蚁垤《罗摩衍那》 · 篇 2.57
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
2.57.1
कथयित्वा सुदुह्ख आर्तः सुमन्त्रेण चिरम् सह ।
रामे दक्षिण कूलस्थे जगाम स्व गृहम् गुहः ॥ २.५७.१ ॥
与苏曼特罗长谈之后,极度悲伤的古诃在罗摩抵达南岸时返回了自己的家。
2.57.2
भरद्वाजाभिगमनम् प्रयागे च सहासनम् ।
आगिरेर्गमनम् तेषाम् तत्रस्थैरभिलक्षितम् ॥ २.५७.२ ॥
他们在普拉耶加拜访跋陀若阁,一同就座,并朝山的方向前行,这些都被在场的人看到了。
2.57.3
अनुज्ञातः सुमन्त्रः अथ योजयित्वा हय उत्तमान् ।
अयोध्याम् एव नगरीम् प्रययौ गाढ दुर्मनाः ॥ २.५७.३ ॥
得到允许后,苏曼特罗套上良马,心情极度沮丧地向阿逾陀城出发了。
2.57.4
स वनानि सुगन्धीनि सरितः च सराम्सि च ।
पश्यन्न् अतिययौ शीघ्रम् ग्रामाणि नगराणि च ॥ २.५७.४ ॥
他一边观看芬芳的森林、河流和湖泊,一边迅速穿过村庄和城镇。
2.57.5
ततः साय अह्न समये तृतीये अहनि सारथिः ।
अयोध्याम् समनुप्राप्य निरानन्दाम् ददर्श ह ॥ २.५७.५ ॥
第三天傍晚,御者抵达阿逾陀城,见它毫无欢欣。
2.57.6
स शून्याम् इव निह्शब्दाम् दृष्ट्वा परम दुर्मनाः ।
सुमन्त्रः चिन्तयाम् आस शोक वेग समाहतः ॥ २.५७.६ ॥
看到它空寂无声,苏曼特罗深感沮丧,被悲痛的力量所击中,陷入沉思。
2.57.7
कच्चिन् न सगजा साश्वा सजना सजन अधिपा ।
राम सम्ताप दुह्खेन दग्धा शोक अग्निना पुरी ॥ २.५७.७ ॥
这座城市连同象、马、百姓及其首领,是否已因罗摩的离别之苦与忧伤,在悲痛之火中焚毁了?
2.57.8
नगरद्वारमासाद्य त्वरितः प्रविवेश ह ॥ २.५७.८ ॥
到达城门,他急忙走了进去。
2.57.9
सुमन्त्रम् अभियान्तम् तम् शतशो अथ सहस्रशः ।
क्व रामैति पृच्चन्तः सूतम् अभ्यद्रवन् नराः ॥ २.५७.९ ॥
众人看见苏曼特罗走近,成百上千的人跑向这位御者,问道:“罗摩在哪里?”
2.57.10
तेषाम् शशम्स गङ्गायाम् अहम् आपृच्च्य राघवम् ।
अनुज्ञातः निवृत्तः अस्मि धार्मिकेण महात्मना ॥ २.५७.१० ॥
我在恒河边告诉他们:我已向罗怙之子告别,蒙这位正直的大德许可,于是返回了。
2.57.11
ते तीर्णा इति विज्ञाय बाष्प पूर्ण मुखा जनाः ।
अहो धिग् इति निश्श्वस्य हा राम इति च चुक्रुशुः ॥ २.५७.११ ॥
众人得知他们已渡过河去,个个泪流满面,叹息道:“唉,可耻!”又呼喊:“啊,罗摩!”
2.57.12
शुश्राव च वचः तेषाम् बृन्दम् बृन्दम् च तिष्ठताम् ।
हताः स्म खलु ये न इह पश्यामैति राघवम् ॥ २.५७.१२ ॥
他听见一群群站立的人们说:“我们这些看不见罗怙之子的人,真的完了!”
2.57.13
दान यज्ञ विवाहेषु समाजेषु महत्सु च ।
न द्रक्ष्यामः पुनर् जातु धार्मिकम् रामम् अन्तरा ॥ २.५७.१३ ॥
在布施、祭祀、婚礼与盛大集会中,我们再也见不到守法的罗摩了。
2.57.15
किम् समर्थम् जनस्य अस्य किम् प्रियम् किम् सुख आवहम् ।
वात अयन गतानाम् च स्त्रीणाम् अन्वन्तर आपणम् ।
राम शोक अभितप्तानाम् शुश्राव परिदेवनम् ॥ २.५७.१५ ॥
这百姓还有什么可相宜、可珍爱、可带来安乐的?市集之中,妇人们为罗摩悲痛欲绝,哀哭之声四起。
2.57.16
स राज मार्ग मध्येन सुमन्त्रः पिहित आननः ।
यत्र राजा दशरथः तत् एव उपययौ गृहम् ॥ २.५७.१६ ॥
苏曼陀罗蒙着面,穿过御道中央,径直来到国王十车王所在的宫室。
2.57.17
सो अवतीर्य रथात् शीघ्रम् राज वेश्म प्रविश्य च ।
कक्ष्याः सप्त अभिचक्राम महा जन समाकुलाः ॥ २.५७.१७ ॥
他迅速下车,进入王宫,穿过挤满众人的七重庭院。
2.57.18
हर्म्यैर्विमानैः प्रासादैरवेक्ष्याथ समागतम् ।
हाहाकारकृता नार्यो रामदर्शनकर्शिताः ॥ २.५७.१८ ॥
从楼阁、车亭与殿堂中望见他到来,妇人们惊呼“哎呀”,因渴望再见罗摩而憔悴不堪。
2.57.19
आयतैर्विमलैर्नेत्रैरश्रुवेगपरिप्लुतैः ।
अन्योन्यमभिवीक्षन्तेऽव्यक्तमार्ततराः स्त्रीयः ॥ २.५७.१९ ॥
大而清澈的双眼被泪水奔涌淹没,极度悲伤的妇人们彼此相望,却看不清楚。
2.57.20
ततः दशरथ स्त्रीणाम् प्रासादेभ्यः ततः ततः ।
राम शोक अभितप्तानाम् मन्दम् शुश्राव जल्पितम् ॥ २.५७.२० ॥
于是,他从十车王诸妻的楼台上隐约听到了那些因罗摩而悲痛欲焚之人的哀哭。
2.57.21
सह रामेण निर्यातः विना रामम् इह आगतः ।
सूतः किम् नाम कौसल्याम् शोचन्तीम् प्रति वक्ष्यति ॥ २.५७.२१ ॥
与罗摩同行的御者,如今没有罗摩便回到这里。他究竟要如何对悲伤的考尔莎雅说呢?
2.57.22
यथा च मन्ये दुर्जीवम् एवम् न सुकरम् ध्रुवम् ।
आच्चिद्य पुत्रे निर्याते कौसल्या यत्र जीवति ॥ २.५७.२२ ॥
依我看,这样活着确实艰难;然而儿子离去之后,考尔莎雅仍然活着。
2.57.23
सत्य रूपम् तु तत् वाक्यम् राज्ञः स्त्रीणाम् निशामयन् ।
प्रदीप्तम् इव शोकेन विवेश सहसा गृहम् ॥ २.५७.२३ ॥
他听到王之诸妻那番话——其形式真实无误——便忽然走进屋中,仿佛被悲痛燃烧一般。
2.57.24
स प्रविश्य अष्टमीम् कक्ष्याम् राजानम् दीनम् आतुलम् ।
पुत्र शोक परिम्लानम् अपश्यत् पाण्डुरे गृहे ॥ २.५७.२४ ॥
他走进第八间内室,看见国王——悲苦无比,因失子之痛而憔悴——身处那白色的房间中。
2.57.25
अभिगम्य तम् आसीनम् नर इन्द्रम् अभिवाद्य च ।
सुमन्त्रः राम वचनम् यथा उक्तम् प्रत्यवेदयत् ॥ २.५७.२५ ॥
苏曼陀罗走近端坐的人主,向他行礼,并将罗摩的话一字不差地转告。
2.57.26
स तूष्णीम् एव तत् श्रुत्वा राजा विभ्रान्त चेतनः ।
मूर्चितः न्यपतत् भूमौ राम शोक अभिपीडितः ॥ २.५७.२६ ॥
国王默默听完,神志恍惚,昏厥倒地,被对罗摩的悲痛所压倒。
2.57.27
ततः अन्तः पुरम् आविद्धम् मूर्चिते पृथिवी पतौ ।
उद्धृत्य बाहू चुक्रोश नृपतौ पतिते क्षितौ ॥ २.५७.२७ ॥
此时,大地之主昏厥倒地,后宫顿时骚乱;国王倒在地上,众人举起双臂哭喊起来。
2.57.28
सुमित्रया तु सहिता कौसल्या पतितम् पतिम् ।
उत्थापयाम् आस तदा वचनम् च इदम् अब्रवीत् ॥ २.५७.२८ ॥
于是,考莎厘雅与苏弥陀一起扶起倒下的丈夫,并说了这些话。
2.57.29
इमम् तस्य महा भाग दूतम् दुष्कर कारिणः ।
वन वासात् अनुप्राप्तम् कस्मान् न प्रतिभाषसे ॥ २.५७.२९ ॥
大福之人啊!这位完成艰难功业者的使者已从林中流放归来,你为何不回答?
2.57.30
अद्य इमम् अनयम् कृत्वा व्यपत्रपसि राघव ।
उत्तिष्ठ सुकृतम् ते अस्तु शोके न स्यात् सहायता ॥ २.५७.३० ॥
罗怙之子啊!你now做了这不义之事而感到羞愧。起来吧,愿你的善业长存;愿在这悲痛中没有人相助。
2.57.31
देव यस्या भयात् रामम् न अनुपृच्चसि सारथिम् ।
न इह तिष्ठति कैकेयी विश्रब्धम् प्रतिभाष्यताम् ॥ २.५७.३१ ॥
陛下!你因畏惧谁而不向御者询问罗摩,那个人考凯依不在这里;请让他无所畏惧地回答。
2.57.32
सा तथा उक्त्वा महा राजम् कौसल्या शोक लालसा ।
धरण्याम् निपपात आशु बाष्प विप्लुत भाषिणी ॥ २.५७.३२ ॥
大王如此说罢,充满悲伤渴望的憍莎罗立即倒在地上,泪水哽咽地说着话。
2.57.33
एवम् विलपतीम् दृष्ट्वा कौसल्याम् पतिताम् भुवि ।
पतिम् च अवेक्ष्य ताः सर्वाः सुस्वरम् रुरुदुः स्त्रियः ॥ २.५७.३३ ॥
见憍莎罗如此哀哭倒在地上,又看着丈夫,所有的女子都放声大哭。
2.57.34
ततः तम् अन्तः पुर नादम् उत्थितम् ।
समीक्ष्य वृद्धाः तरुणाः च मानवाः ।
स्त्रियः च सर्वा रुरुदुः समन्ततः ।
पुरम् तदा आसीत् पुनर् एव सम्कुलम् ॥ २.५७.३४ ॥
此时,听见从后宫升起的那片哭声,老人与少年、男子与所有女子四处哭泣;城中再次充满喧嚣。