ヴァールミーキのラーマーヤナ · サルガ 2.15
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
2.15.1
ते तु तां रजनीमुष्य ब्राह्मणा वेदपारगाः।
उपतस्थुरुपस्थानं सह राजपुरोहिताः ॥ २.१५.१ ॥
その夜を過ごした後、ヴェーダに通じたバラモンたちは王の祭司たちとともに王の集会に参じた。
2.15.2
अमात्या बलमुख्याश्च मुख्या ये निगमस्य च।
राघवस्याभिषेकार्थे प्रीयमाणाः सुसंगताः ॥ २.१५.२ ॥
大臣、軍の長、そして都の有力者たちは、ラーghavaの灌頂を喜び、よく集まった。
2.15.3
उदिते विमले सूर्ये पुष्ये चाभ्यागतेऽहनि।
लग्ने कर्कटके प्राप्ते जन्म रामस्य च स्थिते ॥ २.१५.३ ॥
澄んだ太陽が昇り、プシュヤの星宿が巡ってきた日、蟹座が上昇宮に達し、ラーマの誕生星も在るとき。
2.15.4
अभिषेकाय रामस्य द्विजेन्द्रैरुपकल्पितम्।
काञ्चना जलकुम्भाश्च भद्रपीठं स्वलंकृतम् ॥ २.१५.४ ॥
ラーマの灌頂のために、優れた婆羅門たちが金の水瓶と見事に飾られた吉祥の座を用意した。
2.15.5
रथश्च सम्यगास्तीर्णो भास्वता व्याघ्रचर्मणा।
गङ्गायमुनयोः पुण्यात् संगमादाहृतं जलम् ॥ २.१५.५ ॥
輝く虎の皮で見事に敷かれた戦車と、ガンジス川とヤムナー川の聖なる合流点から運ばれた水。
2.15.6
याश्चान्याः सरितः पुण्या ह्रदाः कूपाः सरांसि च।
प्राग्वहाश्चोर्ध्ववाहाश्च तिर्यग्वाहाश्च क्षीरिणः ॥ २.१५.६ ॥
その他の聖なる川、湖、井戸、池、東へ流れ、上へ流れ、横へ流れる水、そして乳のような水。
2.15.7
ताभ्यश्चैवाहृतं तोयं समुद्रेभ्यश्च सर्वशः।
क्षौद्रं दधि घृतं लाजा दर्भाः सुमनसः पयः ॥ २.१५.७ ॥
それらの川や池、井戸、そしてすべての海から水が運ばれ、蜂蜜、凝乳、澄ましバター、炒り麦、吉祥草、花、牛乳も運ばれた。
2.15.8
अष्टौ च कन्या रुचिरा मत्तश्च वरवारणः।
सजलाः क्षीरिभिश्छन्ना घटाः काञ्चनराजताः ॥ २.१५.८ ॥
八人の美しい乙女と優れた象もあった。水で満たされ、乳を出す枝で覆われた金と銀の壺があった。
2.15.9
पद्मोत्पलयुता भान्ति पूर्णाः परमवारिणा।
चन्द्रांशुविकचप्रख्यं पाण्डुरं रत्नभूषितम् ॥ २.१५.९ ॥
最上の水で満たされ、蓮と青蓮で飾られた壺は輝いていた。月光に咲く花のように白く、宝石で飾られていた。
2.15.10
सज्जं तिष्ठति रामस्य वालव्यजनमुत्तमम्।
चन्द्रमण्डलसंकाशमातपत्रं च पाण्डुरम् ॥ २.१५.१० ॥
ラーマのために用意された優れた牦牛尾の払子が立てられており、月輪のように白い日傘も用意されている。
2.15.11
सज्जं द्युतिकरं श्रीमदभिषेकपुरस्सरम्।
पाण्डुरश्च वृषः सज्जः पाण्डुराश्वश्च संस्थितः ॥ २.१५.११ ॥
灌頂に先立つ輝かしく吉祥なものが整っている。白い牡牛は準備され、白い馬も立っている。
2.15.12
वादित्राणि च सर्वाणि वन्दिनश्च तथापरे।
इक्ष्वाकूणां यथा राज्ये सम्भ्रियेताभिषेचनम् ॥ २.१५.१२ ॥
あらゆる楽器と吟遊詩人らも準備が整っている。イクシュヴァーク族の王国で灌頂が執り行われるのと同じように。
2.15.13
तथाजातीयमादाय राजपुत्राभिषेचनम्।
ते राजवचनात् तत्र समवेता महीपतिम् ॥ २.१५.१३ ॥
王子の灌頂の品々を持ち、王の命により、彼らはそこで大地の主のもとに集まった。
2.15.14
अपश्यन्तोऽब्रुवन् को नु राज्ञो नः प्रतिवेदयेत्।
न पश्यामश्च राजानमुदितश्च दिवाकरः ॥ २.१५.१४ ॥
王の姿が見えず、彼らは言った。「王の言葉を誰が我々に伝えるのか。我々は王を見ていない。もう太陽も昇った。」
2.15.16
यौवराज्याभिषेकश्च सज्जो रामस्य धीमतः।
अब्रवीत् तानिदं वाक्यं सुमन्त्रो राजसत्कृतः।
रामं राज्ञो नियोगेन त्वरया प्रस्थितो ह्यहम् ॥ २.१५.१६ ॥
聡明なラーマの太子灌頂は準備が整っていた。王に敬われたスマントラは彼らにこう言った。「王の命により、私は急いでラーマのもとへ遣わされたのだ。」
2.15.17
पूज्या राज्ञो भवन्तश्च रामस्य तु विशेषतः।
अयं पृच्छामि वचनात् सुखमायुष्मतामहम् ॥ २.१५.१७ ॥
あなた方は王に、とりわけラーマに尊ばれる方々です。王の命により、長寿の皆様、お元気かどうかお尋ねします。
2.15.18
राज्ञः सम्प्रतिबुद्धस्य चानागमनकारणम्।
इत्युक्त्वान्तःपुरद्वारमाजगाम पुराणवित् ॥ २.१५.१८ ॥
王が目覚めても来なかった理由をこう告げて、古伝に通じたスマントラは後宮の門へ来た。
2.15.19
सदा सक्तं च तद् वेश्म सुमन्त्रः प्रविवेश ह।
तुष्टावास्य तदा वंशं प्रविश्य स विशाम्पतेः ॥ २.१५.१९ ॥
スマントラは、常に王と結ばれたその宮殿に入った。入ると、人々の主である王の血統を讃えた。
2.15.20
शयनीयं नरेन्द्रस्य तदासाद्य व्यतिष्ठत।
सोऽत्यासाद्य तु तद् वेश्म तिरस्करणिमन्तरा ॥ २.१५.२० ॥
王の寝台に至り、彼は立ち止まった。そしてその居室で、帳の内側へさらに近づいた。
2.15.21
आशीर्भिर्गुणयुक्ताभिरभितुष्टाव राघवम्।
सोमसूर्यौ च काकुत्स्थ शिववैश्रवणावपि ॥ २.१५.२१ ॥
徳に満ちた祝福の言葉でラーガヴァを讃えた。ああカークツストよ、月と太陽、そしてシヴァとヴァイシュラヴァナをも。
2.15.22
वरुणश्चाग्निरिन्द्रश्च विजयं प्रदिशन्तु ते।
गता भगवती रात्रिरहः शिवमुपस्थितम् ॥ २.१५.२२ ॥
ヴァルナ、アグニ、インドラがあなたに勝利を与えますように。尊き夜は過ぎ去り、吉祥の日が訪れました。
2.15.23
बुद्ध्यस्व राजशार्दूल कुरु कार्यमनन्तरम्।
ब्राह्मणा बलमुख्याश्च नैगमाश्चागतास्त्विह ॥ २.१५.२३ ॥
目覚めてください、王者の中の虎よ。次の務めを果たしてください。バラモン、主だった武将、町の商人たちがここに来ています。
2.15.24
दर्शनं तेऽभिकांक्षन्ते प्रतिबुद्ध्यस्व राघव।
स्तुवन्तं तं तदा सूतं सुमन्त्रं मन्त्रकोविदम् ॥ २.१५.२४ ॥
彼らはあなたへの謁見を望んでいます。ラーガヴァよ、完全に目覚めてください。そのとき、策略に長けた御者スマントラを讃えながら——
2.15.25
प्रतिबुद्ध्य ततो राजा इदं वचनमब्रवीत्।
राममानय सूतेति यदस्यभिहितो मया ॥ २.१५.२५ ॥
そして目覚めた王はこう言った。「御者よ、ラーマを連れてこい」と、私が彼に命じたとおりに。
2.15.26
किमिदं कारणं येन ममाज्ञा प्रतिवाह्यते।
न चैव सम्प्रसुप्तोऽहमानयेहाशु राघवम् ॥ २.१५.२६ ॥
なぜ私の命令が無視されているのか。私は深く眠ってはいない。速やかにラーガヴァ(ラーマ)をここへ連れて来い。
2.15.27
स राजवचनं श्रुत्वा शिरसा प्रतिपूज्य तम् ॥ २.१५.२७ ॥
王の言葉を聞き、頭を垂れて敬意をもって礼拝した。
2.15.28
निर्जगाम नृपावासान्मन्यमानः प्रियं महत्।
प्रपन्नो राजमार्गं च पताकाध्वजशोभितम् ॥ २.१५.२८ ॥
大きな喜ばしい知らせだと思い、王の館を出て、旗と幡で飾られた王道に至った。
2.15.29
हृष्टः प्रमुदितः सूतो जगामाशु विलोकयन्।
स सूतस्तत्र शुश्राव रामाधिकरणाः कथाः ॥ २.१५.२९ ॥
喜びに満ちた御者は、あたりを見回しながら速やかに進んだ。そこで彼はラーマに関する話を聞いた。
2.15.30
अभिषेचनसंयुक्ताः सर्वलोकस्य हृष्टवत्।
ततो ददर्श रुचिरं कैलाससदृशप्रभम् ॥ २.१५.३० ॥
(彼は)すべての人々が戴冠について喜び語るのを聞いた。やがて彼は、カイラーサのように輝く美しい(宮殿)を見た。
2.15.31
रामवेश्म सुमन्त्रस्तु शक्रवेश्मसमप्रभम्।
महाकपाटपिहितं वितर्दिशतशोभितम् ॥ २.१५.३१ ॥
スマントラはラーマの館を見た。それはインドラの宮殿のように輝き、大きな扉で閉ざされ、何百もの高台で飾られていた。
2.15.32
काञ्चनप्रतिमैकाग्रं मणिविद्रुमतोरणम्।
शारदाभ्रघनप्रख्यं दीप्तं मेरुगुहासमम् ॥ २.१५.३२ ॥
黄金のように輝き、ただ一つの頂をもち、宝玉と珊瑚の門楼で飾られていた。秋の濃い雲のように輝き、メール山の洞窟のように光り輝いていた。
2.15.33
मणिभिर्वरमाल्यानां सुमहद्भिरलंकृतम्।
मुक्तामणिभिराकीर्णं चन्दनागुरुभूषितम् ॥ २.१५.३३ ॥
上等の花輪の大きな宝玉で飾られ、真珠と宝石が散りばめられ、白檀と沈香で彩られていた。
2.15.34
गन्धान् मनोज्ञान् विसृजद् दार्दुरं शिखरं यथा।
सारसैश्च मयूरैश्च विनदद्भिर्विराजितम् ॥ २.१५.३४ ॥
心地よい香りを放ち、ダールドゥラ山の頂のようであった。鶴と孔雀が鳴き交わして輝いていた。
2.15.35
सुकृतेहामृगाकीर्णमुत्कीर्णं भक्तिभिस्तथा।
मनश्चक्षुश्च भूतानामाददत् तिग्मतेजसा ॥ २.१५.३५ ॥
精巧に作られた鹿の像で満ち、細かな彫刻で刻まれていた。その鋭い輝きは、あらゆる生き物の心と目を奪った。
2.15.36
चन्द्रभास्करसंकाशं कुबेरभवनोपमम्।
महेन्द्रधामप्रतिमं नानापक्षिसमाकुलम् ॥ २.१५.३६ ॥
月と太陽のようであり、クベーラの館、インドラの宮殿のようであった。多くの種類の鳥で満ちていた。
2.15.37
मेरुशृङ्गसमं सूतो रामवेश्म ददर्श ह।
उपस्थितैः समाकीर्णं जनैरञ्जलिकारिभिः ॥ २.१५.३७ ॥
御者は、メール山の頂のようなラーマの館を見た。そこには合掌して立つ人々が満ちていた。
2.15.38
उपादाय समाक्रान्तैस्तदा जानपदैर्जनैः।
रामाभिषेकसुमुखैरुन्मुखैः समलंकृतम् ॥ २.१५.३८ ॥
そのとき、町の人々や田舎の人々が押し寄せていた。ラーマの灌頂の知らせに顔を輝かせ、待ちきれず上を仰ぎ見ていた。その場所は飾り立てられていた。
2.15.39
महामेघसमप्रख्यमुदग्रं सुविराजितम्।
नानारत्नसमाकीर्णं कुब्जकैरपि चावृतम् ॥ २.१५.३९ ॥
それは大きな雲のように高く、見事に輝き、さまざまな宝玉で満ち、せむしの侍女たちにも囲まれていた。
2.15.40
स वाजियुक्तेन रथेन सारथिः
समाकुलं राजकुलं विराजयन्।
वरूथिना राजगृहाभिपातिना
पुरस्य सर्वस्य मनांसि हर्षयन् ॥ २.१५.४० ॥
その御者は馬をつないだ戦車に乗り、護衛の一隊と共に王宮へ近づき、人で溢れた王家を飾り、町中の人々の心を喜ばせた。
2.15.41
ततः समासाद्य महाधनं महत्
प्रहृष्टरोमा स बभूव सारथिः।
मृगैर्मयूरैश्च समाकुलोल्बणं
गृहं वरार्हस्य शचीपतेरिव ॥ २.१५.४१ ॥
やがてその莫大な富を持つ大きな館に着くと、御者は喜びに身の毛がよだった。鹿と孔雀に満ちたその館は、シャチーの夫インドラにふさわしい最高の住まいのように見えた。
2.15.42
स तत्र कैलासनिभाः स्वलंकृताः
प्रविश्य कक्ष्यास्त्रिदशालयोपमाः।
प्रियान् वरान् राममते स्थितान् बहून्
व्यपोह्य शुद्धान्तमुपस्थितौ रथी ॥ २.१५.४२ ॥
御者はそこで、カイラーサのように、また神々の住まいのように美しく飾られた広間に入り、ラーマに献身して立っていた多くの親しく優れた人々を退けて、内殿へと近づいた。
2.15.43
स तत्र शुश्राव च हर्षयुक्ता
रामाभिषेकार्थकृतां जनानाम्।
नरेन्द्रसूनोरभिमङ्गलार्थाः
सर्वस्य लोकस्य गिरः प्रहृष्टाः ॥ २.१५.४३ ॥
そこで彼は、ラーマの灌頂の準備をしている人々の喜びの声を聞いた。王子の幸いのために語られた、全世界の喜びの声であった。
2.15.44
महेन्द्रसद्मप्रतिमं च वेश्म
रामस्य रम्यं मृगपक्षिजुष्टम्।
ददर्श मेरोरिव शृङ्गमुच्चं
विभ्राजमानं प्रभया सुमन्त्रः ॥ २.१५.४४ ॥
スマントラは、インドラの住処のようで、鹿や鳥が集う、メール山の高い峰のようにその輝きで照り映えるラーマの美しい館を見た。
2.15.45
उपस्थितैरञ्जलिकारिभिश्च
सोपायनैर्जानपदैर्जनैश्च।
कोट्या परार्धैश्च विमुक्तयानैः
समाकुलं द्वारपदं ददर्श ॥ २.१५.४५ ॥
スマントラは宮殿の門が人で埋め尽くされているのを見た。合掌して立つ地方の人々や他の人々は供物を携え、乗り物から降りた何千万もの、数えきれない人々がいた。
2.15.46
ततो महामेघमहीधराभं
प्रभिन्नमत्यङ्कुशमत्यसह्यम्।
रामोपवाह्यं रुचिरं ददर्श
शत्रुञ्जयं नागमुदग्रकायम् ॥ २.१५.४६ ॥
そして彼はラーマの象を見た。大きな雲や山のようで、発情して、象の鉤でも制御できず、耐えがたいほど荒々しく、美しく、敵を征服する者、高大な身体を持つ、ラーマが乗る象である。
2.15.47
स्वलंकृतान् साश्वरथान् सकुञ्जरा-
नमात्यमुख्यांश्च ददर्श वल्लभान्।
व्यपोह्य सूतः सहितान् समन्ततः
समृद्धमन्तःपुरमाविवेश ह ॥ २.१५.४७ ॥
見事に飾られた馬、戦車、象、そして大臣や寵臣たちを見て、御者スマントラは周りの人々を退け、繁栄する後宮へと入った。
2.15.48
ततोऽद्रिकूटाचलमेघसंनिभं
महाविमानोपमवेश्मसंयुतम्।
अवार्यमाणः प्रविवेश सारथिः
प्रभूतरत्नं मकरो यथार्णवम् ॥ २.१५.४८ ॥
すると御者は、山の頂や雲のようで、天界の宮殿のような大きな館を備えたその邸宅へ、妨げられることなく入った。それは宝に満ちた海に入るマカラのようであった。