Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 2.38

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

2.38.1

तस्यां चीरं वसानायां नाथवत्यामनाथवत्।
प्रचुक्रोश जनः सर्वो धिक् त्वां दशरथं त्विति ॥ २.३८.१ ॥

众人见她身着树皮衣,仿佛无依无靠,尽管她有夫君,于是齐声呼喊:“十车王,你真可耻!”

2.38.2

तेन तत्र प्रणादेन दुःखितः स महीपतिः।
चिच्छेद जीविते श्रद्धां धर्मे यशसि चात्मनः ॥ २.३८.२ ॥

国王听到这喧哗,心中悲痛,便在那里对自己的生命、法义与名誉失去了信心。

2.38.3

स निःश्वस्योष्णमैक्ष्वाकस्तां भार्यामिदमब्रवीत्।
कैकेयि कुशचीरेण न सीता गन्तुमर्हति ॥ २.३८.३ ॥

那位甘蔗王朝的国王长叹一声,对妻子说:“迦柯伊,悉多不应穿着吉祥草树皮衣走入森林。”

2.38.4

सुकुमारी च बाला च सततं च सुखोचिता।
नेयं वनस्य योग्येति सत्यमाह गुरुर्मम ॥ २.३८.४ ॥

她柔弱年少,一向生活在安乐之中,不宜住在森林里——我的老师确实这样说过。

2.38.5

इयं हि कस्यापि करोति किंचित्
तपस्विनी राजवरस्य पुत्री।
या चीरमासाद्य जनस्य मध्ये
स्थिता विसंज्ञा श्रमणीव काचित् ॥ २.३८.५ ॥

这位最尊贵的国王之女,形同苦行者,又能为谁做什么呢?她得了树皮衣,在众人之中茫然站立,宛如某位苦修的女子。

2.38.6

चीराण्यपास्याज्जनकस्य कन्या
नेयं प्रतिज्ञा मम दत्तपूर्वा।
यथासुखं गच्छतु राजपुत्री
वनं समग्रा सह सर्वरत्नैः ॥ २.३८.६ ॥

让这位遮那伽王之女脱下树皮衣吧;这不是我先前许下的誓言。让这位公主带着全部珠宝,安适地前往森林。

2.38.7

अजीवनार्हेण मया नृशंसा
कृता प्रतिज्ञा नियमेन तावत्।
त्वया हि बाल्यात् प्रतिपन्नमेतत्
तन्मा दहेद् वेणुमिवात्मपुष्पम् ॥ २.३८.७ ॥

我不配活着,先前依约立下了那残酷的誓言。你从童年起就接受了它。愿它如竹子被自身的花焚烧一样焚烧我。

2.38.8

रामेण यदि ते पापे किंचित्कृतमशोभनम्।
अपकारः क इह ते वैदेह्या दर्शितोऽधमे ॥ २.३८.८ ॥

罪人啊,如果罗摩对你做了什么不当之事,那么毗提诃在此对你造成了什么伤害,卑贱的女人?

2.38.9

मृगीवोत्फुल्लनयना मृदुशीला मनस्विनी।
अपकारं कमिव ते करोति जनकात्मजा ॥ २.३८.९ ॥

眼睛如鹿般睁大,性情温柔,心志高远的遮那伽之女,对你做了什么伤害?

2.38.10

ननु पर्याप्तमेवं ते पापे रामविवासनम्।
किमेभिः कृपणैर्भूयः पातकैरपि ते कृतैः ॥ २.३८.१० ॥

罪人啊,罗摩的流放对你来说还不够吗?你已经犯下的这些卑劣罪行,还能再带来什么?

2.38.11

प्रतिज्ञातं मया तावत् त्वयोक्तं देवि शृण्वता।
रामं यदभिषेकाय त्वमिहागतमब्रवीः ॥ २.३८.११ ॥

王后啊,我先前已经允诺了,而你在我聆听时也说了同样的话。你为罗摩的灌顶来到这里时,说的正是这些。

2.38.12

तत्त्वेतत् समतिक्रम्य निरयं गन्तुमिच्छसि।
मैथिलीमपि या हि त्वमीक्षसे चीरवासिनीम् ॥ २.३८.१२ ॥

然而你若违背此誓,便想堕入地狱;你竟还在看着身穿树皮衣的摩提里。

2.38.13

एवं ब्रुवन्तं पितरं रामः सम्प्रस्थितो वनम्।
अवाक्शिरसमासीनमिदं वचनमब्रवीत् ॥ २.३८.१३ ॥

父亲如此说话时,准备前往森林的罗摩对低头端坐的父亲说了这番话。

2.38.14

इयं धार्मिक कौसल्या मम माता यशस्विनी।
वृद्धा चाक्षुद्रशीला च न च त्वां देव गर्हते ॥ २.३८.१४ ॥

这位正直而名声显赫的考莎厘雅是我的母亲。她年迈,品性高尚;陛下啊,她并不责怪您。

2.38.15

मया विहीनां वरद प्रपन्नां शोकसागरम्।
अदृष्टपूर्वव्यसनां भूयः सम्मन्तुमर्हसि ॥ २.३८.१५ ॥

赐福的君王啊,她与我分离,陷入悲痛的海洋,遭受从未见过的灾难,您应当再次安慰她。

2.38.16

पुत्रशोकं यथा नर्च्छेत् त्वया पूज्येन पूजिता।
मां हि संचिन्तयन्ती सा त्वयि जीवेत् तपस्विनी ॥ २.३८.१६ ॥

您这位尊贵者若敬重她,她便不会遭受丧子之痛。那位时时思念我的苦行女,应当依靠您而活下去。

2.38.17

इमां महेन्द्रोपम जातगर्धिनीं
तथा विधातुं जननीं ममार्हसि।
यथा वनस्थे मयि शोककर्शिता
न जीवितं न्यस्य यमक्षयं व्रजेत् ॥ २.३८.१७ ॥

您如同大因陀罗一般,应当这样对待我这渴望着我的母亲,使我在森林中时,她不因悲伤而消瘦,舍弃生命、前往阎摩之境。