Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 2.28

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

2.28.1

स एवं ब्रुवतीं सीतां धर्मज्ञां धर्मवत्सलः।
न नेतुं कुरुते बुद्धिं वने दुःखानि चिन्तयन् ॥ २.२८.१ ॥

贤淑知法的悉多如此说道,而崇尚法的罗摩却想到森林中的种种苦难,没有决定带她同去。

2.28.2

सान्त्वयित्वा ततस्तां तु बाष्पदूषितलोचनाम्।
निवर्तनार्थे धर्मात्मा वाक्यमेतदुवाच ह ॥ २.२८.२ ॥

于是,罗摩安慰泪眼朦胧的悉多,为了让她返回,这位心性正直的罗摩说出了这些话。

2.28.3

सीते महाकुलीनासि धर्मे च निरता सदा।
इहाचरस्व धर्मं त्वं यथा मे मनसः सुखम् ॥ २.२८.३ ॥

悉多啊,你出身高贵,常常专心于法。请留在此处奉行法,使我的心得到安乐。

2.28.4

सीते यथा त्वां वक्ष्यामि तथा कार्यं त्वयाबले।
वने दोषा हि बहवो वसतस्तान् निबोध मे ॥ २.२८.४ ॥

悉多啊,你应当照我所说的去做。柔弱的女子啊,住在森林中有许多危险,请听我说。

2.28.5

सीते विमुच्यतामेषा वनवासकृता मतिः।
बहुदोषं हि कान्तारं वनमित्यभिधीयते ॥ २.२८.५ ॥

悉多啊,请放弃这个住进森林的念头。森林充满了种种危险,所以被称为荒野。

2.28.6

हितबुद्ध्या खलु वचो मयैतदभिधीयते।
सदा सुखं न जानामि दुःखमेव सदा वनम् ॥ २.२८.६ ॥

我说这些话确实是出于为你着想。我不知道森林中有永远的快乐;森林始终只有痛苦。

2.28.7

गिरिनिर्झरसम्भूता गिरिनिर्दरिवासिनाम्।
सिंहानां निनदा दुःखाः श्रोतुं दुःखमतो वनम् ॥ २.२८.७ ॥

聆听栖居于山洞中的狮子的吼声,如山涧溪流般回荡,令人痛苦;因此森林是苦难的。

2.28.8

क्रीडमानाश्च विस्रब्धा मत्ताः शून्ये तथा मृगाः।
दृष्ट्वा समभिवर्तन्ते सीते दुःखमतो वनम् ॥ २.२८.८ ॥

悉多啊,在空旷的森林里看见鹿群无所畏惧、欢快嬉戏,并走近它们,本身就令人痛苦;因此森林是苦难的。

2.28.9

सग्राहाः सरितश्चैव पङ्कवत्यस्तु दुस्तराः।
मत्तैरपि गजैर्नित्यमतो दुःखतरं वनम् ॥ २.२८.९ ॥

满是鳄鱼的河流和泥泞的溪水难以渡过,发狂的大象也时常迎面而来;因此森林更加苦难。

2.28.10

लताकण्टकसंकीर्णाः कृकवाकूपनादिताः।
निरपाश्च सुदुःखाश्च मार्गा दुःखमतो वनम् ॥ २.२८.१० ॥

小路上藤蔓与荆棘丛生,回荡着野鸡的鸣叫,既无水源又十分艰险;因此森林是苦难的。

2.28.11

सुप्यते पर्णशय्यासु स्वयंभग्नासु भूतले।
रात्रिषु श्रमखिन्नेन तस्माद् दुःखमतो वनम् ॥ २.२८.११ ॥

夜里疲惫不堪的人只能睡在地上,睡在自行折断的落叶床上;因此森林是苦难的。

2.28.12

अहोरात्रं च संतोषः कर्तव्यो नियतात्मना।
फलैर्वृक्षावपतितैः सीते दुःखमतो वनम् ॥ २.२८.१२ ॥

悉多啊,克制己心的人日夜都必须满足于从树上落下的果实;因此森林是苦难的。

2.28.13

उपवासश्च कर्तव्यो यथा प्राणेन मैथिलि।
जटाभारश्च कर्तव्यो वल्कलाम्बरधारणम् ॥ २.२८.१३ ॥

maithili啊,在森林中必须像珍惜生命一样禁食;要承受纠结发辫的重负,穿着树皮衣。

2.28.14

देवतानां पितॄणां च कर्तव्यं विधिपूर्वकम्।
प्राप्तानामतिथीनां च नित्यशः प्रतिपूजनम् ॥ २.२८.१४ ॥

必须依礼仪祭祀诸神与祖先,并时常恭敬接待前来的客人。

2.28.15

कार्यस्त्रिरभिषेकश्च काले काले च नित्यशः।
चरतां नियमेनैव तस्माद् दुःखतरं वनम् ॥ २.२८.१५ ॥

每个时辰,每天都要行三次灌顶沐浴;在林中游走者必须严守戒律,因此森林更加痛苦。

2.28.16

उपहारश्च कर्तव्यः कुसुमैः स्वयमाहृतैः।
आर्षेण विधिना वेद्यां सीते दुःखमतो वनम् ॥ २.२८.१६ ॥

须以亲手采摘的鲜花,依仙人之礼在祭坛上供奉;悉多啊,因此森林令人痛苦。

2.28.17

यथालब्धेन कर्तव्यः संतोषस्तेन मैथिलि।
यताहारैर्वनचरैः सीते दुःखमतो वनम् ॥ २.२८.१७ ॥

应当知足于所得;麦提利啊,林中修行者须节制饮食;悉多啊,因此森林令人痛苦。

2.28.18

अतीव वातस्तिमिरं बुभुक्षा चाति नित्यशः।
भयानि च महान्त्यत्र ततो दुःखतरं वनम् ॥ २.२८.१८ ॥

这里狂风极猛,浓暗遮天,饥饿时时相逼,还有许多大的危险;因此森林更加痛苦。

2.28.19

सरीसृपाश्च बहवो बहुरूपाश्च भामिनि।
चरन्ति पथि ते दर्पात् ततो दुःखतरं वनम् ॥ २.२८.१९ ॥

光彩照人的娇妻啊,许多形态各异的爬行之物在路上骄横地游走;因此森林更加痛苦。

2.28.20

नदीनिलयनाः सर्पा नदीकुटिलगामिनः।
तिष्ठन्त्यावृत्य पन्थानमतो दुःखतरंवनम् ॥ २.२८.२० ॥

栖居河中、沿着河流曲折之道游动的蛇,盘踞阻塞道路;因此森林更加痛苦。

2.28.21

पतङ्गा वृश्चिकाः कीटा दंशाश्च मशकैः सह।
बाधन्ते नित्यमबले सर्वं दुःखमतो वनम् ॥ २.२८.२१ ॥

柔弱的人啊,飞蛾、蝎子、虫子和蚊蚋不停地折磨;因此森林里一切都是痛苦。

2.28.22

द्रुमाः कण्टकिनश्चैव कुशाः काशाश्च भामिनि।
वने व्याकुलशाखाग्रास्तेन दुःखमतो वनम् ॥ २.२८.२२ ॥

光彩照人的娇妻啊,森林里有多刺的树木、古莎草与迦莎草,枝梢纷乱交错;因此森林令人痛苦。

2.28.23

कायक्लेशाश्च बहवो भयानि विविधानि च।
अरण्यवासे वसतो दुःखमेव सदा वनम् ॥ २.२८.२३ ॥

住在森林中的人有许多身体上的苦楚与种种恐惧;森林始终只有痛苦。

2.28.24

क्रोधलोभौ विमोक्तव्यौ कर्तव्या तपसे मतिः।
न भेतव्यं च भेतव्ये दुःखं नित्यमतो वनम् ॥ २.२८.२४ ॥

应当舍弃愤怒与贪婪,将心志专注于苦行;即使是可怕之事也不应畏惧——森林中永远有痛苦,因此。

2.28.25

तदलं ते वनं गत्वा क्षेमं नहि वनं तव।
विमृशन्निव पश्यामि बहुदोषकरं वनम् ॥ २.२८.२५ ॥

因此你不必去森林;那里对你并无安全可言。我仔细思量,看到那森林会带来许多危险。

2.28.26

वनं तु नेतुं न कृता मतिर्यदा
बभूव रामेण तदा महात्मना।
न तस्य सीता वचनं चकार तं
ततोऽब्रवीद् राममिदं सुदुःखिता ॥ २.२८.२६ ॥

当伟大的罗摩不再决意带她去森林时,悉多不听他的话。她极为悲伤,于是对罗摩说了这些话。