蚁垤《罗摩衍那》 · 篇 2.33
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
2.33.1
दत्त्वा तु सह वैदेह्या ब्राह्मणेभ्यो धनं बहु।
जग्मतुः पितरं द्रष्टुं सीतया सह राघवौ ॥ २.३३.१ ॥
二位罗怙之裔与吠德希一同将大量财物布施给婆罗门后,与悉多一起前去拜见父亲。
2.33.2
ततो गृहीते प्रेष्याभ्यामशोभेतां तदायुधे।
मालादामभिरासक्ते सीतया समलंकृते ॥ २.३३.२ ॥
随后,二件由仆从取走的兵器,挂着花环,经悉多装饰,熠熠生辉。
2.33.3
ततः प्रासादहर्म्याणि विमानशिखराणि च।
अभिरुह्य जनः श्रीमानुदासीनो व्यलोकयत् ॥ २.३३.३ ॥
于是,显贵之人登上宫殿、楼阁与高塔之顶,冷漠地注视着。
2.33.4
न हि रथ्याः सुशक्यन्ते गन्तुं बहुजनाकुलाः।
आरुह्य तस्मात् प्रासादाद् दीनाः पश्यन्ति राघवम् ॥ २.३३.४ ॥
街道人群拥挤,难以通行,于是悲伤的人们登上宫殿,望着罗怙之子。
2.33.5
पदातिं सानुजं दृष्ट्वा ससीतं च जनास्तदा।
ऊचुर्बहुजना वाचः शोकोपहतचेतसः ॥ २.३३.५ ॥
众人看到他与幼弟和悉多徒步而行,心为悲痛所伤,便说出了这些话。
2.33.6
यं यान्तमनुयाति स्म चतुरङ्गबलं महत्।
तमेकं सीतया सार्धमनुयाति स्म लक्ष्मणः ॥ २.३३.६ ॥
昔日他出行时,有庞大的四军随行;如今跟随他的,只有罗什曼那与悉多。
2.33.7
ऐश्वर्यस्य रसज्ञः सन् कामानां चाकरो महान्।
नेच्छत्येवानृतं कर्तुं वचनं धर्मगौरवात् ॥ २.३३.७ ॥
他虽知权势之味,又是欲望的大宝库,却因敬重法的尊严,不愿使自己的诺言成为虚假。
2.33.8
या न शक्या पुरा द्रष्टुं भूतैराकाशगैरपि।
तामद्य सीतां पश्यन्ति राजमार्गगता जनाः ॥ २.३३.८ ॥
昔日连空中行走的众生也不能见到的她,今日却被行走在王道上的人们看见了。
2.33.9
अङ्गरागोचितां सीतां रक्तचन्दनसेविनीम्।
वर्षमुष्णं च शीतं च नेष्यत्याशु विवर्णताम् ॥ २.३३.९ ॥
适于涂抹香膏、常用红檀香的悉多,将很快被雨水、酷热与寒冷折磨得面容憔悴。
2.33.10
अद्य नूनं दशरथः सत्त्वमाविश्य भाषते।
नहि राजा प्रियं पुत्रं विवासयितुमर्हति ॥ २.३३.१० ॥
今日达萨罗陀必是为某种力量所附体而说话,因为国王不该放逐他心爱的儿子。
2.33.11
निर्गुणस्यापि पुत्रस्य कथं स्याद् विनिवासनम्।
किं पुनर्यस्य लोकोऽयं जितो वृत्तेन केवलम् ॥ २.३३.११ ॥
即便是无德之子,又怎能被放逐?何况那位仅凭品行便已征服此世界的人呢?
2.33.12
आनृशंस्यमनुक्रोशः श्रुतं शीलं दमः शमः।
राघवं शोभयन्त्येते षड्गुणाः पुरुषर्षभम् ॥ २.३३.१२ ॥
仁慈、怜悯、博学、良好的品行、克己与平和——这六种德性装饰着人中雄牛罗怙之子。
2.33.13
तस्मात् तस्योपघातेन प्रजाः परमपीडिताः।
औदकानीव सत्त्वानि ग्रीष्मे सलिलसंक्षयात् ॥ २.३३.१३ ॥
因此,他受损时,臣民极为痛苦,正如夏季水干时水中的生物受苦一样。
2.33.14
पीडया पीडितं सर्वं जगदस्य जगत्पतेः।
मूलस्येवोपघातेन वृक्षः पुष्पफलोपगः ॥ २.३३.१४ ॥
整个世界因这位世界之主的苦痛而受苦,正如根部受损时,开花结果的树木受害。
2.33.15
मूलं ह्येष मनुष्याणां धर्मसारो महाद्युतिः।
पुष्पं फलं च पत्रं च शाखाश्चास्येतरे जनाः ॥ २.३३.१५ ॥
他确实是人类的根本,法的精华,大放光明;花、果、叶和枝条则是其他人。
2.33.16
ते लक्ष्मण इव क्षिप्रं सपत्न्यः सहबान्धवाः।
गच्छन्तमनुगच्छामो येन गच्छति राघवः ॥ २.३३.१६ ॥
我们将像罗什曼那一样迅速随行,与众妻和亲属一同跟随罗怙之子去往他所去的任何地方。
2.33.17
उद्यानानि परित्यज्य क्षेत्राणि च गृहाणि च।
एकदुःखसुखा राममनुगच्छाम धार्मिकम् ॥ २.३३.१७ ॥
我们舍弃园林、田地和房屋,同甘共苦,跟随正义的罗摩。
2.33.18
समुद्धृतनिधानानि परिध्वस्ताजिराणि च।
उपात्तधनधान्यानि हृतसाराणि सर्वशः ॥ २.३३.१८ ॥
宝藏被挖掘,庭院荒废,财富粮食被夺走,一切都失去了精华。
2.33.19
रजसाभ्यवकीर्णानि परित्यक्तानि दैवतैः।
मूषकैः परिधावद्भिरुद्बिलैरावृतानि च ॥ २.३३.१९ ॥
满布尘土,被诸神遗弃,老鼠奔走其间,洞中的生物纷纷爬出。
2.33.20
अपेतोदकधूमानि हीनसम्मार्जनानि च।
प्रणष्टबलिकर्मेज्यामन्त्रहोमजपानि च ॥ २.३३.२० ॥
水与烟火皆已断绝,洒扫废弃,祭祀、供奉、咒语、献祭与诵经都已停止。
2.33.21
दुष्कालेनेव भग्नानि भिन्नभाजनवन्ति च।
अस्मत्त्यक्तानि कैकेयी वेश्मानि प्रतिपद्यताम् ॥ २.३३.२१ ॥
仿佛被饥荒摧毁,器皿破碎,为我们所弃——愿这些房屋归于吉迦伊。
2.33.22
वनं नगरमेवास्तु येन गच्छति राघवः।
अस्माभिश्च परित्यक्तं पुरं सम्पद्यतां वनम् ॥ २.३३.२२ ॥
愿罗怙之子所往的森林成为城市,而我们所弃的这座城市成为森林。
2.33.23
बिलानि दंष्ट्रिणः सर्वे सानूनि मृगपक्षिणः।
त्यजन्त्वस्मद्भयाद्भीता गजाः सिंहा वनान्यपि ॥ २.३३.२३ ॥
愿一切獠牙猛兽离开它们的洞穴与山坡,鹿与鸟也离开;愿因我们的威慑而惊惶的象与狮,也离开森林。
2.33.24
अस्मत्त्यक्तं प्रपद्यन्तु सेव्यमानं त्यजन्तु च।
तृणमांसफलादानां देशं व्यालमृगद्विजम् ॥ २.३३.२४ ॥
愿它们前往我们所弃、常有人往来的地方,然后再离开——那片吃草、食肉与果实的生灵之地,有蛇、兽与鸟栖息之境。
2.33.25
प्रपद्यतां हि कैकेयी सपुत्रा सह बान्धवैः।
राघवेण वयं सर्वे वने वत्स्याम निर्वृताः ॥ २.३३.२५ ॥
愿吉凯伊与其子及亲族前往罗ghava处;我们都将安乐地住在森林中。
2.33.26
इत्येवं विविधा वाचो नानाजनसमीरिताः।
शुश्राव राघवः श्रुत्वा न विचक्रेऽस्य मानसम् ॥ २.३३.२६ ॥
罗ghava如此听到许多人所说的种种言语;听后,他心中并未有所定夺。
2.33.27
स तु वेश्म पुनर्मातुः कैलासशिखरप्रभम्।
अभिचक्राम धर्मात्मा मत्तमातङ्गविक्रमः ॥ २.३३.२७ ॥
于是那位心怀正法、勇猛如狂象的罗摩,再次走向母亲的居所,那居所如同吉罗娑峰般光辉。
2.33.28
विनीतवीरपुरुषं प्रविश्य तु नृपालयम्।
ददर्शावस्थितं दीनं सुमन्त्रमविदूरतः ॥ २.३३.२८ ॥
进入王宫,宫中满是谦恭的勇士,他看见不远处站立着悲伤的苏曼特罗。
2.33.29
प्रतीक्षमाणोऽभिजनं तदार्त-
मनार्तरूपः प्रहसन्निवाथ।
जगाम रामः पितरं दिदृक्षुः
पितुर्निदेशं विधिवच्चिकीर्षुः ॥ २.३३.२९ ॥
罗摩等待着悲伤的家人,容貌上不显忧戚,仿佛含笑,他想去见父亲,并按礼仪执行父亲的命令而前往。
2.33.30
तत्पूर्वमैक्ष्वाकसुतो महात्मा
रामो गमिष्यन् नृपमार्तरूपम्।
व्यतिष्ठत प्रेक्ष्य तदा सुमन्त्रं
पितुर्महात्मा प्रतिहारणार्थम् ॥ २.३३.३० ॥
此时,伊刹婆迦族的大德之子罗摩,正要去见处于悲痛中的父王,见到苏曼特罗,便停下来,好让父亲得知消息。
2.33.31
पितुर्निदेशेन तु धर्मवत्सलो
वनप्रवेशे कृतबुद्धिनिश्चयः।
स राघवः प्रेक्ष्य सुमन्त्रमब्रवी-
न्निवेदयस्वागमनं नृपाय मे ॥ २.३३.३१ ॥
遵从父命,热爱法的罗摩已坚定决心进入森林。那位罗怙后裔看着苏曼特拉说:“请向国王禀报我的到来。”