蚁垤《罗摩衍那》 · 篇 2.25
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
2.25.1
सा विनीय तमायासमुपस्पृश्य जलं शुचि।
चकार माता रामस्य मङ्गलानि मनस्विनी ॥ २.२५.१ ॥
她克制住悲痛,以洁净之水漱净自身,这位心志高远的母亲为罗摩举行了吉祥的仪式。
2.25.2
न शक्यसे वारयितुं गच्छेदानीं रघूत्तम।
शीघ्रं च विनिवर्तस्व वर्तस्व च सतां क्रमे ॥ २.२५.२ ॥
罗怙族的最优者啊,如今已无法阻拦你;你若必须去,便去吧。但要尽快回来,并沿着善人的道路行事。
2.25.3
यं पालयसि धर्मं त्वं प्रीत्या च नियमेन च।
स वै राघवशार्दूल धर्मस्त्वामभिरक्षतु ॥ २.२५.३ ॥
罗怙族中的猛虎啊,愿你以爱与戒律所守护的法,亲自护佑你。
2.25.4
येभ्यः प्रणमसे पुत्र देवेष्वायतनेषु च।
ते च त्वामभिरक्षन्तु वने सह महर्षिभिः ॥ २.२५.४ ॥
孩子啊,愿你所礼敬的诸神与圣地,连同大仙人们,在林中护佑你。
2.25.5
यानि दत्तानि तेऽस्त्राणि विश्वामित्रेण धीमता।
तानि त्वामभिरक्षन्तु गुणैः समुदितं सदा ॥ २.२५.५ ॥
智者毗奢弥多罗所赐予你的神兵,愿它们常护佑你这位具足美德之人。
2.25.6
पितृशुश्रूषया पुत्र मातृशुश्रूषया तथा।
सत्येन च महाबाहो चिरं जीवाभिरक्षितः ॥ २.२५.६ ॥
孩子啊,以侍奉父亲、侍奉母亲,并以真实的力量,大臂者啊,愿你长久生活,并得到守护。
2.25.7
समित्कुशपवित्राणि वेद्यश्चायतनानि च।
स्थण्डिलानि च विप्राणां शैला वृक्षाः क्षुपा ह्रदाः।
पतङ्गाः पन्नगाः सिंहास्त्वां रक्षन्तु नरोत्तम ॥ २.२५.७ ॥
祭祀的柴薪、吉祥草与净化之环、祭坛与圣域、婆罗门的祭场、山峦、树木、灌木、湖泊、飞鸟、蛇与狮子——愿它们都守护你,人中之尊。
2.25.8
स्वस्ति साध्याश्च विश्वे च मरुतश्च महर्षिभिः।
स्वस्ति धाता विधाता च स्वस्ति पूषा भगोऽर्यमा ॥ २.२५.८ ॥
愿萨底耶、毗湿伐提婆与摩嚕特诸神,与大仙人一同赐你安康;愿持者与造者赐你安康;愿普善、薄伽与阿利耶曼赐你安康。
2.25.9
लोकपालाश्च ते सर्वे वासवप्रमुखास्तथा।
ऋतवः षट् च ते सर्वे मासाः संवत्सराः क्षपाः ॥ २.२५.९ ॥
愿以因陀罗为首的诸世界守护者,以及六季、诸月、诸年与诸夜,永远赐你安康。
2.25.10
दिनानि च मुहूर्ताश्च स्वस्ति कुर्वन्तु ते सदा।
श्रुतिः स्मृतिश्च धर्मश्च पातु त्वां पुत्र सर्वतः ॥ २.२५.१० ॥
愿日子与吉时常为你带来安康;孩儿,愿天启、传承与法从四面八方守护你。
2.25.11
स्कन्दश्च भगवान् देवः सोमश्च सबृहस्पतिः।
सप्तर्षयो नारदश्च ते त्वां रक्षन्तु सर्वतः ॥ २.२५.११ ॥
愿尊贵的天神塞建陀,以及月神与木星神,七仙人与那罗陀,从四面八方守护你。
2.25.12
ते चापि सर्वतः सिद्धा दिशश्च सदिगीश्वराः।
स्तुता मया वने तस्मिन् पान्तु त्वां पुत्र नित्यशः ॥ २.२५.१२ ॥
愿我在那片森林中所赞颂的诸悉陀、四方与方位守护神,永远守护你,孩儿。
2.25.13
शैलाः सर्वे समुद्राश्च राजा वरुण एव च।
द्यौरन्तरिक्षं पृथिवी वायुश्च सचराचरः ॥ २.२५.१३ ॥
愿一切山岳、海洋、国王婆楼那、天空、虚空、大地与风,以及一切动与不动的众生,护佑你。
2.25.14
नक्षत्राणि च सर्वाणि ग्रहाश्च सह दैवतैः।
अहोरात्रे तथा संध्ये पान्तु त्वां वनमाश्रितम् ॥ २.२५.१४ ॥
愿一切星宿与行星及其所主之神,昼夜与两个黄昏,护佑你这栖身森林之人。
2.25.15
ऋतवश्चापि षट् चान्ये मासाः संवत्सरास्तथा।
कलाश्च काष्ठाश्च तथा तव शर्म दिशन्तु ते ॥ २.२५.१५ ॥
愿六季及其他时节、月份、年岁,以及时分“迦罗”与“迦ษ塔”,赐你安康。
2.25.16
महावनेऽपि चरतो मुनिवेषस्य धीमतः।
तथा देवाश्च दैत्याश्च भवन्तु सुखदाः सदा ॥ २.२५.१६ ॥
愿在大林中以隐士之相游行的智者你,诸天与阿修罗都永远成为赐你安乐者。
2.25.17
राक्षसानां पिशाचानां रौद्राणां क्रूरकर्मणाम्।
क्रव्यादानां च सर्वेषां मा भूत् पुत्रक ते भयम् ॥ २.२५.१७ ॥
愿罗刹、毕舍遮、行残暴之事的凶恶者,以及一切食肉者,都不让你心生恐惧,我的儿子。
2.25.18
प्लवगा वृश्चिका दंशा मशकाश्चैव कानने।
सरीसृपाश्च कीटाश्च मा भूवन् गहने तव ॥ २.२५.१८ ॥
愿林中跳跃的生灵、蝎子、叮咬的虫与蚊蚋、爬行之物与各种昆虫,都不在密林中伤害你。
2.25.19
महाद्विपाश्च सिंहाश्च व्याघ्रा ऋक्षाश्च दंष्ट्रिणः।
महिषाः शृङ्गिणो रौद्रा न ते द्रुह्यन्तु पुत्रक ॥ २.२५.१९ ॥
愿大象、狮子、老虎、熊、有獠牙的野兽、水牛和凶猛的有角之兽不伤害你,我的儿子。
2.25.20
नृमांसभोजना रौद्रा ये चान्ये सर्वजातयः।
मा च त्वां हिंसिषुः पुत्र मया सम्पूजितास्त्विह ॥ २.२५.२० ॥
愿嗜食人肉的凶兽和其他一切种类的生灵不伤害你,我的儿子;此地我已敬奉过它们。
2.25.21
आगमास्ते शिवाः सन्तु सिध्यन्तु च पराक्रमाः।
सर्वसम्पत्तयो राम स्वस्तिमान् गच्छ पुत्रक ॥ २.२५.२१ ॥
愿你的行程吉祥,愿你的功业成就;啊,罗摩,愿一切繁荣归于你。平安地去吧,我的儿子。
2.25.22
स्वस्ति तेऽस्त्वान्तरिक्षेभ्यः पार्थिवेभ्यः पुनः पुनः।
सर्वेभ्यश्चैव देवेभ्यो ये च ते परिपन्थिनः ॥ २.२५.२२ ॥
愿你从天上、地上,一次又一次地得到平安,也从诸神那里得到平安;也愿你免于那些阻挡你道路的人。
2.25.23
शुक्रः सोमश्च सूर्यश्च धनदोऽथ यमस्तथा।
पान्तु त्वामर्चिता राम दण्डकारण्यवासिनम् ॥ २.२५.२३ ॥
愿室克罗、月神苏摩、太阳、财神(俱毗罗)以及阎摩,受到敬奉,守护你,啊罗摩,住在檀陀迦森林中的你。
2.25.24
अग्निर्वायुस्तथा धूमो मन्त्राश्चर्षिमुखच्युताः।
उपस्पर्शनकाले तु पान्तु त्वां रघुनन्दन ॥ २.२५.२४ ॥
愿火神阿耆尼、风神伐由、烟雾,以及从诸仙口中流出的咒语,在行净口仪式之时,守护你,啊罗怙家族的欢喜者。
2.25.25
सर्वलोकप्रभुर्ब्रह्मा भूतकर्तृ तथर्षयः।
ये च शेषाः सुरास्ते तु रक्षन्तु वनवासिनम् ॥ २.२५.२५ ॥
愿众世界之主梵天、万物之创造者、诸仙人及其余诸天神守护这位林居者。
2.25.26
स्तुतिभिश्चानुरूपाभिरानर्चायतलोचना ॥ २.२५.२६ ॥
她以恰当的赞颂、目光沉静而行礼拜。
2.25.27
ज्वलनं समुपादाय ब्राह्मणेन महात्मना।
हावयामास विधिना राममङ्गलकारणात् ॥ २.२५.२७ ॥
大德的婆罗门取来火,依仪轨为罗摩之吉祥而令献祭。
2.25.28
घृतं श्वेतानि माल्यानि समिधश्चैव सर्षपान्।
उपसम्पादयामास कौसल्या परमाङ्गना ॥ २.२५.२८ ॥
酥油、白色花环、祭薪与芥子,这些由最尊贵的女子憍萨罗所备办。
2.25.29
उपाध्यायः स विधिना हुत्वा शान्तिमनामयम्।
हुतहव्यावशेषेण बाह्यं बलिमकल्पयत् ॥ २.२५.२९ ॥
那位师长依仪轨行祭,求得无病的安宁,并以供物的余者备办外在的供食。
2.25.30
मधुदध्यक्षतघृतैः स्वस्तिवाच्यं द्विजांस्ततः।
वाचयामास रामस्य वने स्वस्त्ययनक्रियाम् ॥ २.२५.३० ॥
随后以蜂蜜、凝乳、完整谷粒与酥油,令再生者诵念吉祥祝祷,并为罗摩在林中举行吉祥行程之仪。
2.25.31
ततस्तस्मै द्विजेन्द्राय राममाता यशस्विनी।
दक्षिणां प्रददौ काम्यां राघवं चेदमब्रवीत् ॥ २.२५.३१ ॥
随后,光荣的罗摩之母把珍贵的酬礼赠予那位最尊的再生者,并对罗怙之子说了这些话。
2.25.32
यन्मङ्गलं सहस्राक्षे सर्वदेवनमस्कृते।
वृत्रनाशे समभवत् तत् ते भवतु मङ्गलम् ॥ २.२५.३२ ॥
愿那在杀死弗栗多时、受诸神礼敬的千眼因陀罗所获的吉祥,也降临于你。
2.25.33
यन्मङ्गलं सुपर्णस्य विनताकल्पयत् पुरा।
अमृतं प्रार्थयानस्य तत् ते भवतु मङ्गलम् ॥ २.२५.३३ ॥
愿昔日毗那多为求取甘露的金翅鸟(迦楼罗)所定的吉祥,也降临于你。
2.25.34
अमृतोत्पादने दैत्यान् घ्नतो वज्रधरस्य यत्।
अदितिर्मङ्गलं प्रादात् तत् ते भवतु मङ्गलम् ॥ २.२५.३४ ॥
愿阿底提在搅动甘露时为持金刚杵的因陀罗诛杀阿修罗所赐的吉祥,也降临于你。
2.25.35
त्रिविक्रमान् प्रक्रमतो विष्णोरतुलतेजसः।
यदासीन्मङ्गलं राम तत् ते भवतु मङ्गलम् ॥ २.२५.३५ ॥
啊,罗摩,愿无与伦比的毗湿奴跨出三步时所生的吉祥,也降临于你。
2.25.36
ऋषयः सागरा द्वीपा वेदा लोका दिशश्च ते।
मङ्गलानि महाबाहो दिशन्तु शुभमङ्गलम् ॥ २.२५.३६ ॥
啊,大臂者,愿诸仙人、大海、大洲、吠陀、诸世界与诸方,赐予你吉祥的福佑,降下美好的幸运。
2.25.37
गन्धैश्चापि समालभ्य राममायतलोचना ॥ २.२५.३७ ॥
长眼的考莎二耶以香料为罗摩涂抹之后,
2.25.38
औषधीं च सुसिद्धार्थां विशल्यकरणीं शुभाम्।
चकार रक्षां कौसल्या मन्त्रैरभिजजाप च ॥ २.२५.३८ ॥
考莎二耶以精心配制、能拔除箭刺的吉祥草药施行护佑,并念诵咒语。
2.25.39
उवाचापि प्रहृष्टेव सा दुःखवशवर्तिनी।
वाङ्मात्रेण न भावेन वाचा संसज्जमानया ॥ २.२५.३९ ॥
她虽被悲痛所支配,却像欢喜一样说话——只是言语,并非出于内心,声音哽咽。
2.25.40
आनम्य मूर्ध्नि चाघ्राय परिष्वज्य यशस्विनी।
अवदत् पुत्रमिष्टार्थो गच्छ राम यथासुखम् ॥ २.२५.४० ॥
光荣的考莎二耶俯首,嗅其头顶,拥抱之后,愿儿子安好,对他说:罗摩,平安地去吧。
2.25.41
अरोगं सर्वसिद्धार्थमयोध्यां पुनरागतम्।
पश्यामि त्वां सुखं वत्स संधितं राजवर्त्मसु ॥ २.२५.४१ ॥
孩子啊,你无病无灾,诸事圆满,重返阿约提亚,我将在王道上欢欣地看见你。
2.25.42
प्रणष्टदुःखसंकल्पा हर्षविद्योतितानना।
द्रक्ष्यामि त्वां वनात् प्राप्तं पूर्णचन्द्रमिवोदितम् ॥ २.२५.४२ ॥
悲痛之念消散,面容因喜悦而光彩,我将看见你从森林归来,如同升起的满月。
2.25.43
भद्रासनगतं राम वनवासादिहागतम्।
द्रक्ष्यामि च पुनस्त्वां तु तीर्णवन्तं पितुर्वचः ॥ २.२५.४३ ॥
罗摩啊,你从林中流放归来,坐在吉祥的座位上,完成了父亲的誓言,我将再次见到你。
2.25.44
मङ्गलैरुपसम्पन्नो वनवासादिहागतः।
वध्वाश्च मम नित्यं त्वं कामान् संवर्ध याहि भोः ॥ २.२५.४४ ॥
你身怀吉祥之物,从林中流放归来。罗摩啊,请常满足我儿媳的愿望;去吧。
2.25.45
मयार्चिता देवगणाः शिवादयो
महर्षयो भूतगणाः सुरोरगाः।
अभिप्रयातस्य वनं चिराय ते
हितानि कांक्षन्तु दिशश्च राघव ॥ २.२५.४५ ॥
愿我所敬奉的诸神、湿婆等、大仙、众生、天神与蛇神,为你这远赴森林者长久祈求福祉;愿四方也如此,罗怙之后啊。
2.25.46
अतीव चाश्रुप्रतिपूर्णलोचना
समाप्य च स्वस्त्ययनं यथाविधि।
प्रदक्षिणं चापि चकार राघवं
पुनः पुनश्चापि निरीक्ष्य सस्वजे ॥ २.२५.४६ ॥
她含泪满目,依法完成吉祥祝福之仪,绕行罗怙之后,又一次次凝望他,并拥抱了他。
2.25.47
तया हि देव्या च कृतप्रदक्षिणो
निपीड्य मातुश्चरणौ पुनः पुनः।
जगाम सीतानिलयं महायशाः
स राघवः प्रज्वलितस्तया श्रिया ॥ २.२५.४७ ॥
绕行那位王后,又一再按摩母亲的双足之后,那位大名远扬的罗怙之后,因她的光辉而焕然生辉,前往悉多的住所。