Vedyatra वेदयात्रा
搜索

蚁垤《罗摩衍那》 · 篇 2.47

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

2.47.1

प्रभातायां तु शर्वर्यां पौरास्ते राघवं विना।
शोकोपहतनिश्चेष्टा बभूवुर्हतचेतसः ॥ २.४७.१ ॥

天明之时,没有罗怙之裔(罗摩)的城中百姓被悲痛击垮,僵立不动,心神仿佛已被摧折。

2.47.2

शोकजाश्रुपरिद्यूना वीक्षमाणास्ततस्ततः।
आलोकमपि रामस्य न पश्यन्ति स्म दुःखिताः ॥ २.४७.२ ॥

悲泣的眼泪使他们憔悴,这些悲伤的人四处张望,却连罗摩的身影也见不到。

2.47.3

ते विषादार्तवदना रहितास्तेन धीमता।
कृपणाः करुणा वाचो वदन्ति स्म मनीषिणः ॥ २.४७.३ ॥

失去那位智慧的罗摩,面容因忧愁而憔悴,这些有见识的人开始说出悲切而充满怜悯的话语。

2.47.4

धिगस्तु खलु निद्रां तां ययापहतचेतसः।
नाद्य पश्यामहे रामं पृथूरस्कं महाभुजम् ॥ २.४७.४ ॥

可恨那使我们心神被夺的睡眠!今日我们再也见不到胸膛宽阔、双臂有力的罗摩了。

2.47.5

कथं रामो महाबाहुः स तथावितथक्रियः।
भक्तं जनमभित्यज्य प्रवासं तापसो गतः ॥ २.४७.५ ॥

大臂的罗摩,言行一致之人,怎能舍弃忠诚的百姓,化作苦行者前往流放之地?

2.47.6

यो नः सदा पालयति पिता पुत्रानिवौरसान्।
कथं रघूणां स श्रेष्ठस्त्यक्त्वा नो विपिनं गतः ॥ २.४७.६ ॥

他一向如父亲护佑亲生之子般护佑我们,罗怙族中最杰出的罗摩,怎能舍弃我们,前往森林?

2.47.7

इहैव निधनं याम महाप्रस्थानमेव वा।
रामेण रहितानां नो किमर्थं जीवितं हितम् ॥ २.४७.७ ॥

我们或在此处死去,或行大舍离。失去罗摩的我们,生存又有何益?

2.47.8

सन्ति शुष्काणि काष्ठानि प्रभूतानि महान्ति च।
तैः प्रज्वाल्य चितां सर्वे प्रविशामोऽथवा वयम् ॥ २.४७.८ ॥

这里有许多干燥的大木柴。用它们点燃柴堆,我们都走进去,或者就这样做。

2.47.9

किं वक्ष्यामो महाबाहुरनसूयः प्रियंवदः।
नीतः स राघवोऽस्माभिरिति वक्तुं कथं क्षमम् ॥ २.४७.९ ॥

我们将如何说?说我们任由那臂力强大、不妒忌、言语温和的罗怙王族之子被带走——这样说怎么合适呢?

2.47.10

सा नूनं नगरी दीना दृष्ट्वास्मान् राघवं विना।
भविष्यति निरानन्दा सस्त्रीबालवयोऽधिका ॥ २.४७.१० ॥

那座城市必定会因看见我们而失去罗摩,变得凄惨而无欢——即使它充满了妇女、孩童和老人。

2.47.11

निर्यातास्तेन वीरेण सह नित्यं महात्मना।
विहीनास्तेन च पुनः कथं द्रक्ष्याम तां पुरीम् ॥ २.४७.११ ॥

我们常与那位英雄、大德之人同行出发;如今失去他,我们怎样才能再见那座城市?

2.47.12

इतीव बहुधा वाचो बाहुमुद्यम्य ते जनाः।
विलपन्ति स्म दुःखार्ता हृतवत्सा इवाग्र्यगाः ॥ २.४७.१२ ॥

他们如此多方说着,举起双臂,被悲痛折磨的众人哀号起来,如同失去小牛的上等母牛。

2.47.13

ततो मार्गानुसारेण गत्वा किंचित् ततः क्षणम्।
मार्गनाशाद् विषादेन महता समभिप्लुताः ॥ २.४७.१३ ॥

随后他们沿着车辙走了一段路、片刻;但路迹既失,便被巨大的忧伤所淹没。

2.47.14

रथमार्गानुसारेण न्यवर्तन्त मनस्विनः।
किमिदं किं करिष्यामो दैवेनोपहता इति ॥ २.४७.१४ ॥

这些心胸高远的人循着车辙返回,说道:“这是怎么回事?我们该怎么办?我们被命运所击倒了!”

2.47.15

तदा यथागतेनैव मार्गेण क्लान्तचेतसः।
अयोध्यामगमन् सर्वे पुरीं व्यथितसज्जनाम् ॥ २.४७.१५ ॥

于是众人心力交瘁,循着来时的路,返回了阿逾陀城,那里的善良之人都满怀忧伤。

2.47.16

आलोक्य नगरीं तां च क्षयव्याकुलमानसाः।
आवर्तयन्त तेऽश्रूणि नयनैः शोकपीडितैः ॥ २.४७.१६ ॥

看到那座城市,心中因失落之感而慌乱,他们在悲伤折磨的眼中强忍泪水。

2.47.17

एषा रामेण नगरी रहिता नातिशोभते।
आपगा गरुडेनेव ह्रदादुद्धृतपन्नगा ॥ २.४७.१७ ॥

失去罗摩的这座城市已不再那么光彩照人,就像河流被迦楼罗从湖中夺走了蛇一样。

2.47.18

चन्द्रहीनमिवाकाशं तोयहीनमिवार्णवम्।
अपश्यन् निहतानन्दं नगरं ते विचेतसः ॥ २.४७.१८ ॥

如同无月的天空、无水的大海,他们看到那座失去欢乐的城市,心神慌乱。

2.47.19

ते तानि वेश्मानि महाधनानि
दुःखेन दुःखोपहता विशन्तः।
नैव प्रजग्मुः स्वजनं परं वा
निरीक्ष्यमाणाः प्रविनष्टहर्षाः ॥ २.४७.१९ ॥

他们被悲痛击倒,满怀哀伤地走进那些富饶的房屋;既不去find亲人,也不去他人那里,看上去已失去了全部欢乐。