पराक्रमं च भूतानुकम्पां प्रियवादिताञ्च ।
द्विजातिदेवातिथिपूजनं च पन्थानमाहुस्त्रिदिवस्य सन्तः ॥ २.१०९.३१ ॥

真实、法、勇武、对众生的慈悲、和悦的言语,以及礼敬再生者、诸神与客人——善人称此为通往天界之路。

2.109.32

तेनैवमाज्ञाय यथावदर्थमेकोदयं सम्प्रतिपद्य विप्राः ।
धर्मं चरन्तः सकलं यथावत् कांक्षन्ति लोकागममप्रमत्ताः ॥ २.१०९.३२ ॥

他们由此正确领会了其义,达成了唯一的目标,婆罗门完整而如法地修习法,保持警觉,渴望进入天界之境。

2.109.33

निन्दाम्यहं कर्म पितुः कृतं तद्यस्त्वामगृह्णाद्विषमस्थबुद्धिम् ।
बुद्ध्यानयैवंविधया चरन्तं सुनास्तिकं धर्मपथादपेतम् ॥ २.१०९.३३ ॥

我谴责父亲收纳你这样心志不定的人的那件事;你以这样的心智行事,是完全的无神论者,已偏离法道。

2.109.34

यथा हि चोरः स तथा हि बुद्धस्तथागतं नास्तिकमत्र विद्धि ।
तस्माद्धि यः शङ्क्यतमः प्रजानां न नास्तिकेनाभिमुखो बुधः स्यात् ॥ २.१०९.३४ ॥

那佛陀就像盗贼一样;须知这里的如来也是无神论者。因此,智者不应当与这位对民众最为可疑的无神论者面对面相处。

2.109.35

त्वत्तो जनाः पूर्वतरे वराश्च शुभानि कर्माणि बहूनि चक्रुः ।
जित्वा सदेमं च परञ्च लोकं तस्माद्द्विजाः स्वस्ति हुतं कृतं च ॥ २.१०९.३५ ॥

在你之前的那些优秀之人行了许多吉祥之事,常常征服了此世与彼世;因此,诸位婆罗门,祝祷吉语已说,供养已献,祭祀已行。

2.109.36

धर्मे रताः सत्पुरुषैः समेतास्तेजस्विनो दानगुणप्रधानाः ।
अहिंसका वीतमलाश्च लोके भवन्ति पूज्या मुनयः प्रधानाः ॥ २.१०९.३६ ॥

专注于法、与善人相聚、光辉照人、以布施之德为首、不害生命且无垢的上首仙人,在世间备受尊崇。

2.109.37

उवाच तथ्यं पुनरास्तिकं च सत्यं वचः सानुनयं च विप्रः ॥ २.१०९.३७ ॥

婆罗门又以敬信之心,说出了恰当、真实而和顺的话。

2.109.38

न नास्तिकानां वचनं ब्रवीम्यहं न नास्तिकोऽहं न च नास्ति किञ्चन।
समीक्ष्य कालं पुनरास्तिकोऽभवं भवेय काले पुनरेव नास्तिकः ॥ २.१०९.३८ ॥

我不说无神者的话,我也不是无神论者,也不说什么都没有。审时度势之后,我又成为了有神论者;时机到来,我也可能再度成为无神论者。

2.109.39

स चापि कालो ऽयमुपागतः शनैर्यथा मया नास्तिकवागुदीरिता ।
निवर्त्तनार्थं तव राम कारणात् प्रसादनार्थं तु मयैतदीरितम् ॥ २.१०९.३९ ॥

那时机也已缓缓到来,正如我曾说出那些无神之言。啊,罗摩,为了使你回转,也为了使你欢心,我才说了这些话。