蚁垤《罗摩衍那》 · 篇 2.21
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
2.21.1
तथा तु विलपन्तीं तां कौसल्यां राममातरम्।
उवाच लक्ष्मणो दीनस्तत्कालसदृशं वचः ॥ २.२१.१ ॥
罗摩之母考萨利亚如此哀泣时,忧伤的罗什曼那对她说了与此时相应的话。
2.21.2
न रोचते ममाप्येतदार्ये यद् राघवो वनम्।
त्यक्त्वा राज्यश्रियं गच्छेत् स्त्रिया वाक्यवशंगतः ॥ २.२१.२ ॥
尊贵的夫人啊,我也不愿看到罗怙后裔抛弃王权的光荣,受一个女人的言语支配而前往森林。
2.21.3
विपरीतश्च वृद्धश्च विषयैश्च प्रधर्षितः।
नृपः किमिव न ब्रूयाच्चोद्यमानः समन्मथः ॥ २.२१.३ ॥
心志颠倒、年老又被欲乐所困的国王,受欲望驱使,还有什么话说不出口呢?
2.21.4
नास्यापराधं पश्यामि नापि दोषं तथाविधम्।
येन निर्वास्यते राष्ट्राद् वनवासाय राघवः ॥ २.२१.४ ॥
我看不出他有任何过错,也没有那样的缺点,可以让罗怙后裔被逐出王国,流放森林。
2.21.5
न तं पश्याम्यहं लोके परोक्षमपि यो नरः।
स्वमित्रोऽपि निरस्तोऽपि योऽस्य दोषमुदाहरेत् ॥ २.२१.५ ॥
我在世上看不到任何人,即使在他不在场时,也会谈论他的过错——即便是他的朋友,或是被驱逐的人。
2.21.6
देवकल्पमृजुं दान्तं रिपूणामपि वत्सलम्।
अवेक्षमाणः को धर्मं त्यजेत् पुत्रमकारणात् ॥ २.२१.६ ॥
谁顾念正法,会无故抛弃一个如神般正直、自制、即便对敌人也仁慈的儿子呢?
2.21.7
तदिदं वचनं राज्ञः पुनर्बाल्यमुपेयुषः।
पुत्रः को हृदये कुर्याद् राजवृत्तमनुस्मरन् ॥ २.२१.७ ॥
哪个儿子记住王者之道,会把这位已重返童稚之态的国王的这番话放在心上呢?
2.21.8
यावदेव न जानाति कश्चिदर्थमिमं नरः।
तावदेव मया सार्धमात्मस्थं कुरु शासनम् ॥ २.२१.८ ॥
在没有任何人知道此事之前,请与我一起把这道命令藏在心中。
2.21.9
मया पार्श्वे सधनुषा तव गुप्तस्य राघव।
कः समर्थोऽधिकं कर्तुं कृतान्तस्येव तिष्ठतः ॥ २.२१.९ ॥
啊,罗怙之后,我手持弓箭立于你身侧护卫你,像死神一样站立着,谁能比我做得更多呢?
2.21.10
निर्मनुष्यामिमां सर्वामयोध्यां मनुजर्षभ।
करिष्यामि शरैस्तीक्ष्णैर्यदि स्थास्यति विप्रिये ॥ २.२१.१० ॥
啊,人中雄牛,若有人站出来反对,我将以利箭使整个阿逾陀城空无一人。
2.21.11
भरतस्याथ पक्ष्यो वा यो वास्य हितमिच्छति।
सर्वांस्तांश्च वधिष्यामि मृदुर्हि परिभूयते ॥ २.२१.११ ॥
凡是支持婆罗多、或希望他得利的人,我都将杀尽,因为只有温和的人才会被轻视。
2.21.12
प्रोत्साहितोऽयं कैकेय्या संतुष्टो यदि नः पिता।
अमित्रभूतो निःसङ्गं वध्यतां वध्यतामपि ॥ २.२१.१२ ॥
若我们的父亲受凯迦伊挑唆而心满意足,成了敌人,那就让他也无所顾惜地被杀,被杀吧。
2.21.13
गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः।
उत्पथं प्रतिपन्नस्य कार्यं भवति शासनम् ॥ २.२१.१३ ॥
即使长者因骄傲自大、不知应为与不应为而走上歧途,约束他也是职责所在。
2.21.14
बलमेष किमाश्रित्य हेतुं वा पुरुषोत्तम।
दातुमिच्छति कैकेय्यै उपस्थितमिदं तव ॥ २.२१.१४ ॥
人中之杰啊,他依仗何种力量或何种理由,竟想把眼前属于你的这王国交给吉迦伊?
2.21.15
त्वया चैव मया चैव कृत्वा वैरमनुत्तमम्।
कास्य शक्तिः श्रियं दातुं भरतायारिशासन ॥ २.२१.१५ ॥
降伏敌人者啊,他与你、与我结下了极深的仇怨,他又有何力量能把王室的吉祥赐给婆罗多呢?
2.21.16
अनुरक्तोऽस्मि भावेन भ्रातरं देवि तत्त्वतः।
सत्येन धनुषा चैव दत्तेनेष्टेन ते शपे ॥ २.२१.१६ ॥
夫人啊,我确实全心眷恋我的兄长。我以真实、我的弓,以及你所赐予、你所珍爱之物起誓。
2.21.17
दीप्तमग्निमरण्यं वा यदि रामः प्रवेक्ष्यति।
प्रविष्टं तत्र मां देवि त्वं पूर्वमवधारय ॥ २.२१.१७ ॥
夫人啊,若罗摩要投入烈火或进入森林,请您预先知道,我会先于他进入那里。
2.21.18
हरामि वीर्याद् दुःखं ते तमः सूर्य इवोदितः।
देवी पश्यतु मे वीर्यं राघवश्चैव पश्यतु ॥ २.२१.१८ ॥
如同初升的太阳驱散黑暗,我将以我的勇力为你除去忧愁。夫人啊,请您看看我的勇力;愿罗怙之后也看看。
2.21.19
हनिष्ये पितरं वृद्धं कैकेय्यासक्तमानसम्।
कृपणं च स्थितं बाल्ये वृद्धभावेन गर्हितम् ॥ २.२१.१९ ॥
我将杀死年老的父亲,他的心执着于吉凯伊,他怯懦可怜,行为如同孩童,因衰老而受人鄙视。
2.21.20
एतत् तु वचनं श्रुत्वा लक्ष्मणस्य महात्मनः।
उवाच रामं कौसल्या रुदती शोकलालसा ॥ २.२१.२० ॥
大度的罗什曼那说完这些话后,考萨雅悲泣不已,为忧伤所折磨,对罗摩说道。
2.21.21
भ्रातुस्ते वदतः पुत्र लक्ष्मणस्य श्रुतं त्वया।
यदत्रानन्तरं तत्त्वं कुरुष्व यदि रोचते ॥ २.२१.२१ ॥
儿啊,你已听到你弟弟罗什曼那所说的话。现在若你愿意,就依你心意去做吧。
2.21.22
न चाधर्म्यं वचः श्रुत्वा सपत्न्या मम भाषितम्।
विहाय शोकसंतप्तां गन्तुमर्हसि मामितः ॥ २.२१.२२ ॥
即便你已听到我的对头所说的不义之言,你也不应当舍弃我这被忧伤煎熬的人而离开此地。
2.21.23
धर्मज्ञ इति धर्मिष्ठ धर्मं चरितुमिच्छसि।
शुश्रूष मामिहस्थस्त्वं चर धर्ममनुत्तमम् ॥ २.२१.२३ ॥
哦,精通法义的人,最为正直的人啊!你想要践行法道。留在此处侍奉我,践行至高的法道吧。
2.21.24
शुश्रूषुर्जननीं पुत्र स्वगृहे नियतो वसन्।
परेण तपसा युक्तः काश्यपस्त्रिदिवं गतः ॥ २.२१.२४ ॥
儿啊,迦叶波在自己的家中克制自律地居住,侍奉母亲,并具备至高的苦行,因而升往天界。
2.21.25
यथैव राजा पूज्यस्ते गौरवेण तथा ह्यहम्।
त्वां साहं नानुजानामि न गन्तव्यमितो वनम् ॥ २.२१.२५ ॥
正如国王值得你尊敬,我在尊荣上也是如此。我不允许你;你不应从此地前往森林。
2.21.26
त्वद्वियोगान्न मे कार्यं जीवितेन सुखेन च।
त्वया सह मम श्रेयस्तृणानामपि भक्षणम् ॥ २.२१.२६ ॥
没有你,我既不需要生命,也不需要欢乐。与你在一起对我更好,即便要吃草。
2.21.27
यदि त्वं यास्यसि वनं त्यक्त्वा मां शोकलालसाम्।
अहं प्रायमिहासिष्ये न च शक्ष्यामि जीवितुम् ॥ २.२१.२७ ॥
若你离我而去、前往森林,我这个沉溺悲伤的人便将在此绝食而坐,无法再活下去。
2.21.28
ततस्त्वं प्राप्स्यसे पुत्र निरयं लोकविश्रुतम्।
ब्रह्महत्यामिवाधर्मात् समुद्रः सरितां पतिः ॥ २.२१.२८ ॥
那时,我的儿子,你将堕入举世闻名的地狱,如同因不义而犯下杀婆罗门之罪的大海,诸河之主。
2.21.29
विलपन्तीं तथा दीनां कौसल्यां जननीं ततः।
उवाच रामो धर्मात्मा वचनं धर्मसंहितम् ॥ २.२१.२९ ॥
于是,德行高尚的罗摩对如此悲泣、痛苦的母亲考萨利亚说了合乎法义的话。
2.21.30
नास्ति शक्तिः पितुर्वाक्यं समतिक्रमितुं मम।
प्रसादये त्वां शिरसा गन्तुमिच्छाम्यहं वनम् ॥ २.२१.३० ॥
我没有力量违背父亲的命令。我低头恳求你:我想前往森林。
2.21.31
ऋषिणा च पितुर्वाक्यं कुर्वता वनचारिणा।
गौर्हता जानताधर्मं कण्डुना च विपश्चिता ॥ २.२१.३१ ॥
那位遵从父命的林中修士,以及知晓法的智者坎度,杀死了一头母牛。
2.21.32
अस्माकं तु कुले पूर्वं सगरस्याज्ञया पितुः।
खनद्भिः सागरैर्भूमिमवाप्तः सुमहान् वधः ॥ २.२१.३२ ॥
在我们的家族中,往昔因沙gara的命令,沙gara之子遵从父命挖掘大地,遭遇了极大的灭亡。
2.21.33
जामदग्न्येन रामेण रेणुका जननी स्वयम्।
कृत्ता परशुनारण्ये पितुर्वचनकारणात् ॥ २.२१.३३ ॥
耶摩陀那之子罗摩,因父亲之言,在林中亲手以斧砍死了自己的母亲勒怒伽。
2.21.34
एतैरन्यैश्च बहुभिर्देवि देवसमैः कृतम्।
पितुर्वचनमक्लीबं करिष्यामि पितुर्हितम् ॥ २.२१.३४ ॥
女神啊,他们以及众多与神明相等的人都遵从了父亲的话;为了父亲的福祉,我也将坚定不移地遵从他的话。
2.21.35
न खल्वेतन्मयैकेन क्रियते पितृशासनम्।
एतैरपि कृतं देवि ये मया परिकीर्तिताः ॥ २.२१.३५ ॥
女神啊,遵从父亲的命令,并非只有我一人;我所提到的那些人也曾这样做过。
2.21.36
नाहं धर्ममपूर्वं ते प्रतिकूलं प्रवर्तये।
पूर्वैरयमभिप्रेतो गतो मार्गोऽनुगम्यते ॥ २.२१.३६ ॥
我不为你另立一种与之相违的新法;我只是遵循祖先所认可并走过的道路。
2.21.37
तदेतत् तु मया कार्यं क्रियते भुवि नान्यथा।
पितुर्हि वचनं कुर्वन् न कश्चिन्नाम हीयते ॥ २.२१.३७ ॥
因此这件事必须由我来做,世上别无他途。遵从父命的人,决不会因此而有所损失。
2.21.38
तामेवमुक्त्वा जननीं लक्ष्मणं पुनरब्रवीत्।
वाक्यं वाक्यविदां श्रेष्ठः श्रेष्ठः सर्वधनुष्मताम् ॥ २.२१.३८ ॥
罗摩对母亲如此说完,作为善辩者中最优秀者、诸弓手中最优秀者,又对罗什曼那说道。
2.21.39
तव लक्ष्मण जानामि मयि स्नेहमनुत्तमम्।
विक्रमं चैव सत्त्वं च तेजश्च सुदुरासदम् ॥ २.२१.३९ ॥
罗什曼那啊,我知道你对我的爱最为深厚,你的勇武、胆略与光辉也是难以匹敌的。
2.21.40
मम मातुर्महद् दुःखमतुलं शुभलक्षण।
अभिप्रायं न विज्ञाय सत्यस्य च शमस्य च ॥ २.२१.४० ॥
吉相的人啊,我母亲无比巨大的悲痛,在于她不明白我的心意,也不明白真理与安宁。
2.21.41
धर्मो हि परमो लोके धर्मे सत्यं प्रतिष्ठितम्।
धर्मसंश्रितमप्येतत् पितुर्वचनमुत्तमम् ॥ २.२१.४१ ॥
世间以法为至上,真实立足于法。依据法而立的这句父命,也是最为崇高的。
2.21.42
संश्रुत्य च पितुर्वाक्यं मातुर्वा ब्राह्मणस्य वा।
न कर्तव्यं वृथा वीर धर्ममाश्रित्य तिष्ठता ॥ २.२१.४२ ॥
英雄啊!既已应允父亲、母亲或婆罗门的话,立于法的人,不应使其落空。
2.21.43
सोऽहं न शक्ष्यामि पुनर्नियोगमतिवर्तितुम्।
पितुर्हि वचनाद् वीर कैकेय्याहं प्रचोदितः ॥ २.२१.४३ ॥
英勇的夫人啊,我遵从父亲之言,又受凯柯伊的驱使,不能再违背这道命令了。
2.21.44
तदेतां विसृजानार्यां क्षत्रधर्माश्रितां मतिम्।
धर्ममाश्रय मा तैक्ष्ण्यं मद्बुद्धिरनुगम्यताम् ॥ २.२१.४४ ॥
故此,舍弃这依附于武士之责的不义之念;归依法道,不要严厉,遵循我的心意。
2.21.45
तमेवमुक्त्वा सौहार्दाद् भ्रातरं लक्ष्मणाग्रजः।
उवाच भूयः कौसल्यां प्राञ्जलिः शिरसा नतः ॥ २.२१.४५ ॥
长兄对弟弟如此出于情谊地说完,合掌低首,又向考莎利雅说道。
2.21.46
अनुमन्यस्व मां देवि गमिष्यन्तमितो वनम्।
शापितासि मम प्राणैः कुरु स्वस्त्ययनानि मे ॥ २.२१.४६ ॥
女王啊,请允许我从此前往森林。你以我的性命起誓而受约束,请为我举行祈福之礼。
2.21.47
तीर्णप्रतिज्ञश्च वनात् पुनरेष्याम्यहं पुरीम्।
ययातिरिव राजर्षिः पुरा हित्वा पुनर्दिवम् ॥ २.२१.४७ ॥
我完成誓言后,将从森林再回到城中,正如往昔王仙夜耶提离开天界后又回来一样。
2.21.48
शोकः संधार्यतां मातर्हृदये साधु मा शुचः।
वनवासादिहैष्यामि पुनः कृत्वा पितुर्वचः ॥ २.२१.४८ ॥
母亲啊,请将悲伤藏于心中,不要过度悲伤。完成父亲之言后,我将从林中流放归来,仍回到这里。
2.21.49
त्वया मया च वैदेह्या लक्ष्मणेन सुमित्रया।
पितुर्नियोगे स्थातव्यमेष धर्मः सनातनः ॥ २.२१.४९ ॥
你、我、毗提诃公主、罗什曼那与苏弥特拉,都应遵从父亲的命令;这是永恒的法。
2.21.50
अम्ब सम्भृत्य सम्भारान् दुःखं हृदि निगृह्य च।
वनवासकृता बुद्धिर्मम धर्म्यानुवर्त्यताम् ॥ २.२१.५० ॥
母亲啊,请把悲痛压在心底,备好所需之物,顺从我依法作出的入林之志。
2.21.51
एतद् वचस्तस्य निशम्य माता
सुधर्म्यमव्यग्रमविक्लवं च।
मृतेव संज्ञां प्रतिलभ्य देवी
समीक्ष्य रामं पुनरित्युवाच ॥ २.२१.५१ ॥
母亲听到他这些合乎法度、平静而坚定的话,仿佛从死亡中醒来,重新恢复神智,看着罗摩,又开口说道。
2.21.52
यथैव ते पुत्र पिता तथाहं
गुरुः स्वधर्मेण सुहृत्तया च।
न त्वानुजानामि न मां विहाय
सुदुःखितामर्हसि पुत्र गन्तुम् ॥ २.२१.५२ ॥
儿啊,正如你的父亲,我也凭我的本分与慈爱,是你的师长。我不允许你去;你不应当丢下我这极其悲伤之人而离去。
2.21.53
किं जीवितेनेह विना त्वया मे
लोकेन वा किं स्वधयामृतेन।
श्रेयो मुहूर्तं तव संनिधानं
ममैव कृत्स्नादपि जीवलोकात् ॥ २.२१.५३ ॥
没有你,这生命对我有何意义,这世界、供奉的‘斯瓦陀’或甘露又有何用?你的陪伴哪怕片刻,于我也胜过整个生灵世界。
2.21.54
नरैरिवोल्काभिरपोह्यमानो
महागजो ध्वान्तमभिप्रविष्टः।
भूयः प्रजज्वाल विलापमेवं
निशम्य रामः करुणं जनन्याः ॥ २.२१.५४ ॥
如同大象被持火炬的人驱赶,进入黑暗后又重新燃烧,罗摩听到母亲如此悲切的哀号,又一次燃起了心中的痛楚。
2.21.55
स मातरं चैव विसंज्ञकल्पा-
मार्तं च सौमित्रिमभिप्रतप्तम्।
धर्मे स्थितो धर्म्यमुवाच वाक्यं
यथा स एवार्हति तत्र वक्तुम् ॥ २.२१.५५ ॥
守持法度的罗摩见母亲几近昏厥,见须弥陀罗之子(罗什曼那)痛苦煎熬,便说出合乎法度的话,因为只有他有资格在那里开口。
2.21.56
अहं हि ते लक्ष्मण नित्यमेव
जानामि भक्तिं च पराक्रमं च।
मम त्वभिप्रायमसंनिरीक्ष्य
मात्रा सहाभ्यर्दसि मा सुदुःखम् ॥ २.२१.५६ ॥
罗什曼那啊,我始终知晓你的忠诚与勇武。但不审察我的本意,便与母亲一同如此悲痛,是不应当的。
2.21.57
धर्मार्थकामाः खलु जीवलोके
समीक्षिता धर्मफलोदयेषु।
ये तत्र सर्वे स्युरसंशयं मे
भार्येव वश्याभिमता सपुत्रा ॥ २.२१.५७ ॥
在这生灵的世界中,法、利、欲都是就法之果的成就而加以考量的;它们对我而言,无疑都会像顺从、可爱的妻子连同儿子一般。
2.21.58
यस्मिंस्तु सर्वे स्युरसंनिविष्टा
धर्मो यतः स्यात् तदुपक्रमेत।
द्वेष्यो भवत्यर्थपरो हि लोके
कामात्मता खल्वपि न प्रशस्ता ॥ २.२१.५८ ॥
然而若这一切都不在场,便应当着手于那能生出法的事。世上一心追求财富的人会招人憎恶,纯然沉溺于欲望的本性也不值得称赞。
2.21.59
गुरुश्च राजा च पिता च वृद्धः
क्रोधात् प्रहर्षादथवापि कामात्।
यद् व्यादिशेत् कार्यमवेक्ष्य धर्मं
कस्तं न कुर्यादनृशंसवृत्तिः ॥ २.२१.५९ ॥
无论老师、国王、父亲或长者因愤怒、欢喜或出于欲望而下达何种指令,人在审察法之后,哪个仁慈之人会不去做呢?
2.21.60
न तेन शक्नोमि पितुः प्रतिज्ञा-
मिमां न कर्तुं सकलां यथावत्।
स ह्यावयोस्तात गुरुर्नियोगे
देव्याश्च भर्ता स गतिश्च धर्मः ॥ २.२१.६० ॥
因此我无法如法完成父亲的全部誓言;因为在此命令中他是我们二人的师长,是王后的夫君,他是我们的依靠与法。
2.21.61
तस्मिन् पुनर्जीवति धर्मराजे
विशेषतः स्वे पथि वर्तमाने।
देवी मया सार्धमितोऽभिगच्छेत्
कथंस्विदन्या विधवेव नारी ॥ २.२१.६१ ॥
法王尚在人世,且特别安住于自己的道路上,王后怎能与我从此离去,如同另一个寡妇一般?
2.21.62
सा मानुमन्यस्व वनं व्रजन्तं
कुरुष्व नः स्वस्त्ययनानि देवि।
यथा समाप्ते पुनराव्रजेयं
यथा हि सत्येन पुनर्ययातिः ॥ २.२१.६२ ॥
王后啊,请敬意地接受我前往森林,并为我们举行吉祥之礼,使期限届满时我得以归来,正如耶亚蒂凭真实而再次归来。
2.21.63
यशो ह्यहं केवलराज्यकारणा-
न्न पृष्ठतः कर्तुमलं महोदयम्।
अदीर्घकालेन तु देवि जीविते
वृणेऽवरामद्य महीमधर्मतः ॥ २.२१.६३ ॥
我并非为了仅仅一个王国而求取名声,之后也无力成就大的昌盛;王后啊,在短暂的人生之中,今日我却不义地选择了一片低下的土地。
2.21.64
प्रसादयन्नरवृषभः स मातरं
पराक्रमाज्जिगमिषुरेव दण्डकान्।
अथानुजं भृशमनुशास्य दर्शनं
चकार तां हृदि जननीं प्रदक्षिणम् ॥ २.२१.६४ ॥
人中之雄успокоив母亲,因勇力而欲往檀陀迦林,随后谆谆教导幼弟,在心中向那位母亲行右绕礼,并向她拜见。