蚁垤《罗摩衍那》 · 篇 2.114
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
2.114.1
स्त्रिग्धगम्भीरघोषेण स्यन्दनेनोपयान् प्रभुः ।
अयोध्यां भरतः क्षिप्रं प्रविवेश महायशाः ॥ २.११४.१ ॥
大名远扬的主人婆罗多乘着声音柔和低沉的战车疾速进入阿逾陀城。
2.114.2
बिडालोलूकचरितामालीननरवारणाम् ।
तिमिराभ्याहतां कालीमप्रकाशां निशामिव ॥ २.११४.२ ॥
如黑夜般漆黑无光,猫与猫头鹰游荡其间,人与象隐匿不现,被黑暗所笼罩。
2.114.3
राहुशत्रोः प्रियां पत्नीं श्रिया प्रज्वलितप्रभाम् ।
ग्रहेणाभ्युत्थिते नैकां रोहिणीमिव पीडिताम् ॥ २.११४.३ ॥
如同罗睺之敌月亮的爱妻罗诃尼,光华因吉祥而炽盛,却因一颗星辰升起而受苦。
2.114.4
अल्पोष्णक्षुब्धसलिलां धर्मोत्तप्तविहङ्गमाम् ।
लीनमीनझषग्राहां कृशां गिरिनदीमिव ॥ २.११४.४ ॥
如同瘦弱的山涧河流,河水微热而浑浊,飞鸟被炎热灼伤,鱼与鳄鱼隐匿不见。
2.114.5
विधूमामिव हेमाभामध्वराग्नेः समुत्थिताम् ।
हविरभ्युक्षितां पश्चात् शिखां विप्रलयं गताम् ॥ २.११४.५ ॥
如祭火之焰,无烟而金光灿烂,升腾之后又被献供之物浇洒,终至熄灭。
2.114.6
विध्वस्तकवचां रुग्णजवाजिरथध्वजाम् ।
हतप्रवीरामापन्नां चमूमिव महाहवे ॥ २.११४.६ ॥
如同大战中的军队,铠甲破碎,马匹、战车与旌旗折损,英雄战死,陷入困境。
2.114.7
सफेना सस्वना भूत्वा सागरस्य समुत्थिताम् ।
प्रशान्तमारुतोद्घातां जलोर्मिमिव निस्वनाम् ॥ २.११४.७ ॥
如泡沫翻涌、声响震荡,从大海涌起,又如风息之后升起、发出声响的水浪(悉多)。
2.114.8
त्यक्तां यज्ञायुधैः सर्वैरभिरूपैश्च याजकैः ।
सुत्याकाले विनिर्वृत्ते वेदिं गतरवामिव ॥ २.११४.८ ॥
被一切祭器和俊美的祭司所弃,如同苏摩压榨之时已过、声响寂然的祭坛(悉多)。
2.114.9
गोष्ठमध्ये स्थितामार्त्तामचरन्तीं तृणं नवम् ।
गोवृषेण परित्यक्तां गवां पत्तिमिवोत्सुकाम् ॥ २.११४.९ ॥
站在牛栏中央,忧伤不已,不吃新鲜的草,如同被公牛所弃的牛群般焦躁不安(悉多)。
2.114.10
प्रभाकराद्यैः सुस्निग्धैः प्रज्वलद्भिरिवोत्तमैः ।
वियुक्तां मणिभिर्जात्यैर्नवां मुक्तावलीमिव ॥ २.११४.१० ॥
如同新串的珍珠项链,与品质上乘、光华灿烂的宝石分离(悉多)。
2.114.11
सहसा चलितां स्थानान्महीं पुण्यक्षयाद्गताम् ।
संहृतद्युतिविस्तारां तारामिव दिवश्च्युताम् ॥ २.११४.११ ॥
因福德耗尽,骤然离开原处落于大地,光辉与广度尽皆收敛,如同从天空坠落的星辰(悉多)。
2.114.12
पुष्पनद्धां वसन्तान्ते मत्तभ्रमरनादिताम् ।
द्रुतदावाग्निविप्लुष्टां क्लान्तां वनलतामिव ॥ २.११४.१२ ॥
春末花朵缠绕,充满醉蜂的嗡鸣,被迅速蔓延的林火烧焦,枯萎如林中藤蔓(悉多)。
2.114.13
सम्मूढनिगमां स्तब्धां संक्षिप्तविपणापणाम् ।
प्रच्छन्नशऺशिनक्षत्रां द्यामिवाम्बुधरैर्वृताम् ॥ २.११४.१३ ॥
如同天空被雨云遮蔽,月与星隐没,这座城市商会惶惑、万物凝滞,市集与店铺皆已关闭。
2.114.14
क्षीणपानोत्तमैर्भिन्नैः शरावैरभिसंवृताम् ।
हतशौण्डामिवाकाशे पानभूमिमसंस्कृताम् ॥ २.११४.१४ ॥
如同天空中的酒肆,美酒已尽,碎杯遍地,饮者倒伏,无人收拾。
2.114.15
वृक्णभूमितलां निम्नां वृक्णपात्रैः समावृताम् ।
उपयुक्तोदकां भग्नां प्रपां निपतितामिव ॥ २.११४.१५ ॥
如同路边的水亭,地面裂陷低下,满是破碎的器皿,清水已用尽,倾颓倒塌。
2.114.16
विपुलां विततां चैव युक्तपाशां तरस्विनाम् ।
भूमौ बाणैर्विनिष्कृत्तां पतितां ज्यामिवायुधात् ॥ २.११४.१६ ॥
如同弓弦,宽阔绷紧,本为迅捷的武士而设,却被箭矢割断,从兵器上坠落在地。
2.114.17
सहसा युद्धशौण्डेन हयारोहेण वाहिताम् ।
निक्षिप्तभाण्डामुत्सृष्टां किशोरीमिव दुर्बलाम् ॥ २.११४.१७ ॥
如同少女,突然被善战的骑手挟去,饰物被卸下,被遗弃而衰弱。
2.114.18
शुष्कतोयां महामत्स्यैः कूर्मैश्च बहुभिर्वृताम् ।
प्रभिन्नतटविस्तीर्णां वापीमिव हृतोत्पलाम् ॥ २.११४.१८ ॥
如同阶井,清水已干,周围是大鱼与众多龟,岸边崩坏而空阔,莲花已被夺走。
2.114.19
पुरुषस्याप्रहृष्टस्य प्रतिषिद्धानुलेपनाम् ।
सन्तप्तामिव शोकेन गात्रयष्टिमभूषणाम् ॥ २.११४.१९ ॥
如同不再欢喜之人,被禁止涂抹香膏,为忧愁所煎熬,纤细的身躯没有饰物。
2.114.20
प्रावृषि प्रविगाढायां प्रविष्टस्याभ्रमण्डलम् ।
प्रच्छन्नां नीलजीमूतैर्भास्करस्य प्रभामिव ॥ २.११४.२० ॥
如同雨季中深入云团的太阳之光,被深蓝色的雷雨云所遮蔽。
2.114.21
भरतस्तु रथस्थः सन् श्रीमान् दशरथात्मजः ।
वाहयन्तं रथश्रेष्ठं सारथिं वाक्यमब्रवीत् ॥ २.११४.२१ ॥
然而坐在车上的吉祥的十车王之子婆罗多,对驾驭上好战车的御者说了这些话。
2.114.22
किं नु खल्वद्य गम्भीरो मूर्च्छितो न निशम्यते ।
यथापुरमयोध्यायां गीतवादित्रनिस्वनः ॥ २.११४.२२ ॥
今天为何听不到阿约提亚像以前那样,歌声与乐器的深沉声响?
2.114.23
वारुणीमदगन्धश्च माल्यगन्धश्च मूर्च्छितः ।
धूपितागरुगन्धश्च न प्रवाति समन्ततः ॥ २.११४.२३ ॥
酒的醉人香气、花环的芬芳,以及焚烧沉香的气味,如今也不再四处轻轻飘散。
2.114.24
यानप्रवरघोषश्च स्निग्धश्च हयनिस्वनः ।
प्रमत्तगजनादश्च महांश्च रथनिस्वनः ।
नेदानीं श्रूयते पुर्यामस्यां रामे विवासिते ॥ २.११४.२४ ॥
如今这座城中再听不到优良车辇的轰鸣、骏马温柔的嘶鸣、发狂大象的吼声和大车的隆隆之声,因为罗摩已被放逐。
2.114.25
चन्दनागरुगन्धांश्च महार्हाश्च नवस्रजः ।
गते हि रामे तरुणाः सन्तप्ता नोपभुञ्जते ॥ २.११४.२५ ॥
自Rāma离去后,忧伤的年轻人不再享用檀香与沉香的芬芳,也不再佩戴珍贵的新鲜花环。
2.114.26
बहिर्यात्रां न गच्छन्ति चित्रमाल्यधरा नराः ।
नोत्सवाः सम्प्रवर्त्तन्ते रामशोकार्दिते पुरे ॥ २.११४.२६ ॥
佩戴彩色花环的人不再出城游览;在这座因罗摩之悲而痛苦的城中,也不再有节庆。
2.114.27
सह नूनं मम भ्रात्रा पुरस्यास्यद्युतिर्गता ।
नहि राजत्ययोध्येयं सासारेवार्जुनी क्षपा ॥ २.११४.२७ ॥
我的兄长离去,这座城的光彩也必定随之消逝;这座阿逾陀不再像一个被雨水浸润的皎洁夜晚那样闪耀。
2.114.28
कदा नु खलु मे भ्राता महोत्सव इवागतः ।
जनयिष्यत्ययोध्यायां हर्षं ग्रीष्म इवाम्बुदः ॥ २.११४.२८ ॥
我的兄长何时才会像盛大的节日般归来?他会像夏日的云,为阿逾陀带来欢喜。
2.114.29
तरुणैश्चारुवेषैश्च नरैरुन्नतगामिभिः ।
सम्पतद्भिरयोध्यायां नाभिभान्ति महापथाः ॥ २.११४.२९ ॥
即使身着华服、步伐昂扬的年轻人和其他人往来穿梭,阿逾陀的大道也不再光彩照人。
2.114.30
एवं बहुविधं जल्पन् विवेश वसतिं पितुः ।
तेन हीनां नरेन्द्रेण सिंहहीनां गुहामिव ॥ २.११४.३० ॥
他就这样多方悲叹,走进了父亲的居所;那里失去了人王,就像失去了狮子的洞穴。
2.114.31
तदा तदन्तःपुरमुज्झितप्रभं सुरैरिवोत्सृष्टमभास्करं दिनम् ।
निरीक्ष्य सर्वन्तु विविक्तमात्मवान् मुमोच बाष्पं भरतः सुदुःखितः ॥ २.११४.३१ ॥
此时,薄伽陀(婆罗多)克制自己,看见整座内宫失去光彩,寂寥如同诸神抛弃了太阳的白昼,便深感悲痛,落下泪来。