蚁垤《罗摩衍那》 · 篇 2.20
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
2.20.1
तस्मिंस्तु पुरुषव्याघ्रे निष्क्रामति कृताञ्जलौ।
आर्तशब्दो महान् जज्ञे स्त्रीणामन्तःपुरे तदा ॥ २.२०.१ ॥
当那位人中虎手合十而出时,内宫的妇女们中间随即爆发出巨大的哀号。
2.20.2
कृत्येष्वचोदितः पित्रा सर्वस्यान्तःपुरस्य च।
गतिश्च शरणं चासीत् स रामोऽद्य प्रवत्स्यति ॥ २.२०.२ ॥
他虽从未受父亲在职责上的督促,却是众人与内宫的依靠和庇护;那位罗摩今日便将去流放。
2.20.3
कौसल्यायां यथा युक्तो जनन्यां वर्तते सदा।
तथैव वर्ततेऽस्मासु जन्मप्रभृति राघवः ॥ २.२०.३ ॥
正如罗ghava始终恭敬地对待母亲考萨利亚,他自出生以来对我们也是如此。
2.20.4
न क्रुध्यत्यभिशप्तोऽपि क्रोधनीयानि वर्जयन्।
क्रुद्धान् प्रसादयन् सर्वान् स इतोऽद्य प्रवत्स्यति ॥ २.२०.४ ॥
即使被诅咒,他也不发怒;避开引起愤怒之事,安抚所有愤怒的人。他今日便将从此地去流放。
2.20.5
अबुद्धिर्बत नो राजा जीवलोकं चरत्ययम्।
यो गतिं सर्वभूतानां परित्यजति राघवम् ॥ २.२०.५ ॥
唉!我们这位行于生者世界的君王是何等不明智,竟抛弃了作为一切众生依靠的罗ghava!
2.20.6
पतिमाचुक्रुशुश्चापि सस्वनं चापि चुक्रुशुः ॥ २.२०.६ ॥
她们为丈夫呼号,又大声哭泣。
2.20.7
स हि चान्तःपुरे घोरमार्तशब्दं महीपतिः।
पुत्रशोकाभिसंतप्तः श्रुत्वा व्यालीयतासने ॥ २.२०.७ ॥
国王听到内宫传来的可怕哀号声,因爱子之痛而备受煎熬,在座位上辗转不安。
2.20.8
रामस्तु भृशमायस्तो निःश्वसन्निव कुञ्जरः।
जगाम सहितो भ्रात्रा मातुरन्तःपुरं वशी ॥ २.२०.८ ॥
罗摩心中极为烦乱,像大象一样长叹,却能克制自己,与弟弟一同走向母亲的内宫。
2.20.9
सोऽपश्यत् पुरुषं तत्र वृद्धं परमपूजितम्।
उपविष्टं गृहद्वारि तिष्ठतश्चापरान् बहून् ॥ २.२०.९ ॥
他在那里看见一位备受尊敬的老人坐在宅门口,还有许多人站在那里。
2.20.10
दृष्ट्वैव तु तदा रामं ते सर्वे समुपस्थिताः।
जयेन जयतां श्रेष्ठं वर्धयन्ति स्म राघवम् ॥ २.२०.१० ॥
众人一见罗摩,便齐声高呼“胜利”,向胜者之中最杰出的罗怙之裔致意祝福。
2.20.11
प्रविश्य प्रथमां कक्ष्यां द्वितीयायां ददर्श सः।
ब्राह्मणान् वेदसम्पन्नान् वृद्धान् राज्ञाभिसत्कृतान् ॥ २.२०.११ ॥
他进入第一个庭院,在第二个庭院中看见精通吠陀、年高德劭、受国王尊敬的婆罗门。
2.20.12
प्रणम्य रामस्तान् वृद्धांस्तृतीयायां ददर्श सः।
स्त्रियो बालाश्च वृद्धाश्च द्वाररक्षणतत्पराः ॥ २.२०.१२ ॥
罗摩向那些长者行礼之后,在第三个庭院看见妇女、孩童和老人,正忙于守护宫门。
2.20.13
वर्धयित्वा प्रहृष्टास्ताः प्रविश्य च गृहं स्त्रियः।
न्यवेदयन्त त्वरितं राममातुः प्रियं तदा ॥ २.२०.१३ ॥
她们道贺之后,欢喜地走进屋内,迅速将这喜讯告诉了罗摩的母亲。
2.20.14
कौसल्यापि तदा देवी रात्रिं स्थित्वा समाहिता।
प्रभाते चाकरोत् पूजां विष्णोः पुत्रहितैषिणी ॥ २.२०.१४ ॥
王后考萨莉雅那一夜也心志专一地度过,黎明时分,为儿子的福祉祈愿,供奉了毗湿奴。
2.20.15
सा क्षौमवसना हृष्टा नित्यं व्रतपरायणा।
अग्निं जुहोति स्म तदा मन्त्रवत् कृतमङ्गला ॥ २.२०.१५ ॥
她身着丝衣,心怀欢喜,始终恪守誓愿,行吉祥仪式后,依照咒语向火中献祭。
2.20.16
प्रविश्य तु तदा रामो मातुरन्तःपुरं शुभम्।
ददर्श मातरं तत्र हावयन्तीं हुताशनम् ॥ २.२०.१६ ॥
于是罗摩走进母亲吉祥的内室,看见母亲在那里向火中献祭。
2.20.17
देवकार्यनिमित्तं च तत्रापश्यत् समुद्यतम्।
दध्यक्षतघृतं चैव मोदकान् हविषस्तथा ॥ २.२०.१७ ॥
他还看见那里为神圣仪式准备的凝乳、完整的谷粒、酥油、甜点以及祭品。
2.20.18
लाजान् माल्यानि शुक्लानि पायसं कृसरं तथा।
समिधः पूर्णकुम्भांश्च ददर्श रघुनन्दनः ॥ २.२०.१८ ॥
罗怙之悦者又看见爆米花、白色花环、牛奶饭与克舍罗饭、祭火木柴以及满盛水的吉祥瓶。
2.20.19
तां शुक्लक्षौमसंवीतां व्रतयोगेन कर्शिताम्।
तर्पयन्तीं ददर्शाद्भिर्देवतां वरवर्णिनीम् ॥ २.२०.१९ ॥
他看见她身着白色丝袍,因守持誓戒而消瘦,以水向诸神奉献祭水,那位容貌卓越的女神。
2.20.20
सा चिरस्यात्मजं दृष्ट्वा मातृनन्दनमागतम्।
अभिचक्राम संहृष्टा किशोरं वडवा यथा ॥ २.२०.२० ॥
她见到儿子——母亲的欢喜——久别归来,她满心欢喜地向他走去,如母马奔向幼驹。
2.20.21
स मातरमुपक्रान्तामुपसंगृह्य राघवः।
परिष्वक्तश्च बाहुभ्यामवघ्रातश्च मूर्धनि ॥ २.२०.२१ ॥
罗怙婆(Rāghava)走近母亲,扶住了她;她以双臂拥抱他,并吻了他的头顶。
2.20.22
तमुवाच दुराधर्षं राघवं सुतमात्मनः।
कौसल्या पुत्रवात्सल्यादिदं प्रियहितं वचः ॥ २.२०.२२ ॥
考萨利雅出于母爱,对她那不可战胜的儿子罗怙婆说了这些亲切而有益的话。
2.20.23
वृद्धानां धर्मशीलानां राजर्षीणां महात्मनाम्।
प्राप्नुह्यायुश्च कीर्तिं च धर्मं चाप्युचितं कुले ॥ २.२०.२३ ॥
我儿,愿你如那些年高有德、品性高尚的王仙们一样,获得长寿、名声,以及与你家族相称的法。
2.20.24
सत्यप्रतिज्ञं पितरं राजानं पश्य राघव।
अद्यैव त्वां स धर्मात्मा यौवराज्येऽभिषेक्ष्यति ॥ २.२०.२४ ॥
罗怙婆啊,看看你的父王,他是信守誓言的国王;今天,那位有德之人就将立你为太子。
2.20.25
दत्तमासनमालभ्य भोजनेन निमन्त्रितः।
मातरं राघवः किंचित् प्रसार्याञ्जलिमब्रवीत् ॥ २.२०.२५ ॥
拉嘉瓦(罗摩)入座并受邀用餐,略微合掌向母亲说道。
2.20.26
स स्वभावविनीतश्च गौरवाच्च तथानतः।
प्रस्थितो दण्डकारण्यमाप्रष्टुमुपचक्रमे ॥ २.२०.२६ ॥
他天性谦逊,又出于敬重而深深俯身,正要前往檀陀迦森林,于是开始请求告辞。
2.20.27
देवि नूनं न जानीषे महद् भयमुपस्थितम्।
इदं तव च दुःखाय वैदेह्या लक्ष्मणस्य च ॥ २.२०.२७ ॥
王后啊,你一定不知道,一场大难已经降临,将使你、维德赫、罗什曼那都陷入痛苦。
2.20.28
गमिष्ये दण्डकारण्यं किमनेनासनेन मे।
विष्टरासनयोग्यो हि कालोऽयं मामुपस्थितः ॥ २.२०.२८ ॥
我将前往檀陀迦森林。这座位对我有何用?此刻并非登上王座之时,入林之时已经降临到我身上。
2.20.29
चतुर्दश हि वर्षाणि वत्स्याम विजने वने।
कन्दमूलफलैर्जीवन् हित्वा मुनिवदामिषम् ॥ २.२०.२९ ॥
十四年间我们将居住在荒僻的森林里,靠块茎、根茎和果实为生,像贤者一样舍弃肉食。
2.20.30
भरताय महाराजो यौवराज्यं प्रयच्छति।
मां पुनर्दण्डकारण्यं विवासयति तापसम् ॥ २.२०.३० ॥
大王将太子之位授予婆罗多,却让我化为苦行者,流放到檀陀迦森林。
2.20.31
स षट् चाष्टौ च वर्षाणि वत्स्यामि विजने वने।
आसेवमानो वन्यानि फलमूलैश्च वर्तयन् ॥ २.२०.३१ ॥
我将在寂静的森林中居住六年又八年,以林中所产为食,靠果实和根茎度日。
2.20.32
सा निकृत्तेव सालस्य यष्टिः परशुना वने।
पपात सहसा देवी देवतेव दिवश्च्युता ॥ २.२०.३२ ॥
她在林中忽然倒下,如同被斧头砍断的娑罗树干,又如从天界坠落的女神。
2.20.33
तामदुःखोचितां दृष्ट्वा पतितां कदलीमिव।
रामस्तूत्थापयामास मातरं गतचेतसम् ॥ २.२०.३३ ॥
罗摩见母亲不惯受苦,如芭蕉般倒下,便扶起已失去知觉的母亲。
2.20.34
उपावृत्योत्थितां दीनां वडवामिव वाहिताम्।
पांसुगुण्ठितसर्वाङ्गीं विममर्श च पाणिना ॥ २.२०.३४ ॥
罗摩走近她,用手抚摸已站起、悲苦如被驱赶的母马、全身布满尘土的母亲。
2.20.35
सा राघवमुपासीनमसुखार्ता सुखोचिता।
उवाच पुरुषव्याघ्रमुपशृण्वति लक्ष्मणे ॥ २.२०.३५ ॥
她本应享福,却为悲苦所折磨,向坐在身旁的罗怙后裔罗摩说道,拉克什曼在一旁聆听,对这位人中之虎。
2.20.36
यदि पुत्र न जायेथा मम शोकाय राघव।
न स्म दुःखमतो भूयः पश्येयमहमप्रजाः ॥ २.२०.३६ ॥
罗怙之子啊,你若不是我的儿子,不成为我悲苦之源,那么我虽无子,也不会再看到比这更大的苦难了。
2.20.37
एक एव हि वन्ध्यायाः शोको भवति मानसः।
अप्रजास्मीति संतापो न ह्यन्यः पुत्र विद्यते ॥ २.२०.३७ ॥
石女唯一的心中之忧,便是“我无子嗣”的痛苦;孩儿,再没有别的悲伤了。
2.20.38
न दृष्टपूर्वं कल्याणं सुखं वा पतिपौरुषे।
अपि पुत्रे विपश्येयमिति रामास्थितं मया ॥ २.२०.३८ ॥
在夫君的威势中,我从未见过吉祥与安乐;所以我依托于罗摩,想至少能在儿子身上看到它们。
2.20.39
सा बहून्यमनोज्ञानि वाक्यानि हृदयच्छिदाम्।
अहं श्रोष्ये सपत्नीनामवराणां परा सती ॥ २.२०.३९ ॥
我这位至高无上的贞妇,将要听到小妾们许多刺痛人心、令人不悦的话语。
2.20.40
अतो दुःखतरं किं नु प्रमदानां भविष्यति।
मम शोको विलापश्च यादृशोऽयमनन्तकः ॥ २.२०.४० ॥
女人还会有比这更痛苦的事吗?我的这份悲伤与哀哭,是没有尽头的。
2.20.41
त्वयि संनिहितेऽप्येवमहमासं निराकृता।
किं पुनः प्रोषिते तात ध्रुवं मरणमेव हि ॥ २.२०.४१ ॥
你在身边时,我尚且如此被轻慢;那么,孩儿啊,你若远行而去,我必定只有死路一条。
2.20.42
अत्यन्तं निगृहीतास्मि भर्तुर्नित्यमसम्मता।
परिवारेण कैकेय्याः समा वाप्यथवावरा ॥ २.२०.४२ ॥
我被夫君彻底压制,始终不受待见;在吉迦伊的随从面前,我或与她平等,或位居其下。
2.20.43
यो हि मां सेवते कश्चिदपि वाप्यनुवर्तते।
कैकेय्याः पुत्रमन्वीक्ष्य स जनो नाभिभाषते ॥ २.२०.४३ ॥
无论谁侍奉我或追随我,一见到凯柯伊之子,便不再与我说话。
2.20.44
नित्यक्रोधतया तस्याः कथं नु खरवादि तत्।
कैकेय्या वदनं द्रष्टुं पुत्र शक्ष्यामि दुर्गता ॥ २.२०.४४ ॥
因她常怀怒意,其言语何等严厉!儿啊,我这不幸之人,怎能看凯柯伊的面容呢?
2.20.45
दश सप्त च वर्षाणि जातस्य तव राघव।
अतीतानि प्रकांक्षन्त्या मया दुःखपरिक्षयम् ॥ २.२०.४५ ॥
啊,罗怙婆,自你出生以来已过去十七年,而我一直热切地期盼苦难的终结。
2.20.46
तदक्षयं महद्दुःखं नोत्सहे सहितुं चिरात्।
विप्रकारं सपत्नीनामेवं जीर्णापि राघव ॥ २.२०.४६ ॥
啊,罗怙婆,这无尽的巨大痛苦与众妾的凌辱,我已无力长久忍受;如此,我也已年老。
2.20.47
अपश्यन्ती तव मुखं परिपूर्णशशिप्रभम्।
कृपणा वर्तयिष्यामि कथं कृपणजीविका ॥ २.२०.४७ ॥
不见你那如满月般光辉的面容,我这可怜之人该如何度日?可怜之人的生活又会如何?
2.20.48
उपवासैश्च योगैश्च बहुभिश्च परिश्रमैः।
दुःखसंवर्धितो मोघं त्वं हि दुर्गतया मया ॥ २.२०.४८ ॥
你在苦难中历经斋戒、苦行与种种艰辛而成长,儿啊,因我这不幸之人,你也白白受了苦。
2.20.49
स्थिरं नु हृदयं मन्ये ममेदं यन्न दीर्यते।
प्रावृषीव महानद्याः स्पृष्टं कूलं नवाम्भसा ॥ २.२०.४९ ॥
我想我的心确实坚定,因为它不会破裂,正如雨季里大河的堤岸被新水触及时也不会崩裂一样。
2.20.50
ममैव नूनं मरणं न विद्यते
न चावकाशोऽस्ति यमक्षये मम।
यदन्तकोऽद्यैव न मां जिहीर्षति
प्रसह्य सिंहो रुदतीं मृगीमिव ॥ २.२०.५० ॥
我确实无法死去,阎摩的国度里也没有我的位置;因为今天死神也不愿带走我,正如狮子强行抓住哭泣的母鹿一样。
2.20.51
स्थिरं हि नूनं हृदयं ममायसं
न भिद्यते यद् भुवि नो विदीर्यते।
अनेन दुःखेन च देहमर्पितं
ध्रुवं ह्यकाले मरणं न विद्यते ॥ २.२०.५१ ॥
我的心确实坚硬如铁,在大地上既不裂开也不破碎;而交付于这份悲痛的我的身体,也确实找不到不合时宜的死亡。
2.20.52
इदं तु दुःखं यदनर्थकानि मे
व्रतानि दानानि च संयमाश्च हि।
तपश्च तप्तं यदपत्यकाम्यया
सुनिष्फलं बीजमिवोप्तमूषरे ॥ २.२०.५२ ॥
这才是真正的悲痛:我的誓愿、布施与克制都毫无成效,我为求子嗣所行的苦修也完全落空,正如撒在贫瘠土地上的种子。
2.20.53
यदि ह्यकाले मरणं यदृच्छया
लभेत कश्चिद् गुरुदुःखकर्शितः।
गताहमद्यैव परेतसंसदं
विना त्वया धेनुरिवात्मजेन वै ॥ २.२०.५३ ॥
若有人因大悲而憔悴,偶然得到了不合时宜的死亡,那么今天我必定已离你而去,前往亡者的集会,就像失去小牛的母牛一样。
2.20.54
अथापि किं जीवितमद्य मे वृथा
त्वया विना चन्द्रनिभाननप्रभ।
अनुव्रजिष्यामि वनं त्वयैव गौः
सुदुर्बला वत्समिवाभिकांक्षया ॥ २.२०.५४ ॥
没有你,我今日的生命又有何意义?啊,你面如明月、光彩照人!我将随你进入森林,就像极其虚弱的母牛渴望着小牛而跟随它一样。
2.20.55
भृशमसुखममर्षिता तदा
बहु विललाप समीक्ष्य राघवम्।
व्यसनमुपनिशाम्य सा महत्
सुतमिव बद्धमवेक्ष्य किंनरी ॥ २.२०.५५ ॥
于是她极度痛苦、难以忍受,望着罗怙之后裔(罗摩),悲痛地哭诉良久,如同一位紧那罗女子,听闻大祸、看见儿子被缚那般。