蚁垤《罗摩衍那》 · 篇 2.43
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
2.43.1
ततः समीक्ष्य शयने सन्नं शोकेन पार्थिवम्।
कौसल्या पुत्रशोकार्ता तमुवाच महीपतिम् ॥ २.४३.१ ॥
此时,看到国王因悲痛而倒卧在床上,丧子之痛折磨着的考莎厘雅对这位大地之主说道。
2.43.2
राघवे नरशार्दूले विषं मुक्त्वाहिजिह्मगा।
विचरिष्यति कैकेयी निर्मुक्तेव हि पन्नगी ॥ २.४३.२ ॥
人中之虎啊!考凯依在罗迦婆身上喷吐毒液之后,那弯曲如蛇的凯凯伊将四处游荡,就像蜕去皮的蛇。
2.43.3
विवास्य रामं सुभगा लब्धकामा समाहिता।
त्रासयिष्यति मां भूयो दुष्टाहिरिव वेश्मनि ॥ २.४३.३ ॥
放逐了罗摩之后,那位得偿所愿、意志坚定的幸运的凯凯伊,将再次惊吓我,就像屋中的恶蛇。
2.43.4
अथास्मिन् नगरे रामश्चरन् भैक्षं गृहे वसेत्।
कामकारो वरं दातुमपि दासं ममात्मजम् ॥ २.४३.४ ॥
而罗摩在这城中会四处乞食,寄居在某户人家;那随意妄为的女人甚至可能施予恩赐,让我的儿子也成为仆人。
2.43.5
पातयित्वा तु कैकेय्या रामं स्थानाद् यथेष्टतः।
प्रविद्धो रक्षसां भागः पर्वणीवाहिताग्निना ॥ २.४३.५ ॥
凯凯伊确实使罗摩从其位置上坠落,随意将他放逐,就像在节日里,点燃圣火之人抛弃罗刹的供品一样。
2.43.6
नागराजगतिर्वीरो महाबाहुर्धनुर्धरः।
वनमाविशते नूनं सभार्यः सहलक्ष्मणः ॥ २.४३.६ ॥
这位步态如象王、臂膀雄壮、手持弓箭的英雄,必定会与妻子和罗什曼那一同进入森林。
2.43.7
वने त्वदृष्टदुःखानां कैकेय्यनुमते त्वया।
त्यक्तानां वनवासाय कान्यावस्था भविष्यति ॥ २.४३.७ ॥
你在凯迦伊的同意下,将他们抛弃于林中流放。从未经历过苦难的人,将会怎样呢?
2.43.8
ते रत्नहीनास्तरुणाः फलकाले विवासिताः।
कथं वत्स्यन्ति कृपणाः फलमूलैः कृताशनाः ॥ २.४३.८ ॥
那些失去珠宝的年轻人在果实成熟之时被流放。可怜的他们,将如何以果实与根茎为食而生活?
2.43.9
अपीदानीं स कालः स्यान्मम शोकक्षयः शिवः।
सहभार्यं सह भ्रात्रा पश्येयमिह राघवम् ॥ २.४३.९ ॥
或许那吉祥的时刻如今将到来,我的忧愁终结,我将与妻子和兄弟一同在此见到罗怙之子。
2.43.10
श्रुत्वैवोपस्थितौ वीरौ कदायोध्या भविष्यति।
यशस्विनी हृष्टजना सूच्छ्रितध्वजमालिनी ॥ २.४३.१० ॥
听闻两位英雄已经归来,光荣的阿逾陀何时才会充满欢乐的人群,装饰着高挂的旗幡与花环?
2.43.11
कदा प्रेक्ष्य नरव्याघ्रावरण्यात् पुनरागतौ।
भविष्यति पुरी हृष्टा समुद्र इव पर्वणि ॥ २.४३.११ ॥
何时,见到从林中再度归来的两位人中猛虎,这座城市才会如月圆之时的大海般欢欣?
2.43.12
कदायोध्यां महाबाहुः पुरीं वीरः प्रवेक्ष्यति।
पुरस्कृत्य रथे सीतां वृषभो गोवधूमिव ॥ २.४३.१२ ॥
那臂膀强健的英雄何时进入阿逾陀城,在车中将悉多置于前方,如公牛在前引领母牛一般?
2.43.13
कदा प्राणिसहस्राणि राजमार्गे ममात्मजौ।
लाजैरवकरिष्यन्ति प्रविशन्तावरिंदमौ ॥ २.४३.१३ ॥
当我那两位降伏敌人的儿子进入城中时,大道上成千上万的生灵何时才会向他们撒下爆米花?
2.43.14
प्रविशन्तौ कदायोध्यां द्रक्ष्यामि शुभकुण्डलौ।
उदग्रायुधनिस्त्रिंशौ सशृङ्गाविव पर्वतौ ॥ २.४३.१४ ॥
我何时才能看到他们二人,戴着吉祥耳环,进入阿逾陀,高举兵器与刀剑,如同两座有山峰的大山?
2.43.15
कदा सुमनसः कन्या द्विजातीनां फलानि च।
प्रदिशन्त्यः पुरीं हृष्टाः करिष्यन्ति प्रदक्षिणम् ॥ २.४३.१५ ॥
何时那些持花的少女,欢喜地向再生族献上果实,绕城行右绕礼?
2.43.16
कदा परिणतो बुद्ध्या वयसा चामरप्रभाः।
अभ्युपैष्यति धर्मात्मा सुवर्ष इव लालयन् ॥ २.४३.१६ ॥
那位心志与年岁皆已成熟、具有诸神光辉的正法之士,何时会像降雨的云一样呵护万民,走向王座?
2.43.17
निःसंशयं मया मन्ये पुरा वीर कदर्यया।
पातुकामेषु वत्सेषु मातॄणां शातिताः स्तनाः ॥ २.४३.१७ ॥
勇士啊,我想这无疑是从前某个吝啬的女人,在小牛想吮奶之时,割断了母牛的乳头。
2.43.18
साहं गौरिव सिंहेन विवत्सा वत्सला कृता।
कैकेय्या पुरुषव्याघ्र बालवत्सेव गौर्बलात् ॥ २.४३.१८ ॥
人中之虎啊,就像母牛被狮子强行与小牛分开,我这满怀慈爱的人,被甘氏夺去了我的孩儿(儿子),仿佛有幼犊的母牛被硬生生夺走。
2.43.19
नहि तावद्गुणैर्जुष्टं सर्वशास्त्रविशारदम्।
एकपुत्रा विना पुत्रमहं जीवितुमुत्सहे ॥ २.४३.१९ ॥
没有一个具备德行、精通一切经典的儿子,我这个只有一子的母亲不敢再活下去。
2.43.20
न हि मे जीविते किंचित् सामर्थ्यमिह कल्प्यते।
अपश्यन्त्याः प्रियं पुत्रं लक्ष्मणं च महाबलम् ॥ २.४३.२० ॥
若不见我心爱的儿子和大力的罗什曼那,我的生命中将不再有任何力量。
2.43.21
अयं हि मां दीपयतेऽद्य वह्नि-
स्तनूजशोकप्रभवो महाहितः।
महीमिमां रश्मिभिरुत्तमप्रभो
यथा निदाघे भगवान् दिवाकरः ॥ २.४३.२१ ॥
今日,这场因失子之痛而生的巨大灾火焚烧着我,正如夏日里光辉至上的圣日以它的光芒灼烤大地。