Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 2.117

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

2.117.1

राघवस्त्वथ यातेषु तपस्विषु विचिन्तयन् ।
न तत्रारोचयद्वासं कारणैर्बहुभिस्तदा ॥ २.११७.१ ॥

苦行者们离去之后,罗怙后裔沉思良久,因诸多缘由,不愿在那里居住。

2.117.2

इह मे भरतो दृष्टो मातरश्च सनागराः ।
सा च मे स्मृतिरन्वेति तान्नित्यमनुशोचतः ॥ २.११७.२ ॥

我在此曾见到婆罗多、诸母与城中百姓;他们的记忆时时回到我心中,我因而日夜悲伤。

2.117.3

स्कन्धावारनिवेशेन तेन तस्य महात्मनः ।
हयहस्तिकरीषैश्च उपमर्द्दः कृतो भृशम् ॥ २.११७.३ ॥

因那位大德的军队扎营,以及马匹、象群及其粪便,那里遭受了严重的践踏破坏。

2.117.4

तस्मादन्यत्र गच्छाम इति सञ्चिन्त्य राघवः ।
प्रातिष्ठत स वैदेह्या लक्ष्मणेन च सङ्गतः ॥ २.११७.४ ॥

于是他决定:“我们另寻他处吧。”罗怙后裔便与毗提诃公主及罗什曼那同行出发。

2.117.5

सो ऽत्रेराश्रममासाद्य तं ववन्दे महायशाः ।
तं चापि भगवानत्रिः पुत्रवत् प्रत्यपद्यत ॥ २.११७.५ ॥

大名远扬的他抵达阿特丽的隐居处,向他行礼;尊贵的阿特丽也像对待儿子一样接纳了他。

2.117.6

स्वयमातिथ्यमादिश्य सर्वमस्य सुसत्कृतम् ।
सौमित्रिं च महाभागां सीतां च समसान्त्वयत् ॥ २.११७.६ ॥

他亲自吩咐款待,使一切都受到了妥善的礼遇,并充分安慰了苏弥特拉之子与福德深厚的悉多。

2.117.7

पत्नीं च समनुप्राप्तां वृद्धामामन्त्र्य सत्कृताम् ।
सान्त्वयामास धर्मज्ञः सर्वभूतहिते रतः ॥ २.११७.७ ॥

精通法义、乐于利益一切众生的他,召唤已走近的妻子——她年老而受到尊敬——并安慰了她。

2.117.8

अनसूयां महाभागां तापसीं धर्मचारिणीम् ।
प्रतिगृह्णीष्व वैदेहीमब्रवीदृषिसत्तमः ।
रामाय चाचचक्षे तां तापसीं धर्मचारिणीम् ॥ २.११७.८ ॥

最优秀的仙人说:“请维德赫希接受阿那苏耶——这位大福的苦行女,行持法道。”他又向罗摩介绍了这位行法的苦行女。

2.117.9

दशवर्षाण्यनावृष्ट्या दग्धे लोके निरन्तरम् ।
यया मूलफले सृष्टे जाह्नवी च प्रवर्त्तिता ॥ २.११७.९ ॥

当十年无雨、世界不断焚烧之时,正是她使根茎果实得以生长,并使恒河(Jāhnavī)得以流淌——

2.117.10

उग्रेण तपसा युक्ता नियमैश्चाप्यलङ्कृता ।
दशवर्षसहस्राणि यया तप्तं महत्तपः ॥ २.११७.१० ॥

她具备严厉的苦行,以戒律庄严自身,修持大苦行达一万年之久。

2.117.11

अनसूया व्रतैः स्नाता प्रत्यूहाश्च निवर्त्तिताः ।
देवकार्यनिमित्तं च यया संत्वरमाणया ।
दशरात्रं कृता रात्रिः सेयं मातेव ते ऽनघ ॥ २.११७.११ ॥

阿那苏耶因誓愿而清净,消除了障碍;她为天神之事急速行事,使十个夜晚化为一夜——无垢者啊,她就如同你的母亲。

2.117.12

तामिमां सर्वभूतानां नमस्कार्य्यां यशस्विनीम् ।
अभिगच्छतु वैदेही वृद्धामक्रोधनां सदा ।
अनसूयेति या लोके कर्मभिः ख्यातिमागता ॥ २.११७.१२ ॥

愿毗提诃公主前往拜见她——这位为一切众生所敬礼、声名远扬、年迈而永不愤怒的女士,她以其德行在世间以“阿那苏耶”之名闻名。

2.117.13

एवं ब्रुवाणं तमृषिं तथेत्युक्त्वा स राघवः ।
सीतामुवाच धर्मज्ञामिदं वचनमुत्तमम् ॥ २.११७.१३ ॥

罗怙之子对那位如此说话的仙人说了“就照您说的办”,然后对通晓正法的悉多说了这段殊胜的话。

2.117.14

राजपुत्रि श्रुतं त्वेतन्मुनेरस्य समीरितम् ।
श्रेयोर्थमात्मनः श्रीघ्रमभिगच्छ तपस्विनीम् ॥ २.११७.१४ ॥

公主,你已听见这位仙人所说的话;为了你自己的福祉,快去拜见那位苦行女。

2.117.15

सीता त्वेतद्वचः श्रुत्वा राघवस्य हितैषिणः ।
तामत्रिपत्नीं धर्मज्ञामभिचक्राम मैथिली ॥ २.११७.१५ ॥

悉多听了这位愿她安好的罗怙之子的话,便向通晓正法的阿低利之妻走去。

2.117.16

शिथिलां वलितां वृद्धां जरापाण्डरमूर्द्धजाम् ।
सततं वेपमानाङ्गी प्रवाते कदली यथा ॥ २.११७.१६ ॥

她身体衰弱、皱纹满面,年老而发白,四肢不停地颤抖,宛如风中的芭蕉。

2.117.17

तां तु सीता महाभागामनसूयां पतिव्रताम् ।
अभ्यवादयदव्यग्रा स्वनाम समुदाहरत् ॥ २.११७.१७ ॥

悉多心境平静地向那位大福、忠于丈夫的阿那苏耶行礼,并报出自己的名字。

2.117.18

अभिवाद्य च वैदेही तापसीं तामनिन्दिताम् ।
बद्धाञ्जलिपुटा हृष्टा पर्यपृच्छदनामयम् ॥ २.११७.१८ ॥

维德哈国公主向这位无瑕的苦行女致敬,满心欢喜地合掌,询问她是否安好。

2.117.19

ततः सीतां महाभागां दृष्ट्वा तां धर्मचारिणीम् ।
सान्त्वयन्त्यब्रवीद्धृष्टा दिष्ट्या धर्ममवेक्षसे ॥ २.११७.१९ ॥

于是她见这位福德深厚、奉行正法的悉多,满心欢喜地安慰她说:“你有幸始终以正法为念。”

2.117.20

त्यक्त्वा ज्ञातिजनं सीते मानमृद्धिं च भामिनि ।
अवरुद्धं वने रामं दिष्ट्या त्वमनुगच्छसि ॥ २.११७.२० ॥

悉多啊,美丽的女子!你舍弃了亲族、名誉与富贵,追随被困于森林中的罗摩——这是幸运的。

2.117.21

नगरस्थो वनस्थो वा पापो वा यदि वा शुभः ।
यासां स्त्रीणां प्रियो भर्ता तासां लोका महोदयाः ॥ २.११७.२१ ॥

无论他住在城中还是林中,无论他是有罪还是善良——对于以丈夫为所爱的女子,她们的世界是崇高的。

2.117.22

दुःशीलः कामवृत्तो वा धनैवा परिवर्जितः ।
स्त्रीणामार्यस्वभावानां परमं दैवतं पतिः ॥ २.११७.२२ ॥

纵使他品行不端、沉溺欲望,或者失去了财富——对于性情高尚的女子而言,丈夫便是至高的神明。

2.117.23

नातो विशिष्टं पश्यामि बान्धवं विमृशन्त्यहम् ।
सर्वत्रयोग्यं वैदेहि तपःकृतमिवाव्ययम् ॥ २.११७.२३ ॥

维德哈的公主啊!细想之下,我找不到比他更好的亲人——他处处相称,仿佛由苦行所成,且永不衰朽。

2.117.24

न त्वेनमवगच्छन्ति गुणदोषमसत्स्त्रियः ।
कामवक्तव्यहृदया भर्तृनाथा श्चरन्ति याः ॥ २.११७.२४ ॥

那些不理解丈夫之优缺点、心只愿听欲望之言、虽以丈夫为主却四处游荡的卑劣女子。

2.117.25

प्राप्नुवन्त्ययशश्चैव धर्मभ्रंशं च मैथिलि ।
अकार्यवशमापन्नाः स्त्रियो याः खलु तद्विधाः ॥ २.११७.२५ ॥

哦,弥提罗公主,此等女子陷入非法之事的掌控,必然招致耻辱与法度的败坏。

2.117.26

त्वद्विधास्तु गुणैर्युक्ता दृष्टलोकपरावराः ।
स्त्रियः स्वग चरिष्यन्ति यथा धर्मकृतस्तथा ॥ २.११७.२६ ॥

然而像你这样具备美德、通晓世间高下之理的女子,将如行法之人那样升往天界。

2.117.27

तदेवमेनं त्वमनुव्रता सती पतिव्रतानां समयानुवर्तिनी ।
भवस्व भर्त्तुः सहधर्मचारिणी यशश्च धर्मं च ततः समाप्स्यसि ॥ २.११७.२७ ॥

因此,你要做一位追随丈夫的贤淑妻子,遵循贞妇的规范,做丈夫在法道上的伴侣;如此你便会获得名声与法。