Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 2.12

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

2.12.1

ततः श्रुत्वा महाराजः कैकेय्या दारुणं वचः।
चिन्तामभिसमापेदे मुहूर्तं प्रतताप च ॥ २.१२.१ ॥

大王听到凯凯伊严厉的话语后,陷入忧虑,片刻间痛苦万分。

2.12.2

किं नु मेऽयं दिवास्वप्नश्चित्तमोहोऽपि वा मम।
अनुभूतोपसर्गो वा मनसो वाप्युपद्रवः ॥ २.१२.२ ॥

这是我的白日梦吗?是心智的迷惑吗?是降临于我的灾祸吗?还是心中的某种扰乱?

2.12.3

प्रतिलभ्य ततः संज्ञां कैकेयीवाक्यतापितः ॥ २.१२.३ ॥

随后,他被凯凯伊的话语折磨,恢复了神智。

2.12.4

व्यथितो विक्लवश्चैव व्याघ्रीं दृष्ट्वा यथा मृगः।
असंवृतायामासीनो जगत्यां दीर्घमुच्छ्वसन् ॥ २.१२.४ ॥

他痛苦而惊慌,如同麋鹿见到母虎,坐在裸露的地上,长长地叹息。

2.12.5

मण्डले पन्नगो रुद्धो मन्त्रैरिव महाविषः।
अहो धिगिति सामर्षो वाचमुक्त्वा नराधिपः ॥ २.१२.५ ॥

如同被咒语所缚、盘踞不动的大毒蛇,那人主怀着愤怒说道:“唉,可耻!”

2.12.6

मोहम् आपेदिवान् भूयः शोकोपहतचेतनः।
चिरेण तु नृपः संज्ञां प्रतिलभ्य सुदुःखितः ॥ २.१२.६ ॥

国王的神智被悲痛击垮,再次昏迷过去;过了许久才恢复神智,极度悲伤。

2.12.7

कैकेयीमब्रवीत् क्रुद्धो निर्दहन्निव तेजसा।
नृशंसे दुष्टचारित्रे कुलस्यास्य विनाशिनि ॥ २.१२.७ ॥

国王愤怒地对迦叶伊说,仿佛以他的光焰将她焚烧:残忍的女人,行为邪恶的女人,毁灭这个家族的人!

2.12.8

किं कृतं तव रामेण पापे पापं मयापि वा।
सदा ते जननीतुल्यां वृत्तिं वहति राघवः ॥ २.१२.८ ॥

罗摩对你做了什么,罪人啊?或者我自己犯了什么罪?罗怙之子对你始终以母亲般的态度相待。

2.12.9

तस्यैवं त्वमनर्थाय किंनिमित्तमिहोद्यता।
त्वं मयाऽऽत्मविनाशाय भवनं स्वं निवेशिता ॥ २.१२.९ ॥

你为何要对他如此行事,招致祸患?是我自己,为了自我毁灭,才把你接来,安置在我自己的宫中。

2.12.10

अविज्ञानान्नृपसुता व्याला तीक्ष्णविषा यथा।
जीवलोको यदा सर्वो रामस्याह गुणस्तवम् ॥ २.१२.१० ॥

公主啊,如同无知之人触碰毒牙锐利的毒蛇,而整个有情世界都在歌颂罗摩的德行……

2.12.11

अपराधं कमुद्दिश्य त्यक्ष्यामीष्टमहं सुतम्।
कौसल्यां च सुमित्रां च त्यजेयमपि वा श्रियम् ॥ २.१२.११ ॥

我因为什么过错而要舍弃我心爱的儿子?或者舍弃考莎雅与苏弥特拉,甚至舍弃财富吗?

2.12.12

जीवितं चात्मनो रामं न त्वेव पितृवत्सलम्।
परा भवति मे प्रीतिर्दृष्ट्वा तनयमग्रजम् ॥ २.१२.१२ ॥

我宁可舍弃自己的性命,也不会舍弃敬爱父亲的罗摩;看见长子,才是我最大的喜悦。

2.12.13

अपश्यतस्तु मे रामं नष्टं भवति चेतनम्।
तिष्ठेल्लोको विना सूर्यं सस्यं वा सलिलं विना ॥ २.१२.१३ ॥

不见罗摩,我的意识便会消失。没有太阳,世界能存续吗?没有水,庄稼能生长吗?

2.12.14

न तु रामं विना देहे तिष्ठेत्तु मम जीवितम्।
तदलं त्यज्यतामेष निश्चयः पापनिश्चये ॥ २.१२.१४ ॥

没有罗摩,我的生命不会留在这身体里。够了!放弃这邪恶的决心吧。

2.12.15

अपि ते चरणौ मूर्ध्ना स्पृशाम्येष प्रसीद मे।
किमर्थं चिन्तितं पापे त्वया परमदारुणम् ॥ २.१२.१५ ॥

我以头触你的足,求你对我垂怜。罪人啊,你为何起了这般残酷的念头?

2.12.16

अथ जिज्ञाससे मां त्वं भरतस्य प्रियाप्रिये।
अस्तु यत्तत्त्वया पूर्वं व्याहृतं राघवं प्रति ॥ २.१२.१६ ॥

如今你想知道我对婆罗多而言是可爱还是可憎。就照你先前关于罗怙之子所说的那样吧。

2.12.17

स मे ज्येष्ठसुतः श्रीमान् धर्मज्येष्ठ इतीव मे।
तत् त्वया प्रियवादिन्या सेवार्थं कथितं भवेत् ॥ २.१२.१७ ॥

他是我的长子,光辉的人,在法上是长者;对我而言他就是如此。柔声说话的人啊,你这番话大概是为了侍奉而说的。

2.12.18

तच्छ्रुत्वा शोकसंतप्ता संतापयसि मां भृशम्।
आविष्टासि गृहे शून्ये सा त्वं परवशं गता ॥ २.१२.१८ ॥

听到这话,你被悲伤煎熬,极大地折磨着我。在空荡的屋中,你如被附身一般,落入他人的掌控之中。

2.12.19

इक्ष्वाकूणां कुले देवि सम्प्राप्तः सुमहानयम्।
अनयो नयसम्पन्ने यत्र ते विकृता मतिः ॥ २.१२.१९ ॥

王后啊,一场巨大的灾祸降临在伊克瓦库家族;在这个以德政著称的家族中,你的心智已经败坏。

2.12.20

नहि किंचिदयुक्तं वा विप्रियं वा पुरा मम।
अकरोस्त्वं विशालाक्षि तेन न श्रद्दधामि ते ॥ २.१२.२० ॥

广目之人啊,你以前从未对我做过任何不当或令人不快的事,因此我不相信你。

2.12.21

ननु ते राघवस्तुल्यो भरतेन महात्मना।
बहुशो हि स्म बाले त्वं कथाः कथयसे मम ॥ २.१२.२१ ॥

罗怙婆(罗摩)难道不与大德的婆罗多相等吗?少女啊,你曾多次对我说过这样的话。

2.12.22

तस्य धर्मात्मनो देवि वने वासं यशस्विनः।
कथं रोचयसे भीरु नव वर्षाणि पञ्च च ॥ २.१२.२२ ॥

王后啊,胆怯的人啊,那位德行高尚、名声显赫的人在森林中住十四年,你怎么会赞同呢?

2.12.23

अत्यन्तसुकुमारस्य तस्य धर्मे कृतात्मनः।
कथं रोचयसे वासमरण्ये भृशदारुणे ॥ २.१२.२३ ॥

他极其娇嫩,心志专一于法,你怎能赞同他住在极为可怖的森林之中?

2.12.24

रोचयस्यभिरामस्य रामस्य शुभलोचने।
तव शुश्रूषमाणस्य किमर्थं विप्रवासनम् ॥ २.१२.२४ ॥

眼睛美好的人啊,那位令众人欢喜、侍奉你的罗摩,你为何赞同将他放逐?

2.12.25

रामो हि भरताद् भूयस्तव शुश्रूषते सदा।
विशेषं त्वयि तस्मात् तु भरतस्य न लक्षये ॥ २.१२.२५ ॥

罗摩总是比婆罗多更加侍奉你。因此我看不出婆罗多对你有什么特别的心意。

2.12.26

शुश्रूषां गौरवं चैव प्रमाणं वचनक्रियाम्।
कस्तु भूयस्तरं कुर्यादन्यत्र पुरुषर्षभात् ॥ २.१२.२६ ॥

在侍奉、敬重、可靠以及言行的顺从方面,除了人中之雄罗摩,还有谁能做得更多?

2.12.27

बहूनां स्त्रीसहस्राणां बहूनां चोपजीविनाम्।
परिवादोऽपवादो वा राघवे नोपपद्यते ॥ २.१२.२७ ॥

即使在成千上万的女子和众多侍从之中,关于罗怙家族的罗摩,也不会出现诽谤或指责。

2.12.28

सान्त्वयन् सर्वभूतानि रामः शुद्धेन चेतसा।
गृह्णाति मनुजव्याघ्रः प्रियैर्विषयवासिनः ॥ २.१२.२८ ॥

罗摩以纯净之心安抚一切众生,人中之虎以悦耳之言收服国中百姓。

2.12.29

सत्येन लोकाञ् जयति द्विजान् दानेन राघवः।
गुरूञ् छुश्रूषया वीरो धनुषा युधि शात्रवान् ॥ २.१२.२९ ॥

罗怙之后以真实征服世界,以布施赢得婆罗门,以侍奉尊长,在战场上以弓箭制服敌人。

2.12.30

सत्यं दानं तपस्त्यागो मित्रता शौचमार्जवम्।
विद्या च गुरुशुश्रूषा ध्रुवाण्येतानि राघवे ॥ २.१२.३० ॥

真实、布施、苦行、舍弃、友爱、清净、正直、学识与侍奉师长——这一切在罗怙之后身上都坚定不移。

2.12.31

तस्मिन्नार्जवसम्पन्ने देवि देवोपमे कथम्।
पापमाशंससे रामे महर्षिसमतेजसि ॥ २.१२.३१ ॥

女王啊,你如神明一般,怎能为拥有正直品德、光辉与大仙人相等的罗摩而盼望祸害?

2.12.32

न स्मराम्यप्रियं वाक्यं लोकस्य प्रियवादिनः।
स कथं त्वत्कृते रामं वक्ष्यामि प्रियमप्रियम् ॥ २.१२.३२ ॥

我不记得那位对世人言语和悦的人曾说过一句不悦耳的话。那么,为了你,我怎能说出关于罗摩的好话或坏话呢?

2.12.33

क्षमा यस्मिंस्तपस्त्यागः सत्यं धर्मः कृतज्ञता।
अप्यहिंसा च भूतानां तमृते कागतिर्मम ॥ २.१२.३३ ॥

其中具备忍耐、苦行、舍弃、真实、法、感恩以及对众生的不害——离开了他,我还有什么归宿?

2.12.34

मम वृद्धस्य कैकेयि गतान्तस्य तपस्विनः।
दीनं लालप्यमानस्य कारुण्यं कर्तुमर्हसि ॥ २.१२.३४ ॥

啊,凯盖伊,你应当怜悯我——一个年老、临近生命终点、苦修的人,正悲切地哀求你。

2.12.35

पृथिव्यां सागरान्तायां यत् किंचिदधिगम्यते।
तत् सर्वं तव दास्यामि मा च त्वं मन्युमाविश ॥ २.१२.३५ ॥

在这被大海环绕的大地上所能得到的一切,我都将给你。你不要被愤怒所支配。

2.12.36

अञ्जलिं कुर्मि कैकेयि पादौ चापि स्पृशामि ते।
शरणं भव रामस्य माधर्मो मामिह स्पृशेत् ॥ २.१२.३६ ॥

啊,凯盖伊,我合掌,甚至触摸你的双脚。请做罗摩的庇护,让不义不要在此触及我。

2.12.37

घूर्णमानं महाराजं शोकेन समभिप्लुतम् ॥ २.१२.३७ ॥

对那位因悲痛而踉跄、被淹没的大王(凯开伊说道)。

2.12.38

पारं शोकार्णवस्याशु प्रार्थयन्तं पुनः पुनः।
प्रत्युवाचाथ कैकेयी रौद्रा रौद्रतरं वचः ॥ २.१२.३८ ॥

对于反复恳求她尽快带他渡过悲痛之海的十车王,凶狠的凯开伊便以更加残酷的话语回答。

2.12.39

यदि दत्त्वा वरौ राजन् पुनः प्रत्यनुतप्यसे।
धार्मिकत्वं कथं वीर पृथिव्यां कथयिष्यसि ॥ २.१२.३९ ॥

大王啊,若你已赐予两项恩惠,又再次后悔,英雄啊,你将如何在大地上宣称自己的正直?

2.12.40

यदा समेता बहवस्त्वया राजर्षयः सह।
कथयिष्यन्ति धर्मज्ञ तत्र किं प्रतिवक्ष्यसि ॥ २.१२.४० ॥

精通法者啊,当许多王仙与你相聚并谈论此事时,你将在那里如何作答?

2.12.41

यस्याः प्रसादे जीवामि या च मामभ्यपालयत्।
तस्याः कृता मया मिथ्या कैकेय्या इति वक्ष्यसि ॥ २.१२.४१ ॥

你将会说:“我对凯开伊失信了,她的恩惠使我得以生存,她也曾守护我。”

2.12.42

किल्बिषं त्वं नरेन्द्राणां करिष्यसि नराधिप।
यो दत्त्वा वरमद्यैव पुनरन्यानि भाषसे ॥ २.१२.४२ ॥

人主啊,你今天刚赐予一项恩惠,如今又说别的话;这样你将在诸王之中犯下罪过。

2.12.43

शैब्यः श्येनकपोतीये स्वमांसं पक्षिणे ददौ।
अलर्कश्चक्षुषी दत्त्वा जगाम गतिमुत्तमाम् ॥ २.१२.४३ ॥

施比亚在鹰与鸽的故事中把自己的肉给了那只鸟;阿拉尔卡施舍了自己的双眼,因而达到了至高的境界。

2.12.44

सागरः समयं कृत्वा न वेलामतिवर्तते।
समयं मानृतं कार्षीः पूर्ववृत्तमनुस्मरन् ॥ २.१२.४४ ॥

大海既立下界限,便不越过它的海岸;想起你从前的行为,不要让誓言成为虚假。

2.12.45

स त्वं धर्मं परित्यज्य रामं राज्येऽभिषिच्य च।
सह कौसल्यया नित्यं रन्तुमिच्छसि दुर्मते ॥ २.१२.४५ ॥

你舍弃了法,想让罗摩受封为王,并与憍萨利亚永远欢乐相处,你这愚昧之人啊。

2.12.46

भवत्वधर्मो धर्मो वा सत्यं वा यदि वानृतम्।
यत्त्वया संश्रुतं मह्यं तस्य नास्ति व्यतिक्रमः ॥ २.१२.४६ ॥

无论是非法还是合法,真实还是虚假,你向我许下的诺言都不可违背。

2.12.47

अहं हि विषमद्यैव पीत्वा बहु तवाग्रतः।
पश्यतस्ते मरिष्यामि रामो यद्यभिषिच्यते ॥ २.१२.४७ ॥

若罗摩被立为王,我今日就在你面前饮下大量毒药,在你注视下死去。

2.12.48

एकाहमपि पश्येयं यद्यहं राममातरम्।
अञ्जलिं प्रतिगृह्णन्तीं श्रेयो ननु मृतिर्मम ॥ २.१२.४८ ॥

若我能亲眼见一次罗摩的母亲合掌接受致礼,那么死亡对我来说倒是更好的。

2.12.49

भरतेनात्मना चाहं शपे ते मनुजाधिप।
यथा नान्येन तुष्येयमृते रामविवासनात् ॥ २.१२.४९ ॥

人主啊,我以婆罗多和自己起誓:除非罗摩流放,我别无所求,不得满足。

2.12.50

एतावदुक्त्वा वचनं कैकेयी विरराम ह।
विलपन्तं च राजानं न प्रतिव्याजहार सा ॥ २.१२.५० ॥

说完这些,吉迦伊沉默不语,对哀叹的国王没有作答。

2.12.51

श्रुत्वा तु राजा कैकेय्या वाक्यं परमशोभनम्।
रामस्य च वने वासमैश्वर्यं भरतस्य च ॥ २.१२.५१ ॥

国王听了吉迦伊的话——表面上极为悦耳的话:罗摩住在林中,婆罗多得享王位——

2.12.52

नाभ्यभाषत कैकेयीं मुहूर्तं व्याकुलेन्द्रियः।
प्रैक्षतानिमिषो देवीं प्रियामप्रियवादिनीम् ॥ २.१२.५२ ॥

国王心神慌乱,片刻之间没有对吉迦伊说话;他目不转睛地望着说出不悦之言的心爱王后。

2.12.53

तां हि वज्रसमां वाचमाकर्ण्य हृदयाप्रियाम्।
दुःखशोकमयीं श्रुत्वा राजा न सुखितोऽभवत् ॥ २.१२.५३ ॥

听到那如霹雳般、刺痛心肠、充满悲苦的话语,国王并不快乐。

2.12.54

स देव्या व्यवसायं च घोरं च शपथं कृतम्।
ध्यात्वा रामेति निःश्वस्य च्छिन्नस्तरुरिवापतत् ॥ २.१२.५४ ॥

想到王后可怕的决心和所立的誓言,他叹息着说出“罗摩”,便如被砍断的树木倒了下去。

2.12.55

नष्टचित्तो यथोन्मत्तो विपरीतो यथातुरः।
हृततेजा यथा सर्पो बभूव जगतीपतिः ॥ २.१२.५५ ॥

如失去心智的狂人,如神志错乱的病人,如失去光辉的蛇,大地之主变得如此。

2.12.56

दीनयाऽऽतुरया वाचा इति होवाच कैकयीम्।
अनर्थमिममर्थाभं केन त्वमुपदेशिता ॥ २.१२.५६ ॥

他以悲苦痛楚的声音对吉迦伊说:是谁教你这看似有益、实则灾祸的事?

2.12.57

भूतोपहतचित्तेव ब्रुवन्ती मां न लज्जसे।
शीलव्यसनमेतत् ते नाभिजानाम्यहं पुरा ॥ २.१२.५७ ॥

你说话仿佛心神被鬼魅附身,难道不在我面前感到羞愧吗?你这品性的恶习,我以前从未知道。

2.12.58

बालायास्तत् त्विदानीं ते लक्षये विपरीतवत्।
कुतो वा ते भयं जातं या त्वमेवंविधं वरम् ॥ २.१२.५८ ॥

如同孩童,我看你如今神志错乱。你是从何处生出恐惧,竟索取这样的恩赐?

2.12.59

राष्ट्रे भरतमासीनं वृणीषे राघवं वने।
विरमैतेन भावेन त्वमेतेनानृतेन च ॥ २.१२.५९ ॥

你选择让婆罗多在国中即位,让罗怙后裔(罗摩)入林。请放弃这一念头与这谎言。

2.12.60

यदि भर्तुः प्रियं कार्यं लोकस्य भरतस्य च।
नृशंसे पापसंकल्पे क्षुद्रे दुष्कृतकारिणि ॥ २.१२.६० ॥

若要成全丈夫、世人与婆罗多所喜之事,那么,你这残忍、怀恶念、卑劣、行恶事的女人啊!

2.12.61

किं नु दुःखमलीकं वा मयि रामे च पश्यसि।
न कथंचिदृते रामाद् भरतो राज्यमावसेत् ॥ २.१२.६१ ॥

你是否在我身上或罗摩身上看到了虚假的悲伤?若没有罗摩,婆罗多绝不会住在王国里。

2.12.62

रामादपि हि तं मन्ये धर्मतो बलवत्तरम्।
कथं द्रक्ष्यामि रामस्य वनं गच्छेति भाषिते ॥ २.१२.६२ ॥

我认为他在法上甚至比罗摩更有力量。当有人说“去森林”时,我怎能看着罗摩前往森林?

2.12.63

मुखवर्णं विवर्णं तु यथैवेन्दुमुपप्लुतम्।
तां तु मे सुकृतां बुद्धिं सुहृद्भिः सह निश्चिताम् ॥ २.१२.६३ ॥

她的面色像被日食遮蔽的月亮一样黯淡。我与朋友们共同确定的善良决心,[她已经忘记了]。

2.12.64

कथं द्रक्ष्याम्यपावृत्तां परैरिव हतां चमूम्।
किं मां वक्ष्यन्ति राजानो नानादिग्भ्यः समागताः ॥ २.१२.६४ ॥

我怎能看着[罗摩归来],就像一支被敌人击溃、败退的军队?从四方聚集来的诸王将对我说什么?

2.12.65

बालो बतायमैक्ष्वाकश्चिरं राज्यमकारयत्।
यदा हि बहवो वृद्धा गुणवन्तो बहुश्रुताः ॥ २.१२.६५ ॥

唉,这位伊克什瓦库族的孩童让王国被治理了很久,而众多年长、有德且博学的人[都在场]……

2.12.66

परिप्रक्ष्यन्ति काकुत्स्थं वक्ष्यामीह कथं तदा।
कैकेय्या क्लिश्यमानेन पुत्रः प्रव्राजितो मया ॥ २.१२.६६ ॥

他们会向迦恭持族的罗摩询问;那时我在此该说什么呢?备受煎熬的吉迦伊借我之手,把她的儿子[罗摩]流放了。

2.12.67

यदि सत्यं ब्रवीम्येतत् तदसत्यं भविष्यति।
किं मां वक्ष्यति कौसल्या राघवे वनमास्थिते ॥ २.१२.६७ ॥

若我说出此事,那便成了虚假。罗伽瓦入林之后,考莎利亚会对我说什么呢?

2.12.68

किं चैनां प्रतिवक्ष्यामि कृत्वा विप्रियमीदृशम्।
यदा यदा च कौसल्या दासीव च सखीव च ॥ २.१२.६८ ॥

我做了这样令人不快之事,该如何回答她呢?每当考莎利亚如侍女、如朋友一般,

2.12.69

भार्यावद् भगिनीवच्च मातृवच्चोपतिष्ठति।
सततं प्रियकामा मे प्रियपुत्रा प्रियंवदा ॥ २.१२.६९ ॥

她如妻子、如姊妹、如母亲般侍奉我;她总是希望我欢喜,有爱子,言语温和。

2.12.70

न मया सत्कृता देवी सत्कारार्हा कृते तव।
इदानीं तत्तपति मां यन्मया सुकृतं त्वयि ॥ २.१२.७० ॥

因你的缘故,我没有尊重那位值得尊敬的女神。如今我对你所行的善举反而折磨着我。

2.12.71

अपथ्यव्यञ्जनोपेतं भुक्तमन्नमिवातुरम्।
विप्रकारं च रामस्य सम्प्रयाणं वनस्य च ॥ २.१२.७१ ॥

如病人吃下掺了有害调料的食物,那加于罗摩的伤害与他入林之行,正折磨着我。

2.12.72

सुमित्रा प्रेक्ष्य वै भीता कथं मे विश्वसिष्यति।
कृपणं बत वैदेही श्रोष्यति द्वयमप्रियम् ॥ २.१२.७२ ॥

苏弥特拉见到我必定惊惧,她怎会相信我?而可怜的毗提诃将听到这两件不幸之事!

2.12.73

मां च पञ्चत्वमापन्नं रामं च वनमाश्रितम्।
वैदेही बत मे प्राणान् शोचन्ती क्षपयिष्यति ॥ २.१२.७३ ॥

待我身亡、罗摩投奔森林之后,唉,忧伤的维德哈公主将耗尽我的生命之气。

2.12.74

हीना हिमवतः पार्श्वे किंनरेणेव किंनरी।
नहि राममहं दृष्ट्वा प्रवसन्तं महावने ॥ २.१२.७४ ॥

如同喜马拉雅山坡上失去雄性紧那罗的雌紧那罗,我若不见罗摩流放于大森林,便无法存活。

2.12.75

चिरं जीवितुमाशंसे रुदन्तीं चापि मैथिलीम्।
सा नूनं विधवा राज्यं सपुत्रा कारयिष्यसि ॥ २.१२.७५ ॥

我希望哭泣的迈提丽也能长久活着。她定会成为寡妇,与儿子一同执掌王国。

2.12.76

सतीं त्वामहमत्यन्तं व्यवस्याम्यसतीं सतीम्।
रूपिणीं विषसंयुक्तां पीत्वेव मदिरां नरः ॥ २.१२.७६ ॥

我一向认为你极为贞洁,可你并不贞洁,只是外貌像贞洁之人,如同饮下掺毒之酒的人。

2.12.77

अनृतैर्बत मां सान्त्वैः सान्त्वयन्ती स्म भाषसे।
गीतशब्देन संरुध्य लुब्धो मृगमिवावधीः ॥ २.१२.७७ ॥

唉,你用虚假的安慰之言来宽慰我,就像贪婪的猎人以歌声围住鹿而将其杀死一样。

2.12.78

अनार्य इति मामार्याः पुत्रविक्रायकं ध्रुवम्।
विकरिष्यन्ति रथ्यासु सुरापं ब्राह्मणं यथा ॥ २.१२.७८ ॥

“她是卑贱之人,是卖子的女人”——高贵的人必定会在街上这样辱骂我,就像辱骂饮酒的婆罗门一样。

2.12.79

अहो दुःखमहो कृच्छ्रं यत्र वाचः क्षमे तव।
दुःखमेवंविधं प्राप्तं पुरा कृतमिवाशुभम् ॥ २.१२.७९ ॥

唉,多么痛苦,多么艰难,我竟要忍受你这样的言语。这样的苦难降临到我身上,仿佛是前世所造恶业的果报。

2.12.80

चिरं खलु मया पापे त्वं पापेनाभिरक्षिता।
अज्ञानादुपसम्पन्ना रज्जुरुद्बन्धनी यथा ॥ २.१२.८० ॥

罪孽的人啊,我长久地庇护你,因为无知,我让你靠近,如同捆缚的绳索。

2.12.81

रममाणस्त्वया सार्धं मृत्युं त्वां नाभिलक्षये।
बालो रहसि हस्तेन कृष्णसर्पमिवास्पृशम् ॥ २.१२.८१ ॥

与你欢乐相处时,我没有认出你就是死亡;如同孩子在暗处用手触碰黑蛇,我就这样亲近了你。

2.12.82

तं तु मां जीवलोकोऽयं नूनमाक्रोष्टुमर्हति।
मया ह्यपितृकः पुत्रः स महात्मा दुरात्मना ॥ २.१२.८२ ॥

这个世界必定会有理由责备我,因为由于我,那位心胸宽广的儿子被那心怀恶意的人夺去了父亲。

2.12.83

बालिशो बत कामात्मा राजा दशरथो भृशम्।
स्त्रीकृते यः प्रियं पुत्रं वनं प्रस्थापयिष्यति ॥ २.१२.८३ ॥

唉,被欲望支配的国王十车,实在愚蠢。他竟为了一个女人,要把他心爱的儿子送往森林。

2.12.84

वेदैश्च ब्रह्मचर्यैश्च गुरुभिश्चोपकर्शितः।
भोगकाले महत्कृच्छ्रं पुनरेव प्रपत्स्यते ॥ २.१२.८४ ॥

他因吠陀、梵行和师长的教导而消瘦,在享受之时,却又将再次遭受巨大的苦难。

2.12.85

नालं द्वितीयं वचनं पुत्रो मां प्रतिभाषितुम्।
स वनं प्रव्रजेत्युक्तो बाढमित्येव वक्ष्यति ॥ २.१२.८५ ॥

我的儿子不能对我说第二句话;若对他说“去森林”,他只会说:“好。”

2.12.86

यदि मे राघवः कुर्याद् वनं गच्छेति चोदितः।
प्रतिकूलं प्रियं मे स्यान्न तु वत्सः करिष्यति ॥ २.१२.८६ ॥

若罗伽婆被催促“去森林”而照做,那便会令我不悦;但我可爱的儿子不会这样做。

2.12.87

राघवे हि वनं प्राप्ते सर्वलोकस्य धिक्कृतम्।
मृत्युरक्षमणीयं मां नयिष्यति यमक्षयम् ॥ २.१२.८७ ॥

罗伽婆入森林之后,全世界都会责备我;那时不可忍受的死亡将把我带到阎摩之所。

2.12.88

मृते मयि गते रामे वनं मनुजपुङ्गवे।
इष्टे मम जने शेषे किं पापं प्रतिपत्स्यसे ॥ २.१२.८८ ॥

待我死去,人中之杰罗摩入了森林,而我所爱的人仍然在世,你将招致何等罪过?

2.12.89

कौसल्या मां च रामं च पुत्रौ च यदि हास्यति।
दुःखान्यसहती देवी मामेवानुगमिष्यति ॥ २.१२.८९ ॥

若憍莎罗舍弃我、罗摩与两个儿子,那位不能忍受苦痛的王后,就会跟随我而去。

2.12.90

कौसल्यां च सुमित्रां च मां च पुत्रैस्त्रिभिः सह।
प्रक्षिप्य नरके सा त्वं कैकेयि सुखिता भव ॥ २.१२.९० ॥

你将憍莎罗、苏弥多罗和我,连同三个儿子,投入地狱之后,愿你安乐,啊,吉迦伊。

2.12.91

मया रामेण च त्यक्तं शाश्वतं सत्कृतं गुणैः।
इक्ष्वाकुकुलमक्षोभ्यमाकुलं पालयिष्यसि ॥ २.१२.९१ ॥

被罗摩和我所弃的伊刹婆迦族,因其德行而永受敬重,原本坚定不移,如今陷入动荡,你将守护它。

2.12.92

प्रियं चेद् भरतस्यैतद् रामप्रव्राजनं भवेत्।
मा स्म मे भरतः कार्षीत् प्रेतकृत्यं गतायुषः ॥ २.१२.९२ ॥

若罗摩的流放令婆罗多欢喜,那么当我寿终之时,婆罗多不要为我举行葬礼。

2.12.93

मृते मयि गते रामे वनं पुरुषपुङ्गवे।
सेदानीं विधवा राज्यं सपुत्रा कारयिष्यसि ॥ २.१२.९३ ॥

待我死去、人中之杰罗摩流入森林之后,你作为寡妇,与你的儿子一同,现在便会让王国由你们来治理。

2.12.94

त्वं राजपुत्रि दैवेन न्यवसो मम वेश्मनि।
अकीर्तिश्चातुला लोके ध्रुवः परिभवश्च मे।
सर्वभूतेषु चावज्ञा यथा पापकृतस्तथा ॥ २.१२.९४ ॥

公主啊,你因命运而住在我的家中。在世间,我的恶名将无与伦比,耻辱必定降临,我将被一切众生轻视,如同作恶之人一般。

2.12.95

कथं रथैर्विभुर्यात्वा गजाश्वैश्च मुहुर्मुहुः।
पद्भ्यां रामो महारण्ये वत्सो मे विचरिष्यति ॥ २.१२.९५ ॥

罗摩曾多次乘坐战车、象与马,如今他如何能徒步在那广大的森林中漫游呢?我的爱子将在那里流浪。

2.12.96

यस्य चाहारसमये सूदाः कुण्डलधारिणः।
अहंपूर्वाः पचन्ति स्म प्रसन्नाः पानभोजनम् ॥ २.१२.९६ ॥

在他用餐之时,佩戴耳环的厨师们争先恐后,欢欣地烹制饮食,

2.12.97

स कथं नु कषायाणि तिक्तानि कटुकानि च।
भक्षयन् वन्यमाहारं सुतो मे वर्तयिष्यति ॥ २.१२.९७ ॥

我的儿子吃着森林里涩、苦、辣的野食,将如何维持生活?

2.12.98

महार्हवस्त्रसम्बद्धो भूत्वा चिरसुखोचितः।
काषायपरिधानस्तु कथं रामो भविष्यति ॥ २.१२.९८ ॥

罗摩long习安逸、身着贵重衣裳,穿上赭色僧衣后将会怎样?

2.12.99

कस्येदं दारुणं वाक्यमेवंविधमपीरितम्।
रामस्यारण्यगमनं भरतस्याभिषेचनम् ॥ २.१२.९९ ॥

是谁说出了这样残酷的话:罗摩进入森林,婆罗多受封为王?

2.12.100

धिगस्तु योषितो नाम शठाः स्वार्थपरायणाः।
न ब्रवीमि स्त्रियः सर्वा भरतस्यैव मातरम् ॥ २.१२.१०० ॥

可耻啊,那些狡诈、只顾自己私利的女人!我说的不是所有女人,只是指婆罗多的母亲。

2.12.101

अनर्थभावेऽर्थपरे नृशंसे
ममानुतापाय निवेशितासि।
किमप्रियं पश्यसि मन्निमित्तं
हितानुकारिण्यथवापि रामे ॥ २.१२.१०१ ॥

残忍的女子啊,你喜好祸患,被安置在这里只为让我痛苦。你是否因我而在罗摩身上看到了什么不快,还是罗摩一向只做有益之事?

2.12.102

परित्यजेयुः पितरोऽपि पुत्रान्
भार्याः पतींश्चापि कृतानुरागाः।
कृत्स्नं हि सर्वं कुपितं जगत् स्याद्
दृष्ट्वैव रामं व्यसने निमग्नम् ॥ २.१२.१०२ ॥

看到罗摩陷入灾难,父亲也会抛弃儿子,有情的妻子也会离弃丈夫;整个世界都会愤怒。

2.12.103

अहं पुनर्देवकुमाररूप-
मलंकृतं तं सुतमाव्रजन्तम्।
नन्दामि पश्यन्निव दर्शनेन
भवामि दृष्ट्वैव पुनर्युवेव ॥ २.१२.१०३ ॥

看到那个儿子走来,容貌如天神之子般装饰华美,我便欢喜;仅凭一见,我便仿佛又变得年轻。

2.12.104

विना हि सूर्येण भवेत् प्रवृत्ति-
रवर्षता वज्रधरेण वापि।
रामं तु गच्छन्तमितः समीक्ष्य
जीवेन्न कश्चित्त्विति चेतना मे ॥ २.१२.१०४ ॥

若无太阳,或因帝释不降雨,世间的活动便会停止;但看见罗摩从此离去,我心中觉得,将无人能活下来。

2.12.105

विनाशकामामहिताममित्रा-
मावासयं मृत्युमिवात्मनस्त्वाम्।
चिरं बताङ्केन धृतासि सर्पी
महाविषा तेन हतोऽस्मि मोहात् ॥ २.१२.१०५ ॥

你这个想要毁灭我、不善而如仇敌的人,我却把你当作自己的死亡留在家中;唉,我长久抱在怀中的你,是剧毒的毒蛇,因此我因迷惑而被杀害了。

2.12.106

मया च रामेण सलक्ष्मणेन
प्रशास्तु हीनो भरतस्त्वया सह।
पुरं च राष्ट्रं च निहत्य बान्धवान्
ममाहितानां च भवाभिहर्षिणी ॥ २.१२.१०६ ॥

没有了我、罗摩与罗什曼那之后失去统治者的婆罗多将与你同在;毁灭了城邑、国家与亲属,你这个以权势为乐的人,将与我的仇敌在一起。

2.12.107

नृशंसवृत्ते व्यसनप्रहारिणि
प्रसह्य वाक्यं यदिहाद्य भाषसे।
न नाम ते तेन मुखात् पतन्त्यधो
विशीर्यमाणा दशनाः सहस्रधा ॥ २.१२.१०७ ॥

哦,你这心性残忍、带来灾祸之人!今日你在此如此肆意地说出这些话,你的牙齿却没有从口中碎成千片落下。

2.12.108

न किंचिदाहाहितमप्रियं वचो
न वेत्ति रामः परुषाणि भाषितुम्।
कथं तु रामे ह्यभिरामवादिनि
ब्रवीषि दोषान् गुणनित्यसम्मते ॥ २.१२.१०८ ॥

罗摩从未说过有害或不悦耳的话,他不懂得说粗暴的言辞。那总是言语和悦、总因德行而受尊敬的罗摩,你为何要数他的过失?

2.12.109

प्रताम्य वा प्रज्वल वा प्रणश्य वा
सहस्रशो वा स्फुटितां महीं व्रज।
न ते करिष्यामि वचः सुदारुणं
ममाहितं केकयराजपांसने ॥ २.१२.१०९ ॥

无论你是痛苦憔悴、焚烧、毁灭,还是裂成千片没入大地——我都不会听从你那极其残酷的话,啊,喀喀耶王族的尘土;那对我是有害的。

2.12.110

क्षुरोपमां नित्यमसत्प्रियंवदां
प्रदुष्टभावां स्वकुलोपघातिनीम्।
न जीवितुं त्वां विषहेऽमनोरमां
दिधक्षमाणां हृदयं सबन्धनम् ॥ २.१२.११० ॥

你如同利刃,总是说虚伪讨好的话,心怀恶意,是毁灭自家的人。我无法忍受与你共同生活;你并不令人喜悦,还想连同心中的牵挂一起焚烧我的心。

2.12.111

न जीवितं मेऽस्ति कुतः पुनः सुखं
विनात्मजेनात्मवतां कुतो रतिः।
ममाहितं देवि न कर्तुमर्हसि
स्पृशामि पादावपि ते प्रसीद मे ॥ २.१२.१११ ॥

我已没有生命,哪还有快乐?没有儿子,即便是自制的人又从哪里得到喜悦?王后,你不应做这件伤害我的事。我触摸你的双足——请对我慈悲。

2.12.112

स भूमिपालो विलपन्ननाथवत्
स्त्रिया गृहीतो हृदयेऽतिमात्रया।
पपात देव्याश्चरणौ प्रसारिता-
वुभावसम्प्राप्य यथाऽऽतुरस्तथा ॥ २.१२.११२ ॥

那位国王如无依无靠者般悲泣,心为对一名女子的过度迷恋所攫取,双臂伸向王后的双足扑倒在地;然而如同痛苦的人,他终究够不着那双足。