Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 2.30

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

2.30.1

सान्त्व्यमाना तु रामेण मैथिली जनकात्मजा।
वनवासनिमित्तार्थं भर्तारमिदमब्रवीत् ॥ २.३०.१ ॥

虽然罗摩安慰她,阇那迦之女弥提利仍因林中流放之事对丈夫说了这番话。

2.30.2

सा तमुत्तमसंविग्ना सीता विपुलवक्षसम्।
प्रणयाच्चाभिमानाच्च परिचिक्षेप राघवम् ॥ २.३०.२ ॥

悉多极为激动,出于爱与自尊,责备了宽胸的罗怙之子。

2.30.3

किं त्वामन्यत वैदेहः पिता मे मिथिलाधिपः।
राम जामातरं प्राप्य स्त्रियं पुरुषविग्रहम् ॥ २.३०.३ ॥

罗摩啊!我的父亲、弥提拉之主毗提诃王得你为婿时,是否把你当作了男子身躯的女子?

2.30.4

अनृतं बत लोकोऽयमज्ञानाद् यदि वक्ष्यति।
तेजो नास्ति परं रामे तपतीव दिवाकरे ॥ २.३०.४ ॥

若这世界出于无知而说假话,说罗摩身上没有如炽热太阳般的至高光辉,那便是虚妄。

2.30.5

किं हि कृत्वा विषण्णस्त्वं कुतो वा भयमस्ति ते।
यत् परित्यक्तुकामस्त्वं मामनन्यपरायणाम् ॥ २.३०.५ ॥

你做了什么事而如此沮丧?你又因何而恐惧,竟想抛弃我这除你以外别无依靠的人?

2.30.6

द्युमत्सेनसुतं वीरं सत्यवन्तमनुव्रताम्।
सावित्रीमिव मां विद्धि त्वमात्मवशवर्तिनीम् ॥ २.३०.६ ॥

请视我如萨维特丽,她跟随了德尤玛特塞纳的英勇之子沙提耶梵,我是顺从你意志的忠贞妻子。

2.30.7

न त्वहं मनसा त्वन्यं द्रष्टास्मि त्वदृतेऽनघ।
त्वया राघव गच्छेयं यथान्या कुलपांसनी ॥ २.३०.७ ॥

无瑕者啊,除你之外,我连在心中也不会看别的男子。罗ghava啊,我将与你同行,不会像那个玷污家族的女子一样。

2.30.8

स्वयं तु भार्यां कौमारीं चिरमध्युषितां सतीम्।
शैलूष इव मां राम परेभ्यो दातुमिच्छसि ॥ २.३०.८ ॥

罗摩啊,你竟想把我这位自幼便长久与你共处的贞节妻子,像戏子一样交给别人。

2.30.9

यस्य पथ्यंचरामात्थ यस्य चार्थेऽवरुध्यसे।
त्वं तस्य भव वश्यश्च विधेयश्च सदानघ ॥ २.३०.९ ॥

无瑕者啊,你所说的那位有益之训导者,你为了他的缘故而被阻拦,你应当始终顺服于他,听从他。

2.30.10

स मामनादाय वनं न त्वं प्रस्थितुमर्हसि।
तपो वा यदि वारण्यं स्वर्गो वा स्यात् त्वया सह ॥ २.३०.१० ॥

你不应不带我而前往森林。无论那森林是苦修之地,还是有我与你同在便是天堂。

2.30.11

न च मे भविता तत्र कश्चित् पथि परिश्रमः।
पृष्ठतस्तव गच्छन्त्या विहारशयनेष्विव ॥ २.३०.११ ॥

在那里的路上,我跟随在你身后行走,也不会有任何疲惫,就如同躺在游乐的卧榻上一般。

2.30.12

कुशकाशशरेषीका ये च कण्टकिनो द्रुमाः।
तूलाजिनसमस्पर्शा मार्गे मम सह त्वया ॥ २.३०.१२ ॥

与你同行的路上,即便是吉祥草、芒草、芦苇和多刺的树木,对我而言也会像棉絮和鹿皮一样柔软。

2.30.13

महावातसमुद्भूतं यन्मामवकरिष्यति।
रजो रमण तन्मन्ये परार्घ्यमिव चन्दनम् ॥ २.३०.१३ ॥

啊,罗摩!大风扬起的尘土若覆盖于我,我便视之如最上等的檀香。

2.30.14

शाद्वलेषु यदा शिश्ये वनान्तर्वनगोचरा।
कुथास्तरणयुक्तेषु किं स्यात् सुखतरं ततः ॥ २.३०.१४ ॥

当你在林中草地上睡卧时,还有什么比铺着地毯与被褥的床榻更舒适呢?

2.30.15

पत्रं मूलं फलं यत्तु अल्पं वा यदि वा बहु।
दास्यसे स्वयमाहृत्य तन्मेऽमृतरसोपमम् ॥ २.३०.१५ ॥

无论是叶、根或果,多少不论,只要你亲自采来给我,对我来说便如甘露之味。

2.30.16

न मातुर्न पितुस्तत्र स्मरिष्यामि न वेश्मनः।
आर्तवान्युपभुञ्जाना पुष्पाणि च फलानि च ॥ २.३०.१६ ॥

在那里我将不再想念母亲,也不想念父亲,更不想念家,只以应时的花果为食。

2.30.17

न च तत्र ततः किंचिद् द्रष्टुमर्हसि विप्रियम्।
मत्कृते न च ते शोको न भविष्यामि दुर्भरा ॥ २.३०.१७ ॥

在那里,因我之故,你不必看见任何令人不快的事;你也不会悲伤,我也不会成为你的负担。

2.30.19

यस्त्वया सह स स्वर्गो निरयो यस्त्वया विना।
अथ मामेवमव्यग्रां वनं नैव नयिष्यसे।
विषमद्यैव पास्यामि मा वशं द्विषतां गमम् ॥ २.३०.१९ ॥

与你同在便是天堂,离开你便是地狱。如今你若不这般无忧地带我去森林,我今日便饮毒而死,不愿落入仇敌之手。

2.30.20

पश्चादपि हि दुःखेन मम नैवास्ति जीवितम्।
उज्झितायास्त्वया नाथ तदैव मरणं वरम् ॥ २.३०.२० ॥

即使之后,我也因悲痛而无生存之意。夫主啊,被你抛弃的我,此刻便死去更好。

2.30.21

इमं हि सहितुं शोकं मुहूर्तमपि नोत्सहे।
किं पुनर्दश वर्षाणि त्रीणि चैकं च दुःखिता ॥ २.३०.२१ ॥

这悲痛我连片刻也无法忍受,何况痛苦地度过十三年呢?

2.30.22

चुक्रोश पतिमायस्ता भृशमालिङ्ग्य सस्वरम् ॥ २.३०.२२ ॥

她悲痛地紧紧拥抱丈夫,放声痛哭。

2.30.23

सा विद्धा बहुभिर्वाक्यैर्दिग्धैरिव गजाङ्गना।
चिरसंनियतं बाष्पं मुमोचाग्निमिवारणिः ॥ २.३०.२३ ॥

她如母象被毒箭般的许多言语所刺,长久压抑的泪水便如同从钻木中迸出的火花,奔流而下。

2.30.24

तस्याः स्फटिकसंकाशं वारि संतापसम्भवम्।
नेत्राभ्यां परिसुस्राव पङ्कजाभ्यामिवोदकम् ॥ २.३०.२४ ॥

她的双眼流出如水晶般澄澈、因痛苦而生的泪水,犹如水从两朵莲花中流出。

2.30.25

तत्सितामलचन्द्राभं मुखमायतलोचनम्।
पर्यशुष्यत बाष्पेण जलोद्धृतमिवाम्बुजम् ॥ २.३०.२५ ॥

她那如洁白无瑕之月的面容,长目之中,因泪水而枯萎,宛如从水中拔出的莲花。

2.30.26

तां परिष्वज्य बाहुभ्यां विसंज्ञामिव दुःखिताम्।
उवाच वचनं रामः परिविश्वासयंस्तदा ॥ २.३०.२६ ॥

罗摩以双臂拥抱那悲痛、仿佛失去知觉的悉多,为她宽心,便说了这些话。

2.30.27

न देवि बत दुःखेन स्वर्गमप्यभिरोचये।
नहि मेऽस्ति भयं किंचित् स्वयम्भोरिव सर्वतः ॥ २.३०.२७ ॥

王后啊,因悲痛,我甚至不愿求取天界。对我而言,四面八方都无所畏惧,正如自生的梵天一般。

2.30.28

तव सर्वमभिप्रायमविज्ञाय शुभानने।
वासं न रोचयेऽरण्ये शक्तिमानपि रक्षणे ॥ २.३०.२८ ॥

吉祥面容的人啊,我不了解你的全部心意,虽然我有能力保护你,却不愿在森林中居住。

2.30.29

यत् सृष्टासि मया सार्धं वनवासाय मैथिलि।
न विहातुं मया शक्या प्रीतिरात्मवता यथा ॥ २.३०.२९ ॥

弥提罗的公主啊,既然你与我一同注定要过林居生活,我便不能抛弃你,正如克己之人不能舍弃他的爱一样。

2.30.30

धर्मस्तु गजनासोरु सद्भिराचरितः पुरा।
तं चाहमनुवर्तिष्ये यथा सूर्यं सुवर्चला ॥ २.३०.३० ॥

象鼻般大腿的人啊,法自古以来便为善人所遵行,我也将遵循它,正如苏伐尔遮拉追随太阳一般。

2.30.31

न खल्वहं न गच्छेयं वनं जनकनन्दिनि।
वचनं तन्नयति मां पितुः सत्योपबृंहितम् ॥ २.३०.३१ ॥

遮那伽之女啊,并非我不该去森林;父亲那由真理所坚定的话语,正引领我前往。

2.30.32

एष धर्मश्च सुश्रोणि पितुर्मातुश्च वश्यता।
आज्ञां चाहं व्यतिक्रम्य नाहं जीवितुमुत्सहे ॥ २.३०.३२ ॥

美臀的女子啊,这就是责任:顺从父母。违背他们的命令,我不愿活下去。

2.30.33

अस्वाधीनं कथं दैवं प्रकारैरभिराध्यते।
स्वाधीनं समतिक्रम्य मातरं पितरं गुरुम् ॥ २.३०.३३ ॥

不由自主的命运,用什么方法才能使其喜悦?违背自己所能顺从的母亲、父亲和师长,又如何能行?

2.30.34

यत्र त्रयं त्रयो लोकाः पवित्रं तत्समं भुवि।
नान्यदस्ति शुभापाङ्गे तेनेदमभिराध्यते ॥ २.३०.३४ ॥

在大地上,没有任何东西能与那承载三界的圣洁相比。吉目的女子啊,因此这才是被敬奉的。

2.30.35

न सत्यं दानमानौ वा यज्ञो वाप्याप्तदक्षिणाः।
तथा बलकराः सीते यथा सेवा पितुर्मता ॥ २.३०.३५ ॥

悉多啊,真实、布施、敬重,或附有足额酬金的祭祀,都不被认为能像侍奉父亲那样带来力量。

2.30.36

स्वर्गो धनं वा धान्यं वा विद्या पुत्राः सुखानि च।
गुरुवृत्त्यनुरोधेन न किंचिदपि दुर्लभम् ॥ २.३०.३६ ॥

天界、财富、谷物、学问、子嗣与种种快乐——对于遵从师长而侍奉者,没有什么是难以获得的。

2.30.37

देवगन्धर्वगोलोकान् ब्रह्मलोकांस्तथापरान्।
प्राप्नुवन्ति महात्मानो मातापितृपरायणाः ॥ २.३०.३७ ॥

以母亲和父亲为依归的大德之人,能够抵达诸神、乾闼婆与牛之界,梵天之界,以及其他诸界。

2.30.38

स मा पिता यथा शास्ति सत्यधर्मपथे स्थितः।
तथा वर्तितुमिच्छामि स हि धर्मः सनातनः ॥ २.३०.३८ ॥

我的父亲安住于真理与法之道,如何吩咐,我便愿如何行事;这正是永恒的法。

2.30.39

मम सन्ना मतिः सीते नेतुं त्वां दण्डकावनम्।
वसिष्यामीति सा त्वं मामनुयातुं सुनिश्चिता ॥ २.३०.३९ ॥

悉多啊,我已定下心意:要带你前往檀陀迦森林并在那里居住。而你也已坚定决心要跟随我。

2.30.40

सा हि दिष्टानवद्याङ्गि वनाय मदिरेक्षणे।
अनुगच्छस्व मां भीरु सहधर्मचरी भव ॥ २.३०.४० ॥

你这命运吉祥、肢体无瑕的人,醉人眼眸的人,胆怯的人啊:请随我往林中去吧,成为我共修法道的伴侣。

2.30.41

सर्वथा सदृशं सीते मम स्वस्य कुलस्य च।
व्यवसायमनुक्रान्ता कान्ते त्वमतिशोभनम् ॥ २.३०.४१ ॥

悉多啊,你的这个决定在各方面都与我和我的家族相称。亲爱的,你做出了极为美好的决定。

2.30.42

आरभस्व शुभश्रोणि वनवासक्षमाः क्रियाः।
नेदानीं त्वदृते सीते स्वर्गोऽपि मम रोचते ॥ २.३०.४२ ॥

你这美丽腰身的人啊,开始为林中生活做好相应的准备吧。悉多啊,如今没有你,即使天堂也不能使我喜悦。

2.30.43

ब्राह्मणेभ्यश्च रत्नानि भिक्षुकेभ्यश्च भोजनम्।
देहि चाशंसमानेभ्यः संत्वरस्व च मा चिरम् ॥ २.३०.४३ ॥

把珍宝施予婆罗门,把食物施予乞食者,也施予怀着希望等待的人们。快些,不要迟延。

2.30.44

भूषणानि महार्हाणि वरवस्त्राणि यानि च।
रमणीयाश्च ये केचित् क्रीडार्थाश्चाप्युपस्कराः ॥ २.३०.४४ ॥

贵重的饰物与上好的衣裳,凡是可爱的器物,以及供游戏娱乐的用具——

2.30.45

शयनीयानि यानानि मम चान्यानि यानि च।
देहि स्वभृत्यवर्गस्य ब्राह्मणानामनन्तरम् ॥ २.३०.४५ ॥

我的卧榻与车乘,以及其他的一切——先赠给你自己的仆从,然后再给婆罗门。

2.30.46

अनुकूलं तु सा भर्तुर्ज्ञात्वा गमनमात्मनः।
क्षिप्रं प्रमुदिता देवी दातुमेव प्रचक्रमे ॥ २.३०.४६ ॥

王后得知丈夫的离去对自己有利,大为欢喜,立即开始施舍财物。

2.30.47

ततः प्रहृष्टा प्रतिपूर्णमानसा
यशस्विनी भर्तुरवेक्ष्य भाषितम्।
धनानि रत्नानि च दातुमङ्गना
प्रचक्रमे धर्मभृतां मनस्विनी ॥ २.३०.४७ ॥

于是,这位心满意足、极为欢喜的贤德夫人,听从丈夫的吩咐,开始施舍财富与珠宝——她心志高远,是奉行正法者中最杰出的一位。