ヴァールミーキのラーマーヤナ · サルガ 2.14
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
2.14.1
पुत्रशोकार्दितं पापा विसंज्ञं पतितं भुवि।
विचेष्टमानमुत्प्रेक्ष्य ऐक्ष्वाकमिदमब्रवीत् ॥ २.१४.१ ॥
息子への悲しみに苛まれ、意識を失って地に倒れ、もがいているイクシュヴァーク王を見て、(彼女)はこう言った。
2.14.2
पापं कृत्वेव किमिदं मम संश्रुत्य संश्रवम्।
शेषे क्षितितले सन्नः स्थित्यां स्थातुं त्वमर्हसि ॥ २.१४.२ ॥
まるで罪を犯したかのように、これは何ですか。私に誓った約束を思い出しなさい。地に横たわるあなたは、自らの本分に立ち返るべきです。
2.14.3
आहुः सत्यं हि परमं धर्मं धर्मविदो जनाः।
सत्यमाश्रित्य च मया त्वं धर्मं प्रतिचोदितः ॥ २.१४.३ ॥
法を知る人々は、真実こそ最高の法であると言う。私は真実に依って、あなたにあなたの法を思い起こさせたのです。
2.14.4
संश्रुत्य शैब्यः श्येनाय स्वां तनुं जगतीपतिः।
प्रदाय पक्षिणे राजा जगाम गतिमुत्तमाम् ॥ २.१४.४ ॥
約束したうえで、世界の主シャイビヤ王は鷹に自らの身体を与えた。その鳥に施して、王は最高の境地に至った。
2.14.5
तथा ह्यलर्कस्तेजस्वी ब्राह्मणे वेदपारगे।
याचमाने स्वके नेत्रे उद्धृत्याविमना ददौ ॥ २.१४.५ ॥
同じく、輝ける王アラルカは、ヴェーダに通じたバラモンが求めたとき、自らの両目を抉り出して、動じることなく与えた。
2.14.6
सरितां तु पतिः स्वल्पां मर्यादां सत्यमन्वितः।
सत्यानुरोधात् समये वेलां स्वां नातिवर्तते ॥ २.१४.६ ॥
河の主である大海は、真実を備え、真実を重んじるゆえに、定められた時に、自らの小さな境界である岸を越えない。
2.14.7
सत्यमेकपदं ब्रह्म सत्ये धर्मः प्रतिष्ठितः।
सत्यमेवाक्षया वेदाः सत्येनावाप्यते परम् ॥ २.१४.७ ॥
真理こそ唯一の足場であり、真理こそブラフマンである。法は真理に立つ。真理こそ不滅のヴェーダであり、真理によって至高は得られる。
2.14.8
सत्यं समनुवर्तस्व यदि धर्मे धृता मतिः।
स वरः सफलो मेऽस्तु वरदो ह्यसि सत्तम ॥ २.१४.८ ॥
もしあなたの心が法に堅く据えられているなら、真理に従いなさい。善き人々の中で最も優れた方よ、あの約束が私にとって実を結びますように。あなたは実に恩恵を与える方なのですから。
2.14.9
धर्मस्यैवाभिकामार्थं मम चैवाभिचोदनात्।
प्रव्राजय सुतं रामं त्रिः खलु त्वां ब्रवीम्यहम् ॥ २.१४.९ ॥
法のため、そして私の強い求めによって、あなたの息子ラーマを流謫に送りなさい。これを私は三度あなたに言います。
2.14.10
समयं च ममार्येमं यदि त्वं न करिष्यसि।
अग्रतस्ते परित्यक्ता परित्यक्ष्यामि जीवितम् ॥ २.१४.१० ॥
高貴なお方よ、もしあなたが私のこの約束を果たさなければ、あなたの目の前で捨てられた私は、命を絶つでしょう。
2.14.11
एवं प्रचोदितो राजा कैकेय्या निर्विशङ्कया।
नाशकत् पाशमुन्मोक्तुं बलिरिन्द्रकृतं यथा ॥ २.१४.११ ॥
恐れを知らぬカイケーイーにこのように促された王は、インドラが結んだ縛めをバリが解けなかったように、その罠を解くことができなかった。
2.14.12
उद्भ्रान्तहृदयश्चापि विवर्णवदनोऽभवत्।
स धुर्यो वै परिस्पन्दन् युगचक्रान्तरं यथा ॥ २.१४.१२ ॥
彼の心は乱れ、顔色は青ざめた。軛と車輪の間に挟まれた牛のように、彼はもがき苦しんだ。
2.14.13
विकलाभ्यां च नेत्राभ्यामपश्यन्निव भूमिपः।
कृच्छ्राद् धैर्येण संस्तभ्य कैकेयीमिदमब्रवीत् ॥ २.१४.१३ ॥
濁った両眼で、王は何も見えないかのようだった。苦心して気力を奮い起こし、自らを支えて、王はカイケーイーにこう言った。
2.14.14
यस्ते मन्त्रकृतः पाणिरग्नौ पापे मया धृतः।
संत्यजामि स्वजं चैव तव पुत्रं सह त्वया ॥ २.१४.१४ ॥
ああ罪深き女よ!火の前で聖句とともに私がお前の手を取ったその誓いを、お前と共に、そして私自身の息子をも、私は捨てる。
2.14.15
प्रयाता रजनी देवि सूर्यस्योदयनं प्रति।
अभिषेकाय हि जनस्त्वरयिष्यति मां ध्रुवम् ॥ २.१४.१५ ॥
王妃よ、夜は日の出に向かって過ぎ去った。即位の儀のために、人々はきっと私を急かすだろう。
2.14.16
रामाभिषेकसम्भारैस्तदर्थमुपकल्पितैः।
रामः कारयितव्यो मे मृतस्य सलिलक्रियाम् ॥ २.१४.१६ ॥
ラーマの即位のために用意された品々によって、ラーマは死んだ私のために水の儀礼を行うべきだ。
2.14.17
सपुत्रया त्वया नैव कर्तव्या सलिलक्रिया।
व्याहन्तास्यशुभाचारे यदि रामाभिषेचनम् ॥ २.१४.१७ ॥
もしお前がラーマの即位を妨げるなら、不吉な振る舞いの女よ、お前は息子とともに水の儀礼を行ってはならない。
2.14.18
न शक्तोऽद्यास्म्यहं द्रष्टुं दृष्ट्वा पूर्वं तथामुखम्।
हतहर्षं तथानन्दं पुनर्जनमवाङ्मुखम् ॥ २.१४.१८ ॥
かつてのそのお前の顔を、今日の私は見ることができない。喜びは打ち砕かれ、民は顔を伏せて立っている。
2.14.19
तां तथा ब्रुवतस्तस्य भूमिपस्य महात्मनः।
प्रभाता शर्वरी पुण्या चन्द्रनक्षत्रमालिनी ॥ २.१४.१९ ॥
偉大な心の王がこのように語っている間に、月と星々の花環を纏ったその吉祥の夜は明け、夜明けが訪れた。
2.14.20
ततः पापसमाचारा कैकेयी पार्थिवं पुनः।
उवाच परुषं वाक्यं वाक्यज्ञा रोषमूर्च्छिता ॥ २.१४.२० ॥
そのとき、悪行をなすケーカイーは、言葉に巧みで怒りに我を失い、再び王に厳しい言葉を投げかけた。
2.14.21
किमिदं भाषसे राजन् वाक्यं गररुजोपमम्।
आनाययितुमक्लिष्टं पुत्रं राममिहार्हसि ॥ २.१४.२१ ॥
王よ、なぜ毒のような言葉を口にするのですか。私の息子ラーマを、苦労なくここへ呼び寄せるべきです。
2.14.22
स्थाप्य राज्ये मम सुतं कृत्वा रामं वनेचरम्।
निःसपत्नां च मां कृत्वा कृतकृत्यो भविष्यसि ॥ २.१४.२२ ॥
私の息子を王位に就け、ラーマを森の住人とし、私に競争相手をなくしてくだされば、あなたの務めは成し遂げられるでしょう。
2.14.23
स तुन्न इव तीक्ष्णेन प्रतोदेन हयोत्तमः।
राजा प्रचोदितोऽभीक्ष्णं कैकेय्या वाक्यमब्रवीत् ॥ २.१४.२३ ॥
鋭い鞭で突かれた名馬のように、ケーカイーに繰り返し駆り立てられた王はこう語った。
2.14.24
धर्मबन्धेन बद्धोऽस्मि नष्टा च मम चेतना।
ज्येष्ठं पुत्रं प्रियं रामं द्रष्टुमिच्छामि धार्मिकम् ॥ २.१४.२४ ॥
私は法の絆に縛られ、意識も失われた。長子で愛する、正しい息子ラーマに会いたいのだ。
2.14.25
ततः प्रभातां रजनीमुदिते च दिवाकरे।
पुण्ये नक्षत्रयोगे च मुहूर्ते च समागते ॥ २.१४.२५ ॥
やがて夜は明け、太陽が昇り、吉祥な星の結びつきと良き時刻が訪れた。
2.14.26
वसिष्ठो गुणसम्पन्नः शिष्यैः परिवृतस्तथा।
उपगृह्याशु सम्भारान् प्रविवेश पुरोत्तमम् ॥ २.१४.२६ ॥
徳を備えたヴァシシュタは弟子たちに囲まれ、必要な品々をすぐに携えて、その最も優れた都に入った。
2.14.27
सिक्तसम्मार्जितपथां पताकोत्तमभूषिताम्।
संहृष्टमनुजोपेतां समृद्धविपणापणाम् ॥ २.१४.२७ ॥
道は水を打ち掃き清められ、見事な旗で飾られ、喜びに満ちた人々で溢れ、市場や店が栄えていた。
2.14.28
महोत्सवसमायुक्तां राघवार्थे समुत्सुकाम्।
चन्दनागुरुधूपैश्च सर्वतः परिधूमिताम् ॥ २.१४.२८ ॥
大祭の喜びに包まれ、ラーガヴァを心待ちにし、白檀と沈香の煙が四方に香っていた。
2.14.29
तां पुरीं समतिक्रम्य पुरंदरपुरोपमाम्।
ददर्शान्तःपुरं श्रीमान् नानाध्वजगणायुतम् ॥ २.१४.२९ ॥
インドラの都のようなその町を通り過ぎ、威光あるかの人は多くの旗で満ちた奥の宮殿を見た。
2.14.30
पौरजानपदाकीर्णं ब्राह्मणैरुपशोभितम्।
यष्टिमद्भिः सुसम्पूर्णं सदश्वैः परमार्चितैः ॥ २.१४.३० ॥
都の住民と地方の人々が集まり、バラモンに飾られ、杖を持つ守衛に満ち、最上の馬たちが大切にされていた。
2.14.31
तदन्तःपुरमासाद्य व्यतिचक्राम तं जनम्।
वसिष्ठः परमप्रीतः परमर्षिभिरावृतः ॥ २.१४.३१ ॥
内殿に着くと、彼はその群衆を通り抜けた。大いに喜んだヴァシシュタは大仙人たちに囲まれていた。
2.14.32
स त्वपश्यद् विनिष्क्रान्तं सुमन्त्रं नाम सारथिम्।
द्वारे मनुजसिंहस्य सचिवं प्रियदर्शनम् ॥ २.१४.३२ ॥
しかし彼は、人中の獅子である王の門から出てくる、御者であり大臣であるスマントラを見た。見目麗しい人であった。
2.14.33
तमुवाच महातेजाः सूतपुत्रं विशारदम्।
वसिष्ठः क्षिप्रमाचक्ष्व नृपतेर्मामिहागतम् ॥ २.१४.३३ ॥
偉大な輝きを持つヴァシシュタは、その熟練の御者の息子に言った。「私がここに来たことを、すぐに王に告げよ。」
2.14.34
इमे गङ्गोदकघटाः सागरेभ्यश्च काञ्चनाः।
औदुम्बरं भद्रपीठमभिषेकार्थमाहृतम् ॥ २.१४.३४ ॥
ガンジスの水の壺、大海から運ばれた金の壺、そして灌頂のために運ばれたウドゥンバラ材の吉祥の座。
2.14.35
सर्वबीजानि गन्धाश्च रत्नानि विविधानि च।
क्षौद्रं दधि घृतं लाजा दर्भाः सुमनसः पयः ॥ २.१४.३५ ॥
あらゆる種類の種子、香料、そして様々な宝石;蜂蜜、凝乳、ギー、炒り米、クシャ草、花、そして乳。
2.14.36
अष्टौ च कन्या रुचिरा मत्तश्च वरवारणः।
चतुरश्वो रथः श्रीमान् निस्त्रिंशो धनुरुत्तमम् ॥ २.१४.३६ ॥
八人の美しい乙女、発情した優れた象、四頭立ての壮麗な戦車、剣、そして優れた弓。
2.14.37
वाहनं नरसंयुक्तं छत्रं च शशिसंनिभम्।
श्वेते च वालव्यजने भृङ्गारं च हिरण्मयम् ॥ २.१४.३७ ॥
人が担ぐ乗り物、月のような傘、二本の白いヤクの尾の払子、そして金の水差し。
2.14.38
हेमदामपिनद्धश्च ककुद्मान् पाण्डुरो वृषः।
केसरी च चतुर्दंष्ट्रो हरिश्रेष्ठो महाबलः ॥ २.१४.३८ ॥
金の花環をかけた、こぶのある白い雄牛;鬣のある獅子;そして四本の牙を持つ、大力の象の中の最良のもの。
2.14.39
सिंहासनं व्याघ्रतनुः समिधश्च हुताशनः।
सर्वे वादित्रसङ्घाश्च वेश्याश्चालंकृताः स्त्रियः ॥ २.१४.३९ ॥
獅子の座、虎の皮、供犠の薪と聖火、すべての楽器の一団、そして着飾った遊女と女性たち。
2.14.40
आचार्या ब्राह्मणा गावः पुण्याश्च मृगपक्षिणः।
पौरजानपदश्रेष्ठा नैगमाश्च गणैः सह ॥ २.१४.४० ॥
師匠たち、バラモン、牛、吉祥の鹿と鳥、都と地方の長老たち、そして組合を率いる商人たち。
2.14.41
एते चान्ये च बहवः प्रीयमाणाः प्रियंवदाः।
अभिषेकाय रामस्य सह तिष्ठन्ति पार्थिवैः ॥ २.१४.४१ ॥
彼らと他の多くの者たちは、喜び、優しく語りながら、王たちとともにラーマの灌頂のために立っている。
2.14.42
त्वरयस्व महाराजं यथा समुदितेऽहनि।
पुष्ये नक्षत्रयोगे च रामो राज्यमवाप्नुयात् ॥ २.१४.४२ ॥
偉大な王を急がせよ。吉日となり、プシュヤ星の合にあたるとき、ラーマが王国を得られるように。
2.14.43
स्तुवन् नृपतिशार्दूलं प्रविवेश निवेशनम् ॥ २.१४.४३ ॥
王の中の虎であるその君主を讃えながら、彼は宮殿に入った。
2.14.44
तं तु पूर्वोदितं वृद्धं द्वारस्था राजसम्मताः।
न शेकुरभिसंरोद्धुं राज्ञः प्रियचिकीर्षवः ॥ २.१४.४४ ॥
門に控える王に重んじられた従者たちは、先に述べられた老人を止めることができなかった。王の心に適うことを望んでいたからである。
2.14.45
स समीपस्थितो राज्ञस्तामवस्थामजज्ञिवान्।
वाग्भिः परमतुष्टाभिरभिष्टोतुं प्रचक्रमे ॥ २.१४.४५ ॥
王のそばに立っていた彼は、王の状態を悟り、非常に喜ばしい言葉で王を讃え始めた。
2.14.46
ततः सूतो यथापूर्वं पार्थिवस्य निवेशने।
सुमन्त्रः प्राञ्जलिर्भूत्वा तुष्टाव जगतीपतिम् ॥ २.१४.४६ ॥
そこで御者スマントラは、以前と同じく宮殿で合掌して立ち、大地の主を讃えた。
2.14.47
यथा नन्दति तेजस्वी सागरो भास्करोदये।
प्रीतः प्रीतेन मनसा तथा नन्दय नस्ततः ॥ २.१४.४७ ॥
輝く海が日の出に喜ぶように、喜ばしい心で喜ばれ、どうか私たちをも喜ばせてください。
2.14.48
इन्द्रमस्यां तु वेलायामभितुष्टाव मातलिः।
सोऽजयद् दानवान् सर्वांस्तथा त्वां बोधयाम्यहम् ॥ २.१४.४८ ॥
この時刻に、マータリはインドラを讃えた。彼はすべてのダーナヴァを征服した。そのように私はあなたに思い出させる。
2.14.49
वेदाः सहाङ्गा विद्याश्च यथा ह्यात्मभुवं प्रभुम्।
ब्रह्माणं बोधयन्त्यद्य तथा त्वां बोधयाम्यहम् ॥ २.१४.४९ ॥
支分を備えたヴェーダと諸学が、今日、自生の主ブラフマーを目覚めさせるように、私はあなたを目覚めさせる。
2.14.50
आदित्यः सह चन्द्रेण यथा भूतधरां शुभाम्।
बोधयत्यद्य पृथिवीं तथा त्वां बोधयाम्यहम् ॥ २.१४.५० ॥
月とともに太陽が、今日、万物を支える吉祥な大地を目覚めさせるように、私はあなたを目覚めさせる。
2.14.51
उत्तिष्ठ सुमहाराज कृतकौतुकमङ्गलः।
विराजमानो वपुषा मेरोरिव दिवाकरः ॥ २.१४.५१ ॥
偉大な王よ、お立ちなさい。吉祥の儀式を終え、メール山に昇った太陽のように御身が輝かれますように。
2.14.52
सोमसूर्यौ च काकुत्स्थ शिववैश्रवणावपि।
वरुणश्चाग्निरिन्द्रश्च विजयं प्रदिशन्तु ते ॥ २.१४.५२ ॥
カークツトゥサよ、ソーマとスーリヤ、シヴァとヴァイシュラヴァナ、ヴァルナ、アグニ、インドラがあなたに勝利を授けられますように。
2.14.53
गता भगवती रात्रिः कृतं कृत्यमिदं तव।
बुध्यस्व नृपशार्दूल कुरु कार्यमनन्तरम् ॥ २.१४.५३ ॥
尊い夜は過ぎ去り、あなたのこの務めは果たされました。王者の中の虎よ、目覚めて次の務めを行いなさい。
2.14.54
उदतिष्ठत रामस्य समग्रमभिषेचनम्।
पौरजानपदाश्चापि नैगमश्च कृताञ्जलिः ॥ २.१४.५४ ॥
ラーマの灌頂の儀式の全体が始まった。都の人々、地方の人々、商人の組合もまた合掌して立った。
2.14.55
स्वयं वसिष्ठो भगवान् ब्राह्मणैः सह तिष्ठति।
क्षिप्रमाज्ञाप्यतां राजन् राघवस्याभिषेचनम् ॥ २.१४.५५ ॥
尊者ヴァシシュタ自身が婆羅門たちと共に待っております。王よ、ラーghava(ラーマ)の灌頂を速やかにお命じください。
2.14.56
यथा ह्यपालाः पशवो यथा सेना ह्यनायका।
यथा चन्द्रं विना रात्रिर्यथा गावो विना वृषम् ॥ २.१४.५६ ॥
牧者のいない家畜のように、指揮者のいない軍のように、月のない夜のように、雄牛のいない牝牛のように。
2.14.57
एवं हि भविता राष्ट्रं यत्र राजा न दृश्यते।
एवं तस्य वचः श्रुत्वा सान्त्वपूर्वमिवार्थवत् ॥ २.१४.५७ ॥
王の姿が見えない国は、このようになるのです。その言葉を聞くと、慰めを先にしつつ意味深く語られたかのようでした。
2.14.58
अभ्यकीर्यत शोकेन भूय एव महीपतिः।
ततस्तु राजा तं सूतं सन्नहर्षः सुतं प्रति ॥ २.१४.५८ ॥
王は再び悲しみに襲われた。そして王は、息子を思って心を乱しながら、その御者に語りかけた。
2.14.59
शोकरक्तेक्षणः श्रीमानुद्वीक्ष्योवाच धार्मिकः।
वाक्यैस्तु खलु मर्माणि मम भूयो निकृन्तसि ॥ २.१४.५९ ॥
悲しみで目を赤く腫らした、栄光あり正しい王は顔を上げて言った。「お前は言葉で、またしても私の急所を切り裂いている。」
2.14.60
सुमन्त्रः करुणं श्रुत्वा दृष्ट्वा दीनं च पार्थिवम्।
प्रगृहीताञ्जलिः किंचित् तस्माद् देशादपाक्रमत् ॥ २.१४.६० ॥
スマントラは、その哀れな言葉を聞き、哀れな王を見て、合掌しながらその場所から少し退いた。
2.14.61
यदा वक्तुं स्वयं दैन्यान्न शशाक महीपतिः।
तदा सुमन्त्रं मन्त्रज्ञा कैकेयी प्रत्युवाच ह ॥ २.१४.६१ ॥
王は悲しみのため自ら語ることができなかったので、策略に通じたカイケーイーがスマントラに答えた。
2.14.62
सुमन्त्र राजा रजनीं रामहर्षसमुत्सुकः।
प्रजागरपरिश्रान्तो निद्रावशमुपागतः ॥ २.१४.६२ ॥
スマントラよ、ラーマを思う喜びに心逸らせた王は、一晩中眠らずに疲れ、今は眠りの支配下に落ちた。
2.14.63
तद् गच्छ त्वरितं सूत राजपुत्रं यशस्विनम्।
राममानय भद्रं ते नात्र कार्या विचारणा ॥ २.१४.६३ ॥
だから御者よ、急いで行って、名高い王子ラーマを連れてきなさい。あなたに幸いがあるように。ここで考える必要はない。
2.14.64
अश्रुत्वा राजवचनं कथं गच्छामि भामिनि।
तच्छ्रुत्वा मन्त्रिणो वाक्यं राजा मन्त्रिणमब्रवीत् ॥ २.१४.६४ ॥
輝ける夫人よ、王の言葉を聞かずに、どうして私が行けましょうか。大臣のその言葉を聞いて、王は大臣に言った。
2.14.65
सुमन्त्र रामं द्रक्ष्यामि शीघ्रमानय सुन्दरम्।
स मन्यमानः कल्याणं हृदयेन ननन्द च ॥ २.१४.६५ ॥
スマントラよ、私はラーマに会おう。あの美しい人を急いで連れてきなさい。これを吉兆と思い、彼は心に喜んだ。
2.14.66
निर्जगाम च स प्रीत्या त्वरितो राजशासनात्।
सुमन्त्रश्चिन्तयामास त्वरितं चोदितस्तया ॥ २.१४.६६ ॥
王の命に喜び勇んで、彼は出て行った。しかしスマントラは彼女に急き立てられ、思い悩み始めた。
2.14.68
व्यक्तं रामाभिषेकार्थे इहायास्यति धर्मराट्।
निर्जगाम महातेजा राघवस्य दिदृक्षया।
सागरह्रदसंकाशात्सुमन्त्रोऽन्तःपुराच्छुभात्।
निष्क्रम्य जनसम्बाधं ददर्श द्वारमग्रतः ॥ २.१४.६८ ॥
法王(ダシャラタ)がラーマの灌頂のためにここへ来られることは明らかである。ラーガヴァを見たいと願い、大いなる輝きをもつスマントラは、海の湖のような吉祥の後宮から出て、人で溢れる門を前に見た。
2.14.69
ततः पुरस्तात् सहसा विनिःसृतो
महीपतेर्द्वारगतान् विलोकयन्।
ददर्श पौरान् विविधान् महाधना-
नुपस्थितान् द्वारमुपेत्य विष्ठितान् ॥ २.१४.६९ ॥
そして、王宮の前から突然出て、門にいる人々を見ながら、門に近づいて立っていた様々な大富豪の町人たちを見た。