蚁垤《罗摩衍那》 · 篇 2.23
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
2.23.1
ध्यात्वा मध्यं जगामाशु सहसा दैन्यहर्षयोः ॥ २.२३.१ ॥
他沉思之后,迅速而突然地进入了悲伤与喜悦之间的状态。
2.23.2
तदा तु बद्ध्वा भ्रुकुटीं भ्रुवोर्मध्ये नरर्षभः।
निशश्वास महासर्पो बिलस्थ इव रोषितः ॥ २.२३.२ ॥
那时,人中之杰皱紧双眉之间,像洞中盛怒的大蛇一般长长叹息。
2.23.3
तस्य दुष्प्रतिवीक्ष्यं तद् भ्रुकुटीसहितं तदा।
बभौ क्रुद्धस्य सिंहस्य मुखस्य सदृशं मुखम् ॥ २.२३.३ ॥
那时,他皱眉的面容,难以直视,闪耀如同愤怒的狮子之面。
2.23.4
अग्रहस्तं विधुन्वंस्तु हस्ती हस्तमिवात्मनः।
तिर्यगूर्ध्वं शरीरे च पातयित्वा शिरोधराम् ॥ २.२३.४ ॥
他挥动前臂,如象甩动自己的鼻子,身体侧倾又向上挺起,垂下了颈项。
2.23.5
अग्राक्ष्णा वीक्षमाणस्तु तिर्यग्भ्रातरमब्रवीत्।
अस्थाने सम्भ्रमो यस्य जातो वै सुमहानयम् ॥ २.२३.५ ॥
他以前方的眼睛斜视,对弟弟说道:“无故生出如此大的慌乱的人……”
2.23.6
धर्मदोषप्रसङ्गेन लोकस्यानतिशङ्कया।
कथं ह्येतदसम्भ्रान्तस्त्वद्विधो वक्तुमर्हति ॥ २.२३.६ ॥
违背法的过失之险,且不畏世人非议,像你这样沉着的人怎能如此说话?
2.23.7
यथा ह्येवमशौण्डीरं शौण्डीरः क्षत्रियर्षभः।
किं नाम कृपणं दैवमशक्तमभिशंससि ॥ २.२३.७ ॥
犹如英勇的刹帝利之牛,将怯懦者称为勇者,你为何要指责这卑微无力的命运?
2.23.8
पापयोस्ते कथं नाम तयोः शङ्का न विद्यते।
सन्ति धर्मोपधासक्ता धर्मात्मन् किं न बुध्यसे ॥ २.२३.८ ॥
你对那两个恶人为何毫无怀疑?他们借法之名行事。法魂啊,你为何看不明白?
2.23.9
तयोः सुचरितं स्वार्थं शाठ्यात् परिजिहीर्षतोः।
यदि नैवं व्यवसितं स्याद्धि प्रागेव राघव।
तयोः प्रागेव दत्तश्च स्याद् वरः प्रकृतश्च सः ॥ २.२३.९ ॥
这便是那两人所谓的“善行”,他们想以欺诈夺取自己的目的。罗伽婆啊,若非他们事先已如此决定,那恩惠早就该赐予他们,而那也是合宜的。
2.23.10
लोकविद्विष्टमारब्धं त्वदन्यस्याभिषेचनम्।
नोत्सहे सहितुं वीर तत्र मे क्षन्तुमर्हसि ॥ २.२३.१० ॥
勇士啊,这为他人而行、世人所憎的灌顶,我实在无法忍受;请你原谅我。
2.23.11
येनैवमागता द्वैधं तव बुद्धिर्महामते।
सोऽपि धर्मो मम द्वेष्यो यत्प्रसङ्गाद् विमुह्यसि ॥ २.२३.११ ॥
大智者啊,那使你的心智陷入如此两难的法,对我而言也是可憎的。
2.23.12
कथं त्वं कर्मणा शक्तः कैकेयीवशवर्तिनः।
करिष्यसि पितुर्वाक्यमधर्मिष्ठं विगर्हितम् ॥ २.२३.१२ ॥
你如何能以行动去履行父亲的那道命令?那命令最为不义、可憎,而父亲正受制于吉卡伊。
2.23.13
यदयं किल्बिषाद् भेदः कृतोऽप्येवं न गृह्यते।
जायते तत्र मे दुःखं धर्मसङ्गश्च गर्हितः ॥ २.२३.१३ ॥
这种因罪过而造成的分离,即便如此也不被接受。由此我心中生起悲痛,而这与法的联结也是可鄙的。
2.23.14
तवायं धर्मसंयोगो लोकस्यास्य विगर्हितः।
मनसापि कथं कामं कुर्यात् त्वां कामवृत्तयोः।
तयोस्त्वहितयोर्नित्यं शत्र्वोः पित्रभिधानयोः ॥ २.२३.१४ ॥
你与法的这种联结在世间是被非议的。那两个依欲望行事、始终不善、却以父亲之名出现的仇敌,你怎能在心中对他们生出愿望?
2.23.15
यद्यपि प्रतिपत्तिस्ते दैवी चापि तयोर्मतम्।
तथाप्युपेक्षणीयं ते न मे तदपि रोचते ॥ २.२३.१५ ॥
即便你的行为与他们二人的意见都是神圣的,你也应当置之不理。这我也不喜欢。
2.23.16
विक्लवो वीर्यहीनो यः स दैवमनुवर्तते।
वीराः सम्भावितात्मानो न दैवं पर्युपासते ॥ २.२३.१६ ॥
懦弱而缺乏勇气的人才顺从天命。自重的英雄们不依赖天命。
2.23.17
दैवं पुरुषकारेण यः समर्थः प्रबाधितुम्।
न दैवेन विपन्नार्थः पुरुषः सोऽवसीदति ॥ २.२३.१७ ॥
能以人的努力战胜天命的人,即便目标被天命所挫,也不会沉沦。
2.23.18
द्रक्ष्यन्ति त्वद्य दैवस्य पौरुषं पुरुषस्य च।
दैवमानुषयोरद्य व्यक्ता व्यक्तिर्भविष्यति ॥ २.२३.१८ ॥
今日人们将看到天命之力与人之力。今日天命与人力的区别将显现出来。
2.23.19
अद्य मे पौरुषहतं दैवं द्रक्ष्यन्ति वै जनाः।
यैर्दैवादाहतं तेऽद्य दृष्टं राज्याभिषेचनम् ॥ २.२३.१९ ॥
今日人们将看到被我的努力击败的命运;被命运所伤的人们今日看见了你的登基典礼。
2.23.20
अत्यङ्कुशमिवोद्दामं गजं मदजलोद्धतम्।
प्रधावितमहं दैवं पौरुषेण निवर्तये ॥ २.२३.२० ॥
如同被发情之液激怒、连象钩也无法制住的狂象奔突而来,我将以自己的努力扭转那奔涌而来的命运。
2.23.21
लोकपालाः समस्तास्ते नाद्य रामाभिषेचनम्।
न च कृत्स्नास्त्रयो लोका विहन्युः किं पुनः पिता ॥ २.२३.२१ ॥
今日,即便所有护世者也无法阻挠罗摩的登基,纵使三界全体也不能;何况是父亲呢。
2.23.22
यैर्विवासस्तवारण्ये मिथो राजन् समर्थितः।
अरण्ये ते विवत्स्यन्ति चतुर्दश समास्तथा ॥ २.२३.२२ ॥
大王啊,那些共同决定你流放森林的人,他们自己将在森林中居住十四年。
2.23.23
अहं तदाशां धक्ष्यामि पितुस्तस्याश्च या तव।
अभिषेकविघातेन पुत्रराज्याय वर्तते ॥ २.२३.२३ ॥
那时,我将焚毁父王和她的那份希望——那希望借阻挠你的登基,指向她儿子的王位。
2.23.24
मद्बलेन विरुद्धाय न स्याद् दैवबलं तथा।
प्रभविष्यति दुःखाय यथोग्रं पौरुषं मम ॥ २.२३.२४ ॥
对于反抗我力量的人,命运之力将不会站在他那边;我猛烈的努力必将带来痛苦。
2.23.25
ऊर्ध्वं वर्षसहस्रान्ते प्रजापाल्यमनन्तरम्।
आर्यपुत्राः करिष्यन्ति वनवासं गते त्वयि ॥ २.२३.२५ ॥
千年之后,待你前往林中流放,尊贵的子嗣们将承担护佑百姓之责。
2.23.26
पूर्वराजर्षिवृत्त्या हि वनवासोऽभिधीयते।
प्रजा निक्षिप्य पुत्रेषु पुत्रवत् परिपालने ॥ २.२३.२६ ॥
依照古昔王仙的惯例,所谓林中流放,便是将百姓托付给儿子们,让他们如护养子女般守护。
2.23.27
स चेद् राजन्यनेकाग्रे राज्यविभ्रमशङ्कया।
नैवमिच्छसि धर्मात्मन् राज्यं राम त्वमात्मनि ॥ २.२३.२७ ॥
王啊,若你因恐惧王国生乱而不专心如此求愿,那么,法魂罗摩,你便并非为自己而求王位。
2.23.28
प्रतिजाने च ते वीर मा भूवं वीरलोकभाक्।
राज्यं च तव रक्षेयमहं वेलेव सागरम् ॥ २.२३.२८ ॥
英雄啊,我向你立誓:若我不能如海岸守护大海般守护你的王国,愿我不得进入英雄之界。
2.23.29
मङ्गलैरभिषिञ्चस्व तत्र त्वं व्यापृतो भव।
अहमेको महीपालानलं वारयितुं बलात् ॥ २.२३.२९ ॥
你当以吉祥礼仪受灌顶,专心于此便是。我一人便足以以武力阻挡众王。
2.23.30
न शोभार्थाविमौ बाहू न धनुर्भूषणाय मे।
नासिराबन्धनार्थाय न शराः स्तम्भहेतवः ॥ २.२३.३० ॥
我这双臂并非为了装饰,我的弓也不是饰物;佩剑不是为了系在腰间,箭矢也不只是支撑之用。
2.23.31
अमित्रमथनार्थाय सर्वमेतच्चतुष्टयम्।
न चाहं कामयेऽत्यर्थं यः स्याच्छत्रुर्मतो मम ॥ २.२३.३१ ॥
这四样都是为了摧毁敌人;凡可能成为我敌人的东西,我并不十分渴望。
2.23.32
असिना तीक्ष्णधारेण विद्युच्चलितवर्चसा।
प्रगृहीतेन वै शत्रुं वज्रिणं वा न कल्पये ॥ २.२३.३२ ॥
手持锋利、如闪电般耀眼的宝剑,我连敌人,甚至执雷霆的因陀罗,也不放在眼里。
2.23.33
खड्गनिष्पेषनिष्पिष्टैर्गहना दुश्चरा च मे।
हस्त्यश्वरथिहस्तोरुशिरोभिर्भविता मही ॥ २.२३.३३ ॥
被剑刃摩擦碾碎的象、马与车兵的头颅、手臂和大腿,将使这片大地变得密集而难以通行。
2.23.34
खड्गधाराहता मेऽद्य दीप्यमाना इवाग्नयः।
पतिष्यन्ति द्विषो भूमौ मेघा इव सविद्युतः ॥ २.२३.३४ ॥
今日被我剑锋击中的敌人,将如熊熊烈火、如闪电交加的乌云般倒在地上。
2.23.35
बद्धगोधाङ्गुलित्राणे प्रगृहीतशरासने।
कथं पुरुषमानी स्यात् पुरुषाणां मयि स्थिते ॥ २.२३.३५ ॥
我手指系着蜥皮护套,紧握弓箭而立,那自认为男子汉的人,又怎能在我面前站得住?
2.23.36
बहुभिश्चैकमत्यस्यन्नेकेन च बहूञ्जनान्।
विनियोक्ष्याम्यहं बाणान्नृवाजिगजमर्मसु ॥ २.२३.३६ ॥
我一人对抗众人,又以一敌众,将把箭射向人、马、象的要害之处。
2.23.37
अद्य मेऽस्त्रप्रभावस्य प्रभावः प्रभविष्यति।
राज्ञश्चाप्रभुतां कर्तुं प्रभुत्वं च तव प्रभो ॥ २.२३.३७ ॥
今日我的武器之威力将显现,以剥夺国王的权力,确立你的统治,主啊。
2.23.38
अद्य चन्दनसारस्य केयूरामोक्षणस्य च।
वसूनां च विमोक्षस्य सुहृदां पालनस्य च ॥ २.२३.३८ ॥
今日,檀香般的良弓之力、解下臂钏、舍弃财富与守护朋友之力都将显现。
2.23.39
अनुरूपाविमौ बाहू राम कर्म करिष्यतः।
अभिषेचनविघ्नस्य कर्तॄणां ते निवारणे ॥ २.२३.३९ ॥
罗摩啊,这两臂将完成相称之事:阻止那些妨碍你受灌顶的人。
2.23.40
ब्रवीहि कोऽद्यैव मया वियुज्यतां
तवासुहृत् प्राणयशःसुहृज्जनैः।
यथा तवेयं वसुधा वशा भवेत्
तथैव मां शाधि तवास्मि किंकरः ॥ २.२३.४० ॥
请说,你的哪一个敌人今日便由我使其与生命、名誉及亲友分离,使这大地服从于你?请如此吩咐我吧,我是你的仆人。
2.23.41
विमृज्य बाष्पं परिसान्त्व्य चासकृत्
स लक्ष्मणं राघववंशवर्धनः।
उवाच पित्रोर्वचने व्यवस्थितं
निबोध मामेष हि सौम्य सत्पथः ॥ २.२३.४१ ॥
他拭去泪水,屡屡安慰,增益罗怙族的罗摩对坚守父母之命的罗什曼那说:"明白吧,温良的人,这正是善道。"