蚁垤《罗摩衍那》 · 篇 2.2
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
2.2.1
ततः परिषदं सर्वामामन्त्र्य वसुधाधिपः।
हितमुद्धर्षणं चैवमुवाच प्रथितं वचः ॥ २.२.१ ॥
于是国王召集全体大会,说出这些有益、令人欢欣而著名的话语。
2.2.2
दुन्दुभिस्वरकल्पेन गम्भीरेणानुनादिना।
स्वरेण महता राजा जीमूत इव नादयन् ॥ २.२.२ ॥
国王以如战鼓般深沉回响的洪亮声音说话,如云中雷鸣。
2.2.3
राजलक्षणयुक्तेन कान्तेनानुपमेन च।
उवाच रसयुक्तेन स्वरेण नृपतिर्नृपान् ॥ २.२.३ ॥
国王以具有王者气度、优美无比、饱含情意的声音对诸王说话。
2.2.4
विदितं भवतामेतद् यथा मे राज्यमुत्तमम्।
पूर्वकैर्मम राजेन्द्रैः सुतवत् परिपालितम् ॥ २.२.४ ॥
你们都知道,我这excellent的王国曾由我先前的诸位最优秀国王如待子嗣般守护。
2.2.5
सोऽहमिक्ष्वाकुभिः सर्वैर्नरेन्द्रैः प्रतिपालितम्।
श्रेयसा योक्तुमिच्छामि सुखार्हमखिलं जगत् ॥ २.२.५ ॥
我受伊克什瓦库诸王守护,愿以福祉惠及这整个值得安乐的世界。
2.2.6
मयाप्याचरितं पूर्वैः पन्थानमनुगच्छता।
प्रजा नित्यमनिद्रेण यथाशक्त्यभिरक्षिताः ॥ २.२.६ ॥
我循着先王们的道路前行,始终不眠地尽力守护臣民。
2.2.7
इदं शरीरं कृत्स्नस्य लोकस्य चरता हितम्।
पाण्डुरस्यातपत्रस्य च्छायायां जरितं मया ॥ २.२.७ ॥
这身躯为整个世界的福祉奔走,在白色华盖的荫下已经衰老。
2.2.8
प्राप्य वर्षसहस्राणि बहून्यायूंषि जीवतः।
जीर्णस्यास्य शरीरस्य विश्रान्तिमभिरोचये ॥ २.२.८ ॥
我已得享千年之寿,如今希望让这衰老的身体得到休息。
2.2.9
राजप्रभावजुष्टां च दुर्वहामजितेन्द्रियैः।
परिश्रान्तोऽस्मि लोकस्य गुर्वीं धर्मधुरं वहन् ॥ २.२.९ ॥
背负着沉重的法度之轭,这是不能自制者难以承受的,又带着王权的威仪,我为承载世间的重任而疲惫不堪。
2.2.10
सोऽहं विश्राममिच्छामि पुत्रं कृत्वा प्रजाहिते।
संनिकृष्टानिमान् सर्वाननुमान्य द्विजर्षभान् ॥ २.२.१० ॥
因此,我愿为民众之福祉立子为王,然后休息,并先征得在此的所有贤能婆罗门的同意。
2.2.11
अनुजातो हि मां सर्वैर्गुणैः श्रेष्ठो ममात्मजः।
पुरन्दरसमो वीर्ये रामः परपुरंजयः ॥ २.२.११ ॥
我的儿子罗摩,虽在我之后出生,却在一切品德上最为出众;勇力与因陀罗相当,是征服敌城的英雄。
2.2.12
तं चन्द्रमिव पुष्येण युक्तं धर्मभृतां वरम्।
यौवराज्ये नियोक्तास्मि प्रातः पुरुषपुङ्गवम् ॥ २.२.१२ ॥
我将于明晨任命他为太子:他如同与星宿“弗沙”相合的月亮,是奉持法度者中最杰出的人中之雄。
2.2.13
अनुरूपः स वो नाथो लक्ष्मीवाँल्लक्ष्मणाग्रजः।
त्रैलोक्यमपि नाथेन येन स्यान्नाथवत्तरम् ॥ २.२.१३ ॥
他是罗什曼那的长兄,光辉而相称,是你们的主君;有这样的主君,三界也会更加有所依怙。
2.2.14
अनेन श्रेयसा सद्यः संयोक्ष्येऽहमिमां महीम्।
गतक्लेशो भविष्यामि सुते तस्मिन् निवेश्य वै ॥ २.२.१४ ॥
凭着这份吉祥,我将立即统合这片大地;把重任托付给那个儿子之后,我必将免除忧患。
2.2.15
यदिदं मेऽनुरूपार्थं मया साधु सुमन्त्रितम्।
भवन्तो मेऽनुमन्यन्तां कथं वा करवाण्यहम् ॥ २.२.१५ ॥
我已审慎考虑了这个恰当的计划,请诸位赞同。或者,我该如何去做呢?
2.2.16
यद्यप्येषा मम प्रीतिर्हितमन्यद् विचिन्त्यताम्।
अन्या मध्यस्थचिन्ता तु विमर्दाभ्यधिकोदया ॥ २.२.१६ ॥
虽然这是我的心愿,但也请考虑另一件有益之事;公正调停者的想法不同,其兴起胜过单纯的争执。
2.2.17
वृष्टिमन्तं महामेघं नर्दन्त इव बर्हिणः ॥ २.२.१७ ॥
如同孔雀见到满载雨水的大云而鸣叫,他们一齐欢呼。
2.2.18
स्निग्धोऽनुनादः संजज्ञे ततो हर्षसमीरितः।
जनौघोद्घुष्टसंनादो मेदिनीं कम्पयन्निव ॥ २.२.१८ ॥
于是,因喜悦而兴起一阵柔和的回响;人群的高声欢呼,仿佛使大地为之震动。
2.2.19
तस्य धर्मार्थविदुषो भावमाज्ञाय सर्वशः।
ब्राह्मणा बलमुख्याश्च पौरजानपदैः सह ॥ २.२.१९ ॥
众人充分理解了这位通晓法与利之人的心意,婆罗门、军中首领、城中居民与乡间百姓一同聚集。
2.2.20
समेत्य ते मन्त्रयितुं समतागतबुद्धयः।
ऊचुश्च मनसा ज्ञात्वा वृद्धं दशरथं नृपम् ॥ २.२.२० ॥
众人聚集商议,心志一致,在心中思量之后,向年迈的国王十车王说道。
2.2.21
अनेकवर्षसाहस्रो वृद्धस्त्वमसि पार्थिव।
स रामं युवराजानमभिषिञ्चस्व पार्थिवम् ॥ २.२.२१ ॥
陛下,您已是历经数千年的老人。因此请为太子罗摩行灌顶之礼吧,陛下。
2.2.22
इच्छामो हि महाबाहुं रघुवीरं महाबलम्।
गजेन महता यान्तं रामं छत्रावृताननम् ॥ २.२.२२ ॥
我们愿见到臂膀雄壮的罗摩,罗怙族的英雄,大力之人,乘坐大象而行,面庞被华盖遮蔽。
2.2.23
अजानन्निव जिज्ञासुरिदं वचनमब्रवीत् ॥ २.२.२३ ॥
他仿佛不知情,想要探问,便说出了这番话。
2.2.24
श्रुत्वैतद् वचनं यन्मे राघवं पतिमिच्छथ।
राजानः संशयोऽयं मे तदिदं ब्रूत तत्त्वतः ॥ २.२.२४ ॥
诸位国王,听到你们想让罗怙后裔成为我的夫君这番话,我心有疑惑。请如实告诉我。
2.2.25
कथं नु मयि धर्मेण पृथिवीमनुशासति।
भवन्तो द्रष्टुमिच्छन्ति युवराजं महाबलम् ॥ २.२.२५ ॥
我以法治理大地,你们为何想见这位大力的太子?
2.2.26
ते तमूचुर्महात्मानः पौरजानपदैः सह।
बहवो नृप कल्याणगुणाः सन्ति सुतस्य ते ॥ २.२.२६ ॥
那些高尚的人与城市居民和乡村民众一起对他说:“大王啊,您的儿子具有许多吉祥的美德。”
2.2.27
गुणान् गुणवतो देव देवकल्पस्य धीमतः।
प्रियानानन्दनान् कृत्स्नान् प्रवक्ष्यामोऽद्य तान्शृणु ॥ २.२.२७ ॥
大王啊,今天我们将述说您那德行高尚、如神一般、聪明睿智的儿子所有可爱而令人欢喜的美德;请听。
2.2.28
दिव्यैर्गुणैः शक्रसमो रामः सत्यपराक्रमः।
इक्ष्वाकुभ्योऽपि सर्वेभ्यो ह्यतिरिक्तो विशाम्पते ॥ २.२.२८ ॥
罗摩在神圣的品德上与因陀罗相当,有真正的勇武;人民之主啊,他超越所有的甘蔗王族。
2.2.29
रामः सत्पुरुषो लोके सत्यः सत्यपरायणः।
साक्षाद् रामाद् विनिर्वृत्तो धर्मश्चापि श्रिया सह ॥ २.२.२९ ॥
罗摩在世上是善人,诚实而专注于真理;从罗摩本身,法与吉祥天一同从未分离。
2.2.30
प्रजासुखत्वे चन्द्रस्य वसुधायाः क्षमागुणैः।
बुद्ध्या बृहस्पतेस्तुल्यो वीर्ये साक्षाच्छचीपतेः ॥ २.२.३० ॥
在使人民快乐方面如同月亮,在忍耐的品德上如同大地,在智慧上与布里哈斯帕蒂相等,在勇力上真正与舍till之主(因陀罗)相等。
2.2.31
धर्मज्ञः सत्यसंधश्च शीलवाननसूयकः।
क्षान्तः सान्त्वयिता श्लक्ष्णः कृतज्ञो विजितेन्द्रियः ॥ २.२.३१ ॥
他通晓法,坚守真实的誓言,品行良善,没有嫉妒,忍耐,善于安慰,温和,知恩图报,并且克制了自己的感官。
2.2.32
मृदुश्च स्थिरचित्तश्च सदा भव्योऽनसूयकः।
प्रियवादी च भूतानां सत्यवादी च राघवः ॥ २.२.३२ ॥
罗怙之后(罗摩)温和而心志坚定,始终吉祥而无嫉妒,对一切众生说话和悦,且说真话。
2.2.33
बहुश्रुतानां वृद्धानां ब्राह्मणानामुपासिता।
तेनास्येहातुला कीर्तिर्यशस्तेजश्च वर्धते ॥ २.२.३३ ॥
他侍奉博学的长者和婆罗门;因此他在此世的无与伦比的名声、荣誉与光辉日益增长。
2.2.34
देवासुरमनुष्याणां सर्वास्त्रेषु विशारदः।
सम्यग् विद्याव्रतस्नातो यथावत् साङ्गवेदवित् ॥ २.२.३४ ॥
他精通神、阿修罗与人类的一切兵器;他已在学问的誓愿中完全沐浴,并如法地通晓附属学科在内的吠陀。
2.2.35
गान्धर्वे च भुवि श्रेष्ठो बभूव भरताग्रजः।
कल्याणाभिजनः साधुरदीनात्मा महामतिः ॥ २.२.३५ ॥
他在大地上即使在乾达婆(音乐)之艺中也是第一;他是婆罗多的兄长,出身吉祥的家族,善良、心志不屈、大智慧。
2.2.36
द्विजैरभिविनीतश्च श्रेष्ठैर्धर्मार्थनैपुणैः।
यदा व्रजति संग्रामं ग्रामार्थे नगरस्य वा ॥ २.२.३६ ॥
他曾由最优秀的再生者(婆罗门)充分教导,他们精通法与利;当他为村庄或城市出征作战时,
2.2.37
गत्वा सौमित्रिसहितो नाविजित्य निवर्तते।
संग्रामात् पुनरागत्य कुञ्जरेण रथेन वा ॥ २.२.३७ ॥
与苏弥陀罗(罗什曼那)同行,不胜便不回还;自战场归来,乘象或乘车而至。
2.2.38
पौरान् स्वजनवन्नित्यं कुशलं परिपृच्छति।
पुत्रेष्वग्निषु दारेषु प्रेष्यशिष्यगणेषु च ॥ २.२.३८ ॥
他常常问候城中百姓,如同问候自家亲人;也问候他的儿子、圣火、妻子,以及仆役和弟子们。
2.2.39
निखिलेनानुपूर्व्या च पिता पुत्रानिवौरसान्।
शुश्रूषन्ते च वः शिष्याः कच्चिद् वर्मसु दंशिताः ॥ २.२.३९ ॥
如同父亲完整而有序地照顾自己的亲生儿子,你们的弟子是否侍奉你们?他们是否身披铠甲、准备就绪?
2.2.40
व्यसनेषु मनुष्याणां भृशं भवति दुःखितः ॥ २.२.४० ॥
人们遭遇灾难时,他便极为悲伤。
2.2.41
उत्सवेषु च सर्वेषु पितेव परितुष्यति।
सत्यवादी महेष्वासो वृद्धसेवी जितेन्द्रियः ॥ २.२.४१ ॥
每逢节庆,他都像父亲一样欢喜。他诚实守信,是大弓箭手,侍奉长者,克制自己的感官。
2.2.42
स्मितपूर्वाभिभाषी च धर्मं सर्वात्मनाश्रितः।
सम्यग्योक्ता श्रेयसां च न विगृह्यकथारुचिः ॥ २.२.४२ ॥
他先以微笑开口,全心归依于法,善于正确地劝导何为善,且不喜爱争辩的言谈。
2.2.43
उत्तरोत्तरयुक्तौ च वक्ता वाचस्पतिर्यथा।
सुभ्रूरायतताम्राक्षः साक्षाद् विष्णुरिव स्वयम् ॥ २.२.४३ ॥
他善于逐一应答,宛如言语之主(毗诃婆提);眉目秀美,双眼细长而微红,宛如毗湿奴本人降临。
2.2.44
रामो लोकाभिरामोऽयं शौर्यवीर्यपराक्रमैः।
प्रजापालनसंयुक्तो न रागोपहतेन्द्रियः ॥ २.२.४४ ॥
此罗摩为世间之乐,具足勇毅、力量与威势,专心护持百姓,诸根不为贪欲所污。
2.2.45
शक्तस्त्रैलोक्यमप्येष भोक्तुं किं नु महीमिमाम्।
नास्य क्रोधः प्रसादश्च निरर्थोऽस्ति कदाचन ॥ २.२.४५ ॥
他连三界都足以享有,何况此地?他的怒与喜,从来不会徒劳无功。
2.2.46
हन्त्येष नियमाद् वध्यानवध्येषु न कुप्यति।
युनक्त्यर्थैः प्रहृष्टश्च तमसौ यत्र तुष्यति ॥ २.२.४६ ॥
他依法只惩处应当受死之人,不对不当被杀者动怒;若他欢喜并以某人为可,便以财富赐予之。
2.2.47
दान्तैः सर्वप्रजाकान्तैः प्रीतिसंजननैर्नृणाम्।
गुणैर्विरोचते रामो दीप्तः सूर्य इवांशुभिः ॥ २.२.४७ ॥
克己自持,为万民所爱,使人心生喜悦,罗摩以诸德光耀,如炽热之日以光芒照耀。
2.2.48
तमेवंगुणसम्पन्नं रामं सत्यपराक्रमम्।
लोकपालोपमं नाथमकामयत मेदिनी ॥ २.२.४८ ॥
具足如此德性、真实威勇、如同世界护法的那位主君罗摩,大地渴望他为王。
2.2.49
वत्सः श्रेयसि जातस्ते दिष्ट्यासौ तव राघवः।
दिष्ट्या पुत्रगुणैर्युक्तो मारीच इव कश्यपः ॥ २.२.४९ ॥
孩子啊,幸运的是,这位罗伽华为你的福祉而生。幸运的是,这个儿子具备儿子的美德,正如迦叶之于摩利质。
2.2.50
बलमारोग्यमायुश्च रामस्य विदितात्मनः।
देवासुरमनुष्येषु सगन्धर्वोरगेषु च ॥ २.२.५० ॥
自知之明的罗摩,其力量、健康与长寿,在诸天、阿修罗、人类之中,乃至在乾闼婆与蛇族之中,皆为最上。
2.2.51
आशंसते जनः सर्वो राष्ट्रे पुरवरे तथा।
आभ्यन्तरश्च बाह्यश्च पौरजानपदो जनः ॥ २.२.५१ ॥
国境之内与都城之中的所有百姓,无论宫中之人还是外地之人,城市居民与乡野居民,皆期盼此事。
2.2.52
स्त्रियो वृद्धास्तरुण्यश्च सायं प्रातः समाहिताः।
सर्वा देवान्नमस्यन्ति रामस्यार्थे मनस्विनः।
तेषां तद् याचितं देव त्वत्प्रसादात्समृद्ध्यताम् ॥ २.२.५२ ॥
老年与少年的妇女,早晚专心一志,所有心胸宽厚的女子都为罗摩向诸神礼拜。神啊,愿她们的祈求因你的恩典而成就。
2.2.53
राममिन्दीवरश्यामं सर्वशत्रुनिबर्हणम्।
पश्यामो यौवराज्यस्थं तव राजोत्तमात्मजम् ॥ २.२.५३ ॥
我们愿见罗摩,其肤色如青莲般黝黑,能摧毁一切敌人,乃最上之王的爱子,立为太子。
2.2.54
तं देवदेवोपममात्मजं ते
सर्वस्य लोकस्य हिते निविष्टम्।
हिताय नः क्षिप्रमुदारजुष्टं
मुदाभिषेक्तुं वरद त्वमर्हसि ॥ २.२.५४ ॥
你的爱子,如同神中之神,专注于一切世界的福祉,为仁厚者所钟爱。为了我们的福祉,你应当迅速而欢喜地为他行灌顶之礼,赐恩的主啊。