ヴァールミーキのラーマーヤナ · サルガ 2.27
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
2.27.1
एवमुक्ता तु वैदेही प्रियार्हा प्रियवादिनी।
प्रणयादेव संक्रुद्धा भर्तारमिदमब्रवीत् ॥ २.२७.१ ॥
このように言われたとき、愛らしい言葉を語るに値するヴァイデーヒー・シーターは、愛情のゆえにひどく怒り、夫にこう言った。
2.27.2
किमिदं भाषसे राम वाक्यं लघुतया ध्रुवम्।
त्वया यदपहास्यं मे श्रुत्वा नरवरोत्तम ॥ २.२७.२ ॥
ラーマよ、なぜそのようなことを言うのですか。人の中で最も優れた方よ、あなたのその言葉は確かに軽率から出たもの。それを聞けば、わたしは嘲笑の的になるでしょう。
2.27.3
वीराणां राजपुत्राणां शस्त्रास्त्रविदुषां नृप।
अनर्हमयशस्यं च न श्रोतव्यं त्वयेरितम् ॥ २.२७.३ ॥
王よ、武器と飛び道具に通じた勇敢な王子たちにふさわしくなく、不名誉をもたらすあなたのその言葉は、聞くにも値しません。
2.27.4
आर्यपुत्र पिता माता भ्राता पुत्रस्तथा स्नुषा।
स्वानि पुण्यानि भुञ्जानाः स्वं स्वं भाग्यमुपासते ॥ २.२७.४ ॥
高貴な夫よ、父、母、兄弟、息子、嫁、それぞれが自らの功徳を享受し、それぞれ自分の運に頼って生きています。
2.27.5
भर्तुर्भाग्यं तु नार्येका प्राप्नोति पुरुषर्षभ।
अतश्चैवाहमादिष्टा वने वस्तव्यमित्यपि ॥ २.२७.५ ॥
人の中の雄牛よ、女は独りでは夫の運命を得ることはできません。ですから、わたしにも森に住むよう命じられているのです。
2.27.6
न पिता नात्मजो वात्मा न माता न सखीजनः।
इह प्रेत्य च नारीणां पतिरेको गतिः सदा ॥ २.२७.६ ॥
父でもなく、息子でもなく、自分自身でもなく、母でもなく、女友達でもない。この世でも来世でも、女にとって夫こそ常にただ一つの拠り所です。
2.27.7
यदि त्वं प्रस्थितो दुर्गं वनमद्यैव राघव।
अग्रतस्ते गमिष्यामि मृद्नन्ती कुशकण्टकान् ॥ २.२७.७ ॥
ラーガヴァよ、もしあなたが今日この険しい森へ旅立つのなら、私はクシャ草の棘を踏みしめて、あなたの前を歩みましょう。
2.27.8
ईर्ष्यां रोषं बहिष्कृत्य भुक्तशेषमिवोदकम्।
नय मां वीर विस्रब्धः पापं मयि न विद्यते ॥ २.२७.८ ॥
勇士よ、嫉妬と怒りを、飲み残しの水を捨てるように捨て去り、信頼して私を連れて行ってください。私には罪がありません。
2.27.9
प्रासादाग्रे विमानैर्वा वैहायसगतेन वा।
सर्वावस्थागता भर्तुः पादच्छाया विशिष्यते ॥ २.२७.९ ॥
宮殿の高みにあっても、空飛ぶ車に乗っても、空路を行くときでも、どんな境遇においても、夫の足の影こそが勝っています。
2.27.10
अनुशिष्टास्मि मात्रा च पित्रा च विविधाश्रयम्।
नास्मि सम्प्रति वक्तव्या वर्तितव्यं यथा मया ॥ २.२७.१० ॥
母も父も私に様々な拠り所について教えてくださいました。今となっては、誰も私に言う必要はありません。私は自分のあるべき振る舞いをいたします。
2.27.11
अहं दुर्गं गमिष्यामि वनं पुरुषवर्जितम्।
नानामृगगणाकीर्णं शार्दूलगणसेवितम् ॥ २.२७.११ ॥
私は人の住まない、多くの鹿の群れに満ち、虎の群れが棲むあの険しい森へ行きます。
2.27.12
सुखं वने निवत्स्यामि यथैव भवने पितुः।
अचिन्तयन्ती त्रीँल्लोकांश्चिन्तयन्ती पतिव्रतम् ॥ २.२७.१२ ॥
父の家で幸せに暮らしていたように、森でも幸せに暮らしましょう。三界のことを思い煩わず、ただ夫への貞節の誓いを思いながら。
2.27.13
शुश्रूषमाणा ते नित्यं नियता ब्रह्मचारिणी।
सह रंस्ये त्वया वीर वनेषु मधुगन्धिषु ॥ २.२७.१३ ॥
勇士よ、私は常にあなたに仕え、自制し、梵行を守って、蜜の香り漂う森であなたと共に喜び楽しみましょう。
2.27.14
त्वं हि कर्तुं वने शक्तो राम सम्परिपालनम्।
अन्यस्यापि जनस्येह किं पुनर्मम मानद ॥ २.२७.१४ ॥
ラーマよ、あなたは森にあっても他の人をさえ完全に守ることができます。名誉を与える方よ、まして私のことなら言うまでもありません。
2.27.15
साहं त्वया गमिष्यामि वनमद्य न संशयः।
नाहं शक्या महाभाग निवर्तयितुमुद्यता ॥ २.२७.१५ ॥
私は今日あなたと共に森へ行きます、疑いありません。大いなる幸福の方よ、私は決意しており、引き止めることはできません。
2.27.16
फलमूलाशना नित्यं भविष्यामि न संशयः।
न ते दुःखं करिष्यामि निवसन्ती त्वया सदा ॥ २.२७.१६ ॥
私は常に果実と根を食べて暮らします、疑いありません。あなたと共に住んで、決してあなたに悲しみを与えはしません。
2.27.17
अग्रतस्ते गमिष्यामि भोक्ष्ये भुक्तवति त्वयि।
इच्छामि परतः शैलान् पल्वलानि सरांसि च ॥ २.२७.१७ ॥
私はあなたの前を歩き、あなたが食べた後にだけ食べましょう。私は山々や池、湖の向こうへ行きたいのです。
2.27.18
द्रष्टुं सर्वत्र निर्भीता त्वया नाथेन धीमता।
हंसकारण्डवाकीर्णाः पद्मिनीः साधुपुष्पिताः ॥ २.२७.१८ ॥
賢明な守護者であるあなたと共に、私は恐れなく至る所で、白鳥や鴨に満ち、見事に花咲く蓮の池を眺めたいのです。
2.27.19
इच्छेयं सुखिनी द्रष्टुं त्वया वीरेण संगता।
अभिषेकं करिष्यामि तासु नित्यमनुव्रता ॥ २.२७.१९ ॥
英雄よ、あなたと共に幸せにそれらを見たいと思います。そこで常にあなたに従い、その中で沐浴いたしましょう。
2.27.20
सह त्वया विशालाक्ष रंस्ये परमनन्दिनी।
एवं वर्षसहस्राणि शतं वापि त्वया सह ॥ २.२७.२० ॥
広い目の方よ、あなたと共に無上の喜びに浸りましょう。このように千年、あるいは百年でも、あなたと共に。
2.27.21
व्यतिक्रमं न वेत्स्यामि स्वर्गोऽपि हि न मे मतः।
स्वर्गेऽपि च विना वासो भविता यदि राघव।
त्वया विना नरव्याघ्र नाहं तदपि रोचये ॥ २.२७.२१ ॥
あなたと離別することを私は知りません。天界さえ私の望むところではありません。ラーガヴァよ、天界であってもあなたなしに住むことになるならば、人中の虎よ、それも私は望みません。
2.27.22
अहं गमिष्यामि वनं सुदुर्गमं
मृगायुतं वानरवारणैश्च।
वने निवत्स्यामि यथा पितुर्गृहे
तवैव पादावुपगृह्य सम्मता ॥ २.२७.२२ ॥
私は、数千の鹿や猿や象に満ちた、きわめて通り抜け難い森へ行きましょう。そこで父の家にいるように、あなたの足を抱き、あなたに敬われながら住みましょう。
2.27.23
अनन्यभावामनुरक्तचेतसं
त्वया वियुक्तां मरणाय निश्चिताम्।
नयस्व मां साधु कुरुष्व याचनां
नातो मया ते गुरुता भविष्यति ॥ २.२७.२३ ॥
ほかの思いなく、心をあなたに寄せ、あなたと別れれば死を決意している私を、どうか連れて行ってください。この願いをよく聞き入れてください。そうすれば私はあなたの重荷にはなりません。
2.27.24
तथा ब्रुवाणामपि धर्मवत्सलां
न च स्म सीतां नृवरो निनीषति।
उवाच चैनां बहु संनिवर्तने
वने निवासस्य च दुःखितां प्रति ॥ २.२७.२४ ॥
法を愛するシーターがこのように言っても、人中の雄ラーマは彼女を連れて行こうとはしなかった。森での暮らしの苦しみを思い、悲しむシーターに、彼は引き返すようにと多くを語った。